________________
कुसुमायुधः, यदनेनाभिभूता महान्तोप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहेति । सर्वथा नमो भगवते त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाय' इति ।
पुनः पप्रच्छ चैनाम् - 'भगवति, सा तव परिचारिका वनवासव्यसनमित्रं दुःखसब्रह्मचारिणी तरलिका क्व गता' इति ।
अथ साकथयत् - 'महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलं तस्मान्मदिरेति नाम्ना मदिरायत्तेक्षणा कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्वकुलमुकुटकुड्मलपीठप्रतिष्ठितचरणो देवश्चित्ररथः पाणिमग्रहीत् । अपरिमितगुणाकृष्टहृदयश्च वनितादुर्लभेनाधःकृताशेषान्तःपुरेण हेमपट्टलाञ्छनेन छत्रवेत्रचामरचिढेन महादेवीशब्देन परं प्रीतः प्रसादमकरोत् । अन्योन्यप्रेमसंवर्धनपरयोश्च तयोर्यौवनसुखानि सेवमानयोः कालेनाश्चर्यभूतमेकजीवितमिव पित्रोः, अथवा सर्वस्यैव गन्धर्वकुलस्य वा जीवलोकस्य, दुहितृरत्नमुदपादि कादम्बरीति नाम्ना ।
*********** देहविसर्जनक्रमो यैस्ते, तथा समुत्सारितं धैर्यं येषामेवंविधा महान्तोऽपि पुण्डरीकप्रभृतयः सद्यस्तत्कालं जीवितं जहति त्यजन्ति । अतः सर्वथा सर्वप्रकारेण भगवते त्रिभुवनेनाभ्यर्चितं पूजितं शासनमाज्ञा यस्य स तस्मै मकरकेतनायानङ्गाय नमोऽस्तु ।
एनामिति । एना महाश्वेतामिति पुनः पप्रच्छ प्रश्नमकार्षीत् । इति वाच्यमाह - हे भगवति, सा तव परिचारिका सपर्याकारिणि । कीदृशी । वनवासलक्षणं यत् व्यसनं कष्टं तत्र मित्रं सुहृत् । आविष्टलिङ्गत्वानपुंसकत्वम् । दुःखेति । दुःखे कृच्छ्रे सब्रह्मचारिणी । 'एकब्राव्रताचारा मिथः सब्रह्मचारिणः' इति कोषः । एवंविधा सा तरलिका क्व गता।
अथेति । तत्पश्नानन्तरं सा महाश्वेताकथयदवोचत् । किं तदित्याह - महाभागेति । हे सत्पुरुष, अमृतसंभवमप्सरसा कुलं यच्च मया पूर्वमुक्तम्, तस्मात्कुलात् । मदिरेति । मदिरा इति नाम्ना कन्यकाभूत् । तां विशिनष्टि - मदिरेति । मदिरायत्ते घूर्णिते लोचने यस्याः सा तथा । मदिरया नयनयोः कश्चन विस्तारो जायत इति । विस्तीर्णनयनेति यावत् । तस्याश्चेति । तस्या मदिराया देवोऽसौ चित्ररथः पाणिं हस्तमग्रहीत् । पाणिपीडनमकरोदित्यर्थः । चित्ररथं विशेषयन्नाह - सकलेति । सकलं समग्रं यद् गन्धर्वकुलं देवगायनवंशस्तस्य मुकुटानि किरीटानि तान्येव कुड्मलाकारं पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ येन सः । अपरीति । अपरिमिता असंख्या ये गुणा लज्जादयस्तैराकृष्टमाकर्षितं हृदयं चेतो यस्य स प्रीतः संतुष्टो महादेवीशब्देन परमुत्कृष्टं प्रसादमनुग्रहमकरोदन्वतिष्ठत् । अथ च महादेवीशब्दं विशेषयन्नाह - वनितेति । वनितायाः स्त्रियो दुर्लभेन दुष्प्रापेण । अध इति । अधःकृतमधरीकृतमशेष समग्रमन्तःपुरं येन स तेन । हेमेति । हेमपट्टस्य सुवर्णपट्टस्य लाञ्छनं चिह्न यस्मिन्स तेन । छत्रेति । छत्रमातपत्रम्, वेत्रं यष्टिः, चामरं वालव्यजनम्, एतानि चिह्नानि यस्मिन् । अन्योन्येति । अन्योन्यं मिथो यत्प्रेमसंवर्धनं स्नेहोत्पादकं तत्र परयोः सप्रयत्नयोश्च तयोर्योवनसुखानि तारुण्यसातानि सेवमानयो(ञानयोः कालेनानुक्रमेणाश्चर्यभूतं चित्रभूतं पित्रोर्मातृजनकयोरेकजीवितमद्वितीयप्राणितमिव । अथवा सर्वस्यैव गन्धर्वकुलस्य जीवलोकस्य वैकजीवितं कादम्बरीनाम्ना दुहितरत्नमुदपा - टिप्प० - 1 समानदुःखभोगिनीत्यर्थः । 2 'मदिरायतेक्षणा' इत्येव पाटः । मदिरे मादनानुकूलदर्शनप्रकारशालिनी, आयते च ईक्षणे यस्यास्तत्संबुद्धौ । "मदिरावत् मत्तखजनवत् आयते दीर्घ चक्षुषी यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः,...मद्यम् - " इति हरिदासटीका । 3 अन्योन्यं यत् प्रेम्णः संवर्धन मिथः आनुकूल्याचरणं तत्र तत्परयोरित्यर्थः ।। पाठा० - १ समवधीरित. २ जहाति. ३ सकलत्रिभुवन. ४ त्वत्परिचारिका. ५ मदिरायतेक्षणा. ६ गुणगणाकृष्ट. ७ अन्यवनिता. ८ अनुभवतोः. ९ संकलस्यैव.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(370
कादम्बरी।
कथायाम्
ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ