________________
अथ क्षीणायां क्षपायामुषसि संध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायां निर्वर्तितप्राभातिकविधौ चन्द्रापीडे तरलिका षोडशवर्षवयसा, सावष्टम्भाकृतिना, मदखेदालसगजगमनगुरूणि पदानि निक्षिपता, पर्युषितचन्दनाङ्गरागधूसरोरुदण्डद्वयेन, कुङ्कुमरागपिञ्जरारुणेन, चामीकरश्रृङ्खलाकलापनिबिडनियमित कक्षाबन्धातिरिक्तप्रेख़त्पल्लवमधरवास एव केवलं वसानेन, निरुदरतया विभक्तमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपीनबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणेमणेविप्रकीर्यमाणमधोमुखकिरणेन्द्रायुधजालवर्णाशुकोत्तरीयमिवैकस्कन्धक्षिप्तमुदहता, चूतपल्लवकोमलमनवरतताम्बूलबद्धरागान्धकारमधरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव दिगन्तराणि, कुमुदवनानीव वर्षता, पुण्डरीकमयमिव दिवसं कुर्वता, कनकपट्टपृथुललाटेन, -
***********
अथेति । क्षीणायां क्षपायामुषसि प्रभाते संध्यामुपास्य शिलातलोपविष्टायां पवित्राणि पूतान्यघमर्षणान्यापोदेवतास्तुतिरूपाणि महाश्वेतायां जपन्त्यां स्मरन्त्यां सत्या, निर्वर्तितो विहितः प्रभातिकः प्रत्यूषसंबन्धी विधिर्येनैवंविधे चन्द्रापीडे. सा तरलिका प्रत्यूषस्येव प्रादुरासीत्प्रकटीबभूवेत्यन्वयः । कीदृशी । केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना । अथ केयूरक विशेषयन्नाह - षोडशेति । षोडशवर्षाणि हायनानि तैः परिमितं वयो यस्य स तथा तेन । तावन्मात्रप्रमाणेनेत्यर्थः । सहावष्टम्भेनाभिमानेन वर्तमाना सावष्टम्भाकृतिराकारो यस्य स तेन । किं कुर्वता । मदखेदेनालसो मन्थरो यो गजो हस्ती तस्य गमनवद्गुरूणि पदानि चरणन्यासान् । निक्षिपता स्थापयता । पर्युषितो गतदिनसक्तो यो चन्दनाङ्गरागस्तेन धूसरमीषत्पाण्डुरमूरुदण्डद्वयं सक्थिदण्डद्वितयं यस्य स तेन । कुङ्कुमेति । कुङ्कुम केसरं तस्य रागेण पिञ्जरः पीतरक्तोऽरुणो देहस्थरागो यस्य स तेन । किं कुर्वता । केवलमधरवासोऽधोंशुकमेव वसानेन परिधानीकुर्वता । अथाधरवासो विशेषयन्नाह - चामीति । चामीकरस्य सुवर्णस्य श्रृङ्खलाकलापस्तेन निबिडं यथा स्यात्तथा नियमित बद्धम् । कक्षेति । कक्षाबन्धात्कटिबन्धादतिरिक्तस्य वस्त्रस्य प्रेछन्त उल्लसन्तः पल्लवा अञ्चला यस्य तत् । निर्गतं यदुदरं तस्य भावस्तत्ता तया विभक्तो विभागीकृतो मध्यो भागो यस्य स तेन । अनेन सामुद्रिकसुलक्षणत्वमुक्तम् । विपुलेति । विपुलं बृहद्वक्षो भुजान्तरं यस्य स तेन । दीर्घति । दीर्घावायतावनुवृत्तपीनौ परम्परया पुष्टौ बाहू भुजौ यस्य स तेन । वामेति । वामप्रकोष्ठे दक्षिणेतरकलाचिकायां दोलायमानं कम्पमानं माणिक्यवलयं रत्नकङ्कणं यस्य स तेन । कर्णेति । कर्णाभरणमणेः श्रोत्रभूषणरत्नसङ्गं विप्रकीर्यमाणं विक्षिप्यमाणमधोमुखकिरणानामिन्द्रायुधजालवर्णं शक्रचापसमूहरागं यदंशुकोत्तरीयमुत्तरासङ्गं चित्रवस्त्रमेकस्कन्धक्षिप्तमिवैकासन्यस्तमिवोद्वहता धारयता । पुनः किं कुर्वता । अधरं दन्तच्छदमोष्ठं दधता । अधरं विशेषयन्नाह - चूतेति । चूतपल्लववदाप्रकिसलयवत्कोमलं सुकुमारम् । अनवरतेति । अनवरतं निरन्तरं ताम्बूलस्य नागवल्ल्या दलस्य बद्धो रागान्धकारो यस्मिन् । कर्णेति । कर्णान्तायतस्य श्रोत्रप्रान्तप्राप्तस्य स्वभावेन धवलस्य शुभ्रस्य लोचनयुगलस्य नेत्रयुग्मस्य धवलिम्ना शुभ्रत्वेन दिगन्तराणि धवलयतेव शुभ्रीकुर्वतेव । कुमुदवनानीव कैरवखण्डानीव वर्षता वृष्टिं कुर्वता । पुण्डरीकमयमिव सिताम्भोजमयमिव दिवसं वासरं कुर्वता सृजता । कनकेति । टिप्प० - 1 सावष्टम्भा सबला आकृतिर्यस्येत्युचितोर्थः । 2 अनुदरा कन्येतिवत् ईषदर्थे निःशब्दः । 3 एकस्कन्धक्षिप्तम् उत्तरीयमिव किं वहति ? न किञ्चित्प्रतीयते । '...किरणेन्द्रायुधजालं वर्णांशुकोत्तरीयमिव' इति पाठः । कर्णाभरणरत्नस्य नीचैर्विकीर्यणाः (प्रसरन्तः) अधोमुखाः किरणां नानावर्णशालितया इन्द्रधनूंषीव तेषाम् (किरणानाम्) जालमेकस्कन्धसक्तं वर्णांशुकमिव (रक्तवर्णरंजितम् अंशुकमिव वस्त्रमिव) उद्घहता, इति तदर्थः । 4 दिगन्तरे नेत्रप्रेरणस्य कुमुदवनवर्षणत्वेन, दिवसस्य पुण्डरीकमयकरणत्वेन चोत्प्रेक्षेत्याशयः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ गजराज. २ विभक्तमध्येन. ३ मणिविप्रकीर्य.
374
कादम्बरी।
कथायाम्