________________
अलिकुलनीलसरलशिरसिजेन, अग्राम्याकृतिना, राजकुलसंपर्कचतुरेण, गन्धर्वदारकेण केयूरकनाम्नानुगम्यमाना प्रत्यूषस्येव प्रादुरासीत् । आगत्य च कोऽयमित्युपजातकुतूहला चन्द्रापीडं सुचिरमवलोक्य महाश्वेतायाः समीपमुपसृत्य कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिलातलं भेजे । उपविष्टश्च तमदृष्टपूर्वमधःकृतकुसुमायुधमुपहसितसुरासुरगन्धर्वविद्याधररूपं रूपातिशय चन्द्रापीडस्य दृष्ट्रा विस्मयमापेदे । परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम्, - 'किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम्' इति ।
अथ सा तरलिका विनयावनतमौलिरीषदवलम्बितकर्णपाशमतिमधुरया गिरा व्यजिज्ञपत् - 'भर्तृदारिके, दृष्टा खलु मया भर्तृदारिका कादम्बरी सर्वतः कुशलिनी । विज्ञापिता च निखिलं भर्तृदुहितुः संदेशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसंदिष्टम्, तदेष तयैव विसर्जितस्तस्या एव वीणावादकः केयूरकः कथयिष्यति' इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत् - ‘भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढ -
*********** कनकपट्टवत्सुवर्णपट्टवत्पृथु विस्तीर्णं ललाटमलिक यस्य स तेन । अलीति । अलिकुलवन्नीलाः सरला अवक्राः शिरसिजाः केशा यस्य स तेन । अग्राम्येति । अग्राम्या नागरीयाकृतिराकारो यस्य स तेन । राजेति । राजकुलेन यः संपर्कः संबन्धस्तत्र चतुरेण चातुर्ययुक्तेन । आगत्य चेति । आगत्य चैत्य च । कोऽयमित्युपजातं समुत्पन्नं कुतूहलं यस्याः सा तया । सुचिरं चिरकालं यावत् चन्द्रापीडमवलोक्य निरीक्ष्य महाश्वेतायाः समीपमुपसृत्यागत्य कृतो विहितः प्रणामो यया सा सविनयमुपाविशदुपविष्टा । अनन्तरमिति । तरलिकावस्थानन्तरमतिदूरादानतेन नम्रणोत्तमाङ्गेन शिरसा प्रणम्य नमस्कृत्य केयूरकोऽपि महाश्वेतया दृष्ट्या निसृष्टं दर्शितं नातिसमीपवर्ति नातिनिकटवर्ति शिलातलं भेजेऽधितस्थौ । उपविष्टश्चेति । तत्रोपविष्ट आसीनश्च स तमदृष्टपूर्वमनवलोकितपूर्वमधःकृतः कुसुमायुधो येन स तमुपहसितं न्यकृतं सुरासुरगन्धर्वविद्याधराणां रूपं सौन्दर्यं येन स तमेवंविधं चन्द्रापीडस्य रूपातिशयं सौन्दर्याधिक्यं दृष्ट्वा चावलोक्य च विस्मयमाश्चर्यमापेदे प्राप्तवान् - परीति । परिसमाप्तः पूर्णीभूतो जपो जापो यस्याः सैवंविधा महाश्वेता तरलिकामिति पप्रच्छेत्यप्राक्षीत् - इतिद्योत्यमाह - कादम्बरीति । कादम्बरी प्रियसखी वल्लभवयस्या कुशलिनी कल्याणवती त्वया किं दृष्टावलोकिता । वा अथवा तत्पूर्वोक्तमस्मद्वचनं करिष्यति ।
अथेति । तत्प्रश्नानन्तरं सा तरलिका विनयेनावनतो मौलियया सा ईषत्किंचिदवलम्बितकर्णपाशं यथा भवति तथा व्यजिज्ञपद्विज्ञापना चकार । कया । अतिमधुरयातिमिष्टया गिरा वाण्या, हे भर्तृदारिके, खलु निश्चयेन । कादम्बरी भर्तृदारिका सर्वतः सर्वप्रकारेण कुशलिनी कल्याणवती दृष्टावलोकिता । विज्ञापिता च निखिलं समग्रं भर्तृदुहितुर्भवत्याः सदेशमुदन्तम् । आकर्ण्य चेति । तच्छ्रुत्वा च यत्तया कादम्बर्या संततं निरन्तरं मुक्ताः स्थूला येऽश्रुबिन्दवस्तेषां वर्षों यस्मिन्नेतादृशं यथा स्यात्तथा रुदित्वा रुदनं कृत्वा प्रतिसंदिष्टं प्रत्युत्तरं कृतं, तदेष तयैव कादम्बर्यैव विसर्जितस्त्वनिकटे प्रेषितस्तस्या एव कादम्बर्या एव वीणावादकः केयूरकः कथयिष्यति निवेदयिष्यति । इत्युक्त्वा विरराम विरता बभूव । अथ विरतवचसि तस्यां केयूरकोऽब्रवीदवोचत् । हे भर्तृदारिके - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 संततं मुक्तावत्स्थूलानाम् अश्रुबिन्दूना वर्षः (वर्षणम्) यस्मिन्कर्मणि यथा स्यात्तथा इति स्पष्टोर्थः । 2 वीणावाहक इत्येवोचितः पाठः ।
पाटा० -१ कुटिल, २ आलोक्य. ३ समुपविष्टश्च. तत्र. ४ आलम्बित. ५ सतत. ६ वीणावाहकः.
कादम्बर्याः प्रतिसदेशः
। पूर्वभागः ।)
375