________________
व्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति, तत्राहमवगणय्यैतत्कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन्वस्तुनि कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्याङ्गीकृतमपैयशः, समवधीरितो विनयः, गुरुवचनमतिक्रामितम्, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, सा कथय कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम्, इदं च पादग्रहणम्, अनुगृहाण माम्, वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि' इत्यभिधाय तूष्णीमभूत् । महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य, ‘गच्छ स्वयमेवाहमागत्य यथार्हमाचरिष्यामि' इत्युक्त्वा केयूरक प्राहिणोत् ।
गते च केयूरके चन्द्रापीडमुवाच - ‘राजपुत्र, रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किंपुरुषविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम्, अदृ -
***********
सखी महत्कृच्छ्रे कष्टमनुभवत्यनुभवविषयी करोति, तत्र तस्मिन्समयेऽहं प्रियसख्यतेढुःखमवगणय्यावगणनां कृत्वात्मसुखार्थिनी स्वस्य सुखाभिलाषिणी कथं पाणिं कर ग्राहयिष्यामि ग्रहणं कारयिष्यामि । एवं सत्यनुष्ठिते पाणिग्रहे न स्वेष्टसिद्धिरित्यत आह - कथमिति । वेति पक्षान्तरे । कथं मम सुखं भविष्यति । इष्टविरहव्याकुलचित्तत्वे न सुखमिति भावः । अथ त्वया साकं यत्प्रेम तदपि न भविष्यति । 'ईषिते ईषितं चेत्स्यात्तदा प्रेम प्रवर्तते इति न्यायात् । अतस्त्वत्प्रेरणा त्वत्स्नेहेनास्मिन्वस्तुनि पाणिग्रहणविषये मया कुमारिकाजनविरुद्धं स्वातन्त्र्यं स्वेच्छाचारित्वमालम्ब्यापयशोऽपकीर्तिरङ्गीकृतं स्वीकृतम् । पित्रादिभिः पाणिग्रहणं कार्यमाणापि पितुराज्ञाऽकरणमित्यपयशः । समवधीरितस्तिरस्कृतो विनयः । गुरुवचनं पित्रादीनां वचोऽतिक्रामितमुल्लचितम् । तथा लोकापवादो जनापवादो न गणितो न विचारितः । वनिताजनस्य स्त्रीजनस्य सहज स्वाभाविकमाभरणं भूषणं लज्जा त्रपा सा चोत्सृष्टा त्यक्ता । कथय प्रतिपादय एतादृशो जनः कथमिव पुनरत्रास्मिन्कर्मणि प्रवर्तते प्रवृत्तिं करोति । उपसंहरति - तदिति हेत्वर्थे । अयमञ्जलिरुपरचितो निबद्धः । अयं च प्रणामो नमस्कारः । इदं च पादग्रहणमभिवादनम् । इति हेतोर्मामनुगृहाणानुग्रहं कुरु । इतो मत्समीपान्मे मम जीवितेन प्राणितेन सह वनं गतासि प्राप्तासि इति स्वप्नेऽपि स्वप्नावस्थायामपि पुनर्वितीयवारमिमं पूर्वोक्तमर्थं मनसि चित्ते मा कृथा मा व्यधिष्ठाः । इत्यभिधायेत्युक्त्वा तूष्णीमभून्मौनं कृतवती । महाश्वेता तु तत्पूर्वोक्तं श्रुत्वाकर्ण्य सुचिरं चिरकालं यावत् विचार्य विमृश्य त्वं गच्छ व्रज स्वयमेवात्मनैव । अहमागत्य यथार्ह यथायोग्यमाचरिष्यामीत्युक्त्वा केयूरक प्राहिणोत्प्रेषितवती ।
गते केयूरके चन्द्रापीडमुवाचाब्रवीत् । किं तदित्याह - राजपुत्रेति । हे राजपुत्र नृपसूनो, अयं हेमकूटो रमणीयो मनोहरः । चित्ररथो गन्धर्वनाथस्तस्य राजधानी नृपनिवासनगरी चित्रा विविधाश्चर्ययुक्ता । बहून्यनेकानि कुतूहलान्याश्चर्याणि यस्मिन्नेवंविधः किंपुरुषाणां किनराणां विषयो देशः । गन्धर्वलोको देवगायनजनः पेशलः सुन्दरः । ‘पेशलं हृद्यसुन्दरे' इति कोषः । सरलहृदयाऽकुटिलचित्ता महानुभावा च कादम्बरी भर्तृदारिका । यदीति प्रत्येकमभिसंबध्यते । नातिखेदकरमिव नातिप्रयासजनकमिव गमनं यानं कलयसि जानासि । वेति विकल्पार्थे । गुरुप्रयोजनं महानर्थो नावसीदति न विलम्बितो भवति । वेति पूर्ववत् ।
- - - - - - - - - - - - - - - - - - टिप्प०- 1 अतिक्रान्तमित्यपि पाठः । 2 आवश्यक कार्यमित्याशयः ।
-
-
-
-
-
-
-
-
-
-
पाठा० - १ तीव्रत. २ वस्तुनि मया. ३ अयशः.
कादम्बर्याः प्रतिसदेशः
पूर्वभागः ।
377