________________
दत्तकण्ठग्रहा त्वां विज्ञापयति - 'यदियमागत्य मामवदत्तरलिका तत्कथय किमयं गुरुजनानुरोधः, किमिदं मच्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोलम्भः, किं प्रेमविच्छेदार्भिलापः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्दनिर्भरं हृदयम्, एवमतिनिष्ठुरं संदिशन्ती कथमसि न लज्जिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत्, किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृदुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशाः संभोगाः, कानि वा हसितानि । येनेदृशी दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमैयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमागमसुखानि त्यजति, किमुत नार्यः । यत्र भर्तृविरहविधुरा परिहतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरहविधुरा -
***********
महाश्वेते, देवी कादम्बरी दृढं दत्तः कण्ठग्रहो यया सा । कृतालिङ्गनेत्यर्थः । त्वां विज्ञापयति विज्ञप्तिं करोति । किं विज्ञप्तिं कृतवतीत्याह - यदियमिति । इयं तरलिका मामागत्यैत्य यदवददवोचत्तत्कथय ब्रूहि - किमयं गुरुजनानुरोधः किं गुरुजनपारवश्यम् । किमिदं मच्चित्तस्य मन्मनसः परीक्षणं परीक्षाकरणम् । किं गृहनिवासलक्षणो योऽपराध आगस्तस्य निपुणो योग्योऽयमुपालम्भः । किं प्रेमविच्छेदार्थं स्नेहनिवृत्त्यै अयमभिलापः संलापः । किं भक्तजनस्य सेवकजनस्य परित्याग उपायः प्रपञ्चः । किंवा प्रकोप प्रतिघा । सहज स्वाभाविक यत्प्रेम तस्य निस्यन्दो रसस्तेन निर्भर हृदयं मे मम जानास्येव ज्ञास्यस्येव । एवं अतिनिष्ठुरमतिपरुषं संदिशन्ती कथयन्ती कथं न लज्जितासि । तथा त्वं मधुरभाषिणी सत्यप्रियमनिष्टं वक्तुं जल्पितुं परुषं कठिनमभिधातुं कथयितुं केन पुंसा त्वं शिक्षितासि हितोपदेशविषयीकृतासि । स्वास्थ्यवशादेतादृशी मतिरुत्पद्यत इत्यभिप्रायेणाह - स्वस्थोपीति । स्वास्थ्यवानपि तावदादौ सहृदयः पण्डितः कनीयसि लघीयसीदृशेऽवसानविरसे प्रान्तदुःखदे कर्मणिक्रियायां क इव को जनो मतिं बुद्धिमुपसर्पयेत् । अस्वस्थानां तु दूरत आस्थेत्याह - किमुतेति । अतिदुःखेनाभिहतं हृदयं यस्यैवंभूतोऽस्मद्विधो जनः किमुत कथ्यते । सर्वथा तत्कर्मणि न प्रवर्तत इत्यर्थः । हीति निश्चितम् । सुहृदुःखखेदिते मित्रदुःखाभिभूते मनसि कैव सुखाशा कः सौख्याभिलाषः । कैव निर्वृतिर्मनःसंतुष्टिः । संभोगा इन्द्रियार्थाः कीदृशाः किंस्वरूपाः । हसितानि स्मितानि कानि च कीदृशानि । येन कामेन प्रियसखीदृशी दशामवस्थामुपनीता प्रापिता तं विषमिवाप्रियकारिणमनिष्टविधायिनमतिदारुणमतिभीषणं कथं कामं सकामं साभिलाषं कुर्याम् । प्रणयसखीदुःखेन स्वस्मिन्दुःखवत्त्वं निदर्शयन्नाह - दिवसेति । दिवसकरस्य सूर्यस्यास्तमयेन परद्वीपान्तरगमनेन विधुरासु दुःखितासु नलिनीषु कमलिनीषु सत्सु सहवासपरिचयाच्चक्रवाकयुवतिरपि द्वन्द्धचरवनितापि पतिसमागमसुखानि भर्तृसंयोगसौख्यानि त्यजति जहाति, तर्हि नार्योऽपि योषितोऽपि किमुत वाच्याः । न किमपि कथनीया इत्यर्थः । यत्रेति । यत्र हृदये भर्तुविरहेण विधुरा दुःखिता परिहतं परित्यक्तं परपुरुषाणामपरपुंसां दर्शनं वीक्षणं यया सैवंविधा प्रियसखी महाधेता दिवानिशमहोरात्रं निवसत्यधितिष्ठति तन्मम हृदयमपर इतरः प्राकृतो जनः कथमिव प्रविशेत्कथं प्रवेशं कुर्यात् । यत्र चेति । यत्र यस्मिन्समये भर्तुः पत्युविरहेण वियोगेन विधुरा दुःखिता व्रतेन नियमेन कर्शितं कृशता नीतमङ्गं शरीरं यया सैवंविधा प्रिय -
टिप्प० - 1 कामं कथं सकामं कुर्यामित्यन्वयः । 2 सतीषु, इति तात्पर्यम्, । 3 अनधिकारो भाषायाम् । नार्यस्तु इत्युचितम् ।
पाठा० - १ गुरुजनवचनानुरोधः. २ अभिलाषः. ३ अस्तमन. ४ समागम. ५ परित्यजति. ६ अपि च यत्र.
(376
कादम्बरी।
कथायाम्