________________
कोकिलविलोचनच्छविबभ्रूणि चारुणयति सांध्ये भुवनमर्चिषि, यथाप्रधानमुन्मिषत्सु ग्रहग्रामेषु, वनमहिषमलीमसवपुषि चे मुषिततारकापथप्रथिम्नि कालिमानमातन्वति शार्वरे तमसि, अतनुतिमिरतिरोहितहरिततासु गहनता यान्तीषु वनराजिषु, रजनिजलजालबिन्दुजनितजडिम्नि बहलवनकुसुमपरिमलानुमितगमने चलितलताविटपगहेने प्रवृत्ते च पवने, निद्रानिभृतपतत्रिणि त्रियामामुखे महाश्वेता मन्दमन्दमुत्थाय भगवतीमुपास्य पश्चिमा संध्यां कमण्डलुजलेन प्रक्षालितचरणा वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय सकुसुमं प्रसवणजलाञ्जलिमवकीर्य कृतसंध्याप्रणामस्तस्मिन्द्वितीये शिलातले मूदुभिलतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्यां पुनस्तमेव मनसा महाश्वेतावृत्तान्तमन्वभावयत् । आसीच्चास्य मनस्येवम् - 'अंयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः -
***********
कोकिलेति । कोकिला वनप्रियास्तेषां विलोचनानि नेत्राणि तेषां छविः कान्तिस्तद्वद्धभूणि पिङ्गलानि । पुनः केषु । ग्रहग्रामेषडुसमूहेषु यथाप्रधानं यथामुख्यमुन्मिषत्सु विकसत्सु । पुनः कस्मिन् । शावरे शर्वरीसंबन्धिनि तमस्यन्धकारे कालिमानं श्यामलिमानमातन्वति विस्तारयति सति । अथ तमो विशिनष्टि - वनेति । वनस्यारण्यस्य यो महिषो रक्ताक्षस्तद्वन्मलीमसं वपुर्यस्य तत्तस्मिन् । अत एव मुषितस्तारकापथस्याकाशमार्गस्य प्रथिमा विस्तारो येन तत्तस्मिन् । पुनः कासु । वनराजिष्वरण्यश्रेणिसु गहनतामकलनीयतां यान्तीषु गच्छन्तीषु सत्सु । अतनु यत्तिमिरं तमस्तेन तिरोहिताच्छादिता हरितता नीलिमा यासु । पुनः कस्मिन् । पवने वायौ प्रवृत्ते वहमाने च सति । अथ पवनस्य शीतत्वमन्दत्वसुगन्धित्वानि वर्णयितुमाह - रजनीति । रजन्येवानवरतप्रचलनरूपप्रवाहवत्त्वाज्जलजालं समूहस्तस्य बिन्दुभिः पृषतैरित्यर्थो वा जनितो जडिमा यस्य स तस्मिन् । बहलेति । बहलान्यविरलानि यानि वनकुसुमानि तेषां परिमलेनानुमितमनुमानविषयीकृतं गमनं यस्य स तस्मिन् । चलितेति । चलितं कम्पितं लतोपयुक्ता विटपा वृक्षास्तेषां गहनं येन स तस्मिन् । अथ त्रियामामुखं विशेषयन्नाह - निद्रेति । निद्रा प्रमीला तया निभृता निश्चलाः पतत्रिणः पक्षिणो यस्मिन् । तदनन्तरं चन्द्रापीडोऽप्युत्थाय सकुसुमं कुसुमैः सह वर्तमान प्रसंवणस्य निर्झरस्य जलाञ्जलिमवकीर्य विक्षिप्य । कृतेति । कृतो विहितः संध्याप्रणामो येन स तस्मिन्मण्डपिकास्थले द्वितीये तदङ्गीकृतादन्यस्मिशिलातले मूदुभिः सुकुमारैलतापल्लवैर्वल्लीप्रवालैः शय्यां शयनीयमकल्पयदकरोत् । उपविष्टश्चेति । तस्या शिलायामुपविष्ट आसेदिवान्पुनस्तमेव पूर्वोक्तमेव महाचेतावृत्तान्तं मनसा चित्तेनान्वभावयत्पुनरचिन्तयत् । आसीच्चेति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासित् । एवंपदार्थमाह - अयमिति । अयं कुसुमायुधः कंदर्पः कष्टोऽनर्थकृत् । अथ कुसुमायुधं विशिनष्टि - अप्रतीति । अप्रतीकारेणाप्रतिक्रियया दारुणो भीषणः । दुरिति । दुःखेन विषहः सोढुं शक्यो वेगो यस्य सः । यदिति हेत्वर्थे । अनेन कंदर्पणाभिभूतोऽन्यानपेक्षितः कालक्रमो - - - - - टिप्प० -1 'अर्चिषं विशेषयन्नाह' इति लिखनपि सप्तम्यन्तरस्य अर्चिषो विशेषणं बभ्रूणीत्याह । अत एव 'बभ्रुणि' इति परसंमतः पाठः । कोकिललोचनछविवि बभ्रु पिङ्गलं तस्मिन् सान्ध्ये अर्चिषि भुवनमरुणयति सतीति तदर्थः । 2 निबिडतामिति सरलोर्थः । 3 सतीषु इत्युचितम् । 4 'रजनिजलबिन्दुजालजनितजडिम्नि' इत्यन्यः पाठः । रजनिजलबिन्दुजालं तुषारकणसमूहस्तेन शीतले इति तदर्थः । 5 चलितं कम्पितं लताविटपानां वल्लरीपल्लवानां गहनं समूहो येन तस्मिन्नित्यर्थ उचितः। 6 अनेन (कुसुमायुधेन) अभिभूताः आक्रान्ताः महान्तोपि जनाः, अनपेक्षितकालक्रमाः असोढसमयक्षेपाः इत्याद्यर्थ उचितः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ ग्रहग्रामणीषु. २ च लोचनमुषि. ३ तिरोहितहरितासु; हरितभासु. ४ तरुराजिषुः तारवीषु राजिषु. ५ बने प्रवृत्ते निद्रा. ६ अवकीर्य संध्यां प्रणनाम । कृत. ७ पुनः पुनः. ८ नामायम्.
महाता-चन्द्रापीडयोः सान्ध्यविधिः
पूर्वभागः ।
369