________________
सा च मे जन्मनः प्रभृत्येकाशनशयनपानासना परं प्रेमस्थानमखिलविस्त्रम्भधाम द्वितीयमिव हृदयं बालमित्रम् । एकत्र तया मया च गीतैनृत्यकलासु कृताः परिचयाः । शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणनिर्भरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् - 'नाहं कथंचिदपि सशोकायां महाश्वेतायामात्मनः पाणि ग्रहिष्यामि' इति । सखीजनस्य पुरतः सशपथमभिहितवती च - 'यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित्कस्मैचिद्दातुमिच्छेति तदाहमनशनेन वा हुताशनेन वा रज्ज्चा वा विषेण वा नियतमात्मानमुत्स्त्रक्ष्यामि' इति । सर्वं च तदात्मदुहितुः कृतनिश्चलभाषितं कर्णपरम्परया परिजनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति काले समुपारुढनिर्भरयौवनामालोक्य से तां बलवदुपतापपरवशः क्षणमपि न धृतिमलभत । एकापत्यतया चातिप्रियतया च न शंक्तः किंचदपि तामभिधातुमित्यपश्यंश्चान्यदुपायान्तरम्, इदमत्र प्राप्तकालमिति मत्वा तया
-
***
***
द्युत्पन्नमभूत् । सा चेति । सा कादम्बरी मे मम जन्मनः प्रभृत्युत्पत्तिदिनादारभ्यैकान्यभिन्नान्यशनशयनपानासनानि यस्याः सा । तत्रानं भोजनम्, शयन शय्या, पानं मद्यादि, आसनं चतुष्किकादि । एतेन प्रीत्युत्कर्षः सूचितः । परमुत्कृष्टं प्रेमस्थानं स्नेहस्थानमखिलानां समग्राणां विस्त्रम्भाणां विश्वासानां धाम द्वितीयमपरं हृदयमिव स्वान्तमिव बालमित्रम् । एकत्रेति । एकस्मिन्स्थले तया मया च गीतनृत्यकलासु कृताः परिचया अभ्यासाः । शिश्विति । शिशुजनोचिताभिर्बालजनयोग्याभिः क्रीडाभिरनियन्त्रणं स्वेच्छाविचरणं तेन निर्भरं यथा स्यात्तथा बालभावः शिशुभावोऽपनीतो दूरीकृतः । सा चेति । सा कादम्बर्यमुनैव मदीयेन हतवृत्तान्तेन समुपजातः शोको यस्याः सा तथा । इति निश्चयं निर्णयमकार्षीत् । सखीजनस्यालीजनस्य पुरतोऽग्रतः सशपथं शपथपूर्वकमित्यभिहितवती कथितवती च । इतिद्योत्यमाह - नाहमिति । कथंचिदपि केनचित्प्रकारेणापि सशोकायां महाश्वेतायामात्मनः स्वस्य पाणि नाहं ग्रहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । यदीति । यदि कथमपि महता कष्टेन मामनिच्छन्तीमप्यवाञ्छन्तीमपि बलाद्धठात्तातः पिता कदाचित्कस्मैचित्पुरुषाय दातुमिच्छति वाञ्छति तदाहमनशनेन॑ प्रायसा वा, हुताशनेन वह्निना वा, रज्ज्वा रश्मिना वा, विषेण गरलेन वा । सर्वत्र वाशब्दो विकल्पार्थः । नियतं निश्चितमात्मानमुत्स्त्रक्ष्यामि त्यजिष्यामि । इति तदात्मदुहितुर्निजसुतायाः सर्वं समग्रं कृतो निश्चयो यस्मिन्नेतादृशं निश्चलभाषितं स्थिरजल्पितं परिजनसकाशात्परिच्छदसमीपात्कर्णपरम्परया श्रोत्रप्रणालिकया गन्धर्वराजचित्ररथः स्वयमश्रुणोदाकर्णयत् । गच्छति व्रजति काले समये सति स चित्ररथः समुपारूढं प्राप्तं निर्भरमतिशायि यौवनं तारुण्यं यस्यामेतादृशीं तां कादम्बरीमालोक्य निरीक्ष्य बलवानुपतापः संतापस्तेन परवशः परायत्तः क्षणमपि धृतिं संतोषं नालभत नाप्तवान् । एकेति । एकापत्यतयैकसंततितयातिप्रियतया च किंचिदपि तां कादम्बरीमभिधातुं कथयितुं न शक्तो न समर्थ इति हेतोरन्यदुपायान्तरं कार्यसाधकप्रकारान्तरमपश्यन्ननवलोकयंश्च । इदं कुमारीलक्षणमत्र प्राप्तकालं प्राप्तसमयमिति मत्वा ज्ञात्वा तया मदिरया महादेव्या सहावधार्य निश्चित्य क्षीरोदनामानं कञ्चुकिनं सौविदल्लमिति संदिश्येत्युक्त्वा मत्समीपं मदु -
टिप्प० - 1 भोजनपरित्यागेन । 2 त्यक्ष्यामि इत्येव विवेकिभिर्वाच्यम् । 3 वस्तुतस्तु '... तामभिधातुम् । अपश्यंश्चान्यदुपायान्तरम्' इत्येव पाठः ।
कादम्बरीजन्मादिकथा
पाठा० - १ मज्जन्मनः. २ एकासनशयनपानाशना; एकासनपानाशना. ३ नृत्यगीतादिकलासुः गीतनृत्यादिकासु कलासु. ४ समुत्पन्न. ५ इच्छेत्. ६ ततः. ७ कृतनिश्चयं निश्चलं भाषितम्; कृतनिश्चयनिश्चलभाषितम् ८ अतिप्रेमतया गच्छति ९ सुताम् स संतापेन बलवद्द्यत न क्षणमपि धृतिमलभत. १० शक्नोति.
पूर्वभागः ।
371