________________
कलशे कुमुदबान्धवे विघटितकुमुदवने धवलितदशदिशि शङ्खश्वेते चेतिमानमातन्वति मानिनीमानंदस्यौ शशाङ्कमण्डले, शशिकरकोपकलितास्वातन्वतीषु क्रशिमानमोडवीषु प्रभासु, प्रसवत्सु च कैलासशशिमणिशिलानां सर्वतः स्रोतःसाविषु प्रसवणेषु, मृणालकन्दलिनि चावस्कन्दपतितचन्द्रकर इव विलुप्तकमलवनशोभे भात्यच्छोदसरःपयसि, समुपोढमोहनिद्रे च द्राधीयोवीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचक्रवाले, निवृत्ते च चन्द्रोदये, विद्रुते हर्षनयनजलकणनीहारिणि वियद्विहारिणि मनोहारिणि विद्याधराभिसारिकाजने, चन्द्रापीडः सुप्तामालोक्य महाश्वेता पल्लवशयने शनैः शनैः समुपाविशत् । 'अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किंवा वराकी पत्रलेखा, किं वा राजपुत्रलोकः, इति चिन्तयन्नेव निद्रां ययौ ।
***********
लाया मङ्गलकलश इव । कुमुदस्य कैरवस्य बान्धवे बन्धुसदृशे । विघटितेति । विघटितानि विमुद्रितानि कुमुदवनानि येन स तस्मिन् । धवलितेति । धवलिताः शुभ्रीकृता दशदिशो येन स तस्मिन् । शङ्खवज्जलजवच्छेते शुभ्रे । किं कुर्वति । श्वेतिमान श्वेतातिशयमातन्वति विस्तारयति सति । अथवा शङ्खस्य श्वेतो गुणस्तस्मिञ्चेतिमानं चाकचिक्यरूपं यथादर्श विस्तारयति सति । इदं च शङ्ख चन्द्रकिरणसंपर्कवशाद्विलक्षणा पाण्डुरता दृश्यत इत्यभिप्रायेण सूर्यकरसंपर्कवशाद्विलक्षणा स्वच्छता दृश्यते तद्वदिवेति केचित् । मानिनीति । मानिन्या मानवत्यां स्त्रियो यो मानः स्मयस्तस्य दस्यौ विपक्षे । मानिनीमानापहारकत्वाद्दस्युसादृश्यमिति । पुनः कासु । शशिकराणां चन्द्रकिरणानां कलापेन समूहेन कलितासु सहितास्वौडवीषु नक्षत्रसंबन्धिनीषु प्रभाषु कान्तिषु क्रशिमानं कृशत्वमातन्वतीषु विस्तारयन्तीषु । पुनः केषु । कैलासस्य शिलामणयश्चन्द्रकान्तास्तेषां शिलास्तासां सर्वतोऽभितः स्वतोऽम्भःसरणं सौतस्तत्सवन्तीत्येवंशीलेषु प्रसवणेषूसेषु प्रसवत्सु क्षरत्सु । पुनः कस्मिन्सति । अच्छोदाभिधानस्य सरसः पयसि पानीये भाति राजमाने सति । कीदृशे । मृणालानां कन्दला विद्यन्ते यस्मिन् । विलुप्तेति । विलुप्ता विलोपं प्राप्ता कमलवनस्य पद्मखण्डस्य शोभा श्रीर्यस्मिन् । अतएव श्वेतत्वसाम्येनोप्रेक्षते - अवेति । अवस्कन्दार्थ हननार्थं पतिताः प्रविष्टाश्चन्द्रकरा यस्मिन्नेवंविध इव । पुनः । कस्मिन्सति । विरहिणि विप्रलम्भिनि चक्रवाका द्वन्द्वचरास्तेषां चक्रवाले समूहे विरुवति शब्दं कुर्वति सति । अथ चक्रवाकसमूहं विशेषयन्नाह - समुपोटेति । समुपोढा समागता विरहवशान्मोहनिद्रा यस्मिन् । द्राघीय इति । द्राघीयोभिरतिदीर्घाभिर्वीचिभिः कल्लोलैर्विचलितं कम्पितं वपुर्यस्य स तस्मिन् । पुनः कस्मिन् । चन्द्रोदये च निवृत्तै सति । विद्याधराणां व्योमचारिणामभिसारिकाजने संकेतितस्त्रीजने विद्रुतै विशकलिते जाते सति । अभिसारिकाजनं विशेषयन्नाहहर्ष इति । हर्षजनिता ये नयनजलकणा एव प्रमोदबाष्पपृषता एव नीहारं तुहिनं हिमं यस्मिन् । वियद्विहारिणि व्योमचारिणि मनोहारिण्यभिरामे । अस्यामिति । अस्यां पूर्वोक्तायां वेलायां समयविशेषे । खलु निश्चयेन । मामन्तरेण मद्व्यतिरेकेण वैशम्पायनः । अथ च वराकी पत्रलेखा । अथ च राजपुत्रलोको नृपसुतसमूहः किं चिन्तयति किं चिन्तयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति वर्तमानता । इति चिन्तयन्नेवेति ध्यायन्नेव निद्रां ययौ प्रमीला प्राप्तवान् ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 शशिमणय इत्युचितम् । 2 अवस्कन्दा) कमलानामाक्रमणार्थमित्युचितोर्थः । यतो हि कराः (हस्ताः) कस्यचिनिर्दयग्रहणार्थं कुत्रचित्पतन्ति । 3 निर्वृत्ते इत्यपि पाठः । चन्द्रोदये निष्पन्ने इति तदर्थः । 4 चन्द्रोदयेन तिमिरापगमाल्लोकानां दर्शनपथादतिक्रान्ते सतीत्याशयः ।
पाठा० - १ शङ्खधेते चेतातपत्रायमाणे; शङ्खचेतायमाने. २ शत्रौ. ३ शुचिशोचिषि शशाङ्कमण्डले; शशाङ्के. ४ रोचिष्णुशशि. ५ कलितासु; कवलितासु. ६ व्रजन्तीषु. ७ अवश्याय. ८ पवनशात्समुपोढ. ९ निवृत्ते. १० शनैः.
(केयूरकेण सह तरलिकाया आगमनम् )
पूर्वभागः ।।
373