________________
महादेव्या मदिरया सहावधार्य क्षीरोदनामानं कञ्चुकिनम् ‘वत्से महाश्वेते, त्वद्व्यतिरेकेणैव दग्धहृदयाणामिदमपरमस्माकमुपस्थितम्, ‘इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम्' इति संदिश्य मत्समीपं प्रत्युषसि प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं ता तरलिका ‘सखि कादम्बरि, कं दुःखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति संदिश्य विसर्जिता । नातिचिरं गतायां च तस्यामनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् ।
अंत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्घहनिव मुनिकुमारवधमहापातकम्, दर्शयन्निव चिरकाललग्नं दक्षशापानलदाहचिह्नम्, अविरलभस्माङ्गरागधवलो {गाजिनप्रावृता| वामस्तन इवाम्बिकायाः, धूर्जटिजटामण्डलचूडामणिभगवानुदगात्तारकाराजः । क्रमेण चोद्गते गगनमहापयोधिपुलिने सप्तलोकनिद्रामङ्गल -
***********
पान्तं प्रत्युषसि प्रभाते प्रेषितवान्प्राहिणोत् । इतिद्योत्यमाह - वत्से इति । हे वत्से महाश्वेते, त्वद्व्यतिरेकेणैव त्ववृत्तान्तेनैव दग्धं ज्वलितं हृदयं येषामेवंविधानामस्माकमिदं कादम्बरीसक्तमपरं दुःखमुपस्थितं प्रादुर्भूतम् । इदानीं तु सांप्रतं कादम्बरीमनुनेतुमनुनयं कर्तुं त्वं शरणं त्वमेवाश्रयः । ततो मया गुरुवचनं पूज्यवचस्तस्य गौरवेणानुल्लङ्घयतया सखी आली तस्याः प्रेम्णा स्नेहेन च क्षीरोदेन कञ्चुकिना साधू सा तरलिका इति संदिश्य कथयित्वा विसर्जिता प्रहिता । इतिद्योत्यमाह - हे सखि कादम्बरि, के दुःखितमपि पीडितमपि जनमतितरामतिशयेन दुःखयस्यतितरां पीडयसि । चेन्मां जीवन्ती श्वसन्तीमिच्छसि वाञ्छसि । तदिति हेत्वर्थे वचनम् । गुरुवचनं अवितथं सत्यं कुरु विधेहि । तस्यां नातिचिरंगतायां स्तोककालप्रस्थितायां च सत्यामनन्तरमेवेमा भूमिं महाभागः सत्पुरुषः त्वमनुप्राप्तोऽन्वागतः । इत्यभिधायेत्युक्त्वा तूष्णीं जोषमभवत् ।
अत्रान्तरेऽस्मिन्समये शोकानलेन शुग्वह्निना दग्धं मध्यं यस्यैतादृशं महाश्वेताहृदयं लाञ्छनच्छलेनाङ्कमिषेण विडम्बयन्निव सादृश्यं कुर्वन्निव । धर्म उज्ज्वलः, पातकं श्याममिति तेनैव साम्येनाह - उदहन्निव धारयन्निव मुनिकुमारवधलक्षणं महापातक महापापम् । दक्षेति । दक्षप्रजापतेर्यः शापानलः शापवह्निस्तेन दाहस्तस्य चिह्नं चिरकाललग्नं चिरकालीनं दर्शयनिव प्रकटयन्निव । पाण्डुरत्वकृष्णत्वसाम्येनोपमानान्तरमाह - अविरलेति । अविरलो निबिडो भस्माङ्गरागस्तेन धवलः शुभ्रः । तथा मृगस्याजिनं चर्म तेन प्रावृतमाच्छादितम) यस्यैवंविधोऽम्बिकायाः पार्वत्या वामो दक्षिणेतरः स्तनः कुच इव । धूर्जटिरिति । धूटिरीश्वरस्तस्य जटामण्डलं तस्य चूडामणिभंगवान्माहात्म्यवांस्तारकाराजश्चन्द्र उदगादुदितवान् । क्रमेण पारिपाट्या शशाङ्कमण्डल उद्गत उदिते सति चन्द्रापीडो महाश्वेतां सुप्तां शयितामालोक्य निरीक्ष्य शनैः शनैर्मन्दं मन्दं पल्लवशयने किसलयशय्यानां समुपाविशदधितस्थौ । अथ च शशाङ्कमण्डलं विशेषयन्नाह - गगनेति । गगनमपारत्वान्महापयोधिर्जलधिस्तस्य पाण्डुरत्वसाम्यात्पुलिन इव पुलिने जलोज्झिातसैकतरूपे, सप्तलोकेषु निद्रायाः प्रमी -
- - - - -
- - - - - टिप्प० -1 व्यतिरेकस्य विरहः कदाचिदर्थः स्यात्परं न कदाचिद्वृत्तान्त इत्यर्थः । तस्मात् 'त्वद्व्यतिकरण' इत्युचितः पाठः । 2 'किं दुःखितमपि इत्येव पाठः । सर्वबोध्यश्चार्थः ।
पाठा० - १ ब्रूहि गत्वा वचः वत्से. २ त्वद्व्यतिरेकेणैकेनैव. ३ इदानी कादम्बरीव्यतिकरे. ४ संदिश्य तदनुनयावं. ५ अद्यैव प्रत्युषसि. ६ अतः. ७ अस्मिंश्चान्तरे. ८ कृष्णमृगाजिन. ९ समस्त.
372
कादम्बरी।
कथायाम्