________________
प्रहारजर्जरिते हिं हृदि जलमिव गलत्युपदिष्टम् । अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं चौविनयस्य । चन्दनप्रभवो न दहति किमनलः ? किं वा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा ? गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोबेगकरः प्रजागरः । विशेषेण राज्ञाम् । विरला हि तेषामुपदेष्टारः । प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् । उद्दाम -
***********
हि निश्चितम् । कुसुमशरः कंदर्पस्तस्य शरा बाणास्तेषां प्रहारा अभिघातास्तैर्जर्जरिते शिथिलीभूते हृद्युपदिष्टमुपदेशविषयीकृत जलमिव गलति क्षरति विनश्यति । निरर्थक भवतीत्यर्थः । दोषान्तरमाह - अकारणं चेति । उपशमादिकार्यजनक न भवतीत्यर्थः । ननु मदनशरप्रहारजर्जरितहृदयस्योपदेशाभावेऽप्युपदेशकार्य प्रशमादिकं सर्वमन्वयो वंशः, श्रुतं च शास्त्रम्, ताभ्यामेव भविष्यतीत्याशयेनाह - दुष्प्रकृतेरिति । दुष्प्रकृतेर्दुरात्मनस्तादृशहृदयस्यान्वयः श्रुतं चाविनयस्य हेतोर्भवति । न तु विनयायेत्यर्थः । ननु सुवंशजस्य कशमविनये प्रवृत्तिरित्यत आह - चन्दनेति । चन्दनं मलयज तस्मात्प्रभवो यस्यैवंभूतोऽनलो वह्निः किं न दहति न भस्मीकरोति । परस्परसंघर्षदोषे सति चन्दनात्समुत्थितोऽग्निर्दहत्येवेति । ननु प्रशमहेतुभूताच्छ्रुतात्कथमविनयोत्पत्तिरित्यत आह - किं वेति । प्रशमहेतुनापि वारिणा किं वडवानलो वाडवाग्निस्तोयधेः प्रादुर्भवति, सर्वलोकविनाशाय सर्वदा महासमुद्रे तिष्ठति; यस्य वाडवामुख इति प्रसिद्धिः । न प्रचण्डतरीभवति प्रबलतरो न स्यात् । अथ प्रकारान्तरेण गुरुवचनमाहात्म्यं वर्णयन्नाह - गुर्विति । नामेति कोमलामन्त्रणे । गुरूणां हिताहितप्राप्तिपरिहारोपदेष्ट्रणामुपदेशः शिक्षा । पुरुषाणाम् अजलं जलव्यतिरेकेणापि स्नानमाप्लवः । कीदृशम् । अखिलः समग्रो यो मलः कालुष्य तस्य प्रक्षालनं शुचीकरणं तत्र क्षमं समर्थम् । अन्विति । अनुपजातमनुत्पन्न पलितं पाण्डुरः कचस्तदादिवरूप्यं यस्मिनेतादृशम् ।. अजरमिति । जराव्यतिरेकेण वृद्धत्वं स्थविरत्वम् । अनेति । नारोपितः स्वीकृतो मेदोदोषो येनैवंभूतं गुरूकरणं स्थूलीभवनम् । मेदोदोषेण स्थूलता भवतीति सर्वत्र प्रसिद्धम् । तथायं न भवतीत्यर्थः । असुवेति । न विद्यते सुवर्णस्य कनकस्य विरचनं यस्मिन्नेवभूतमग्राम्य प्रशंसनीयं कर्णाभरणं श्रवणविभूषणम् । अतीतेति । अतीतो गतो ज्योतिः प्रकाशो यस्मादेवंभूत आलोक उद्योतः । न उद्धेगकरो न संतापजनकः प्रजागरो जागरणम् । केवलं तवैव नायमुपदेश इत्यत आह - विशेषेणेति । राज्ञां भूभुजामयमुपदेशो विशेषेणाधिक्येन प्रदातव्य इति भावः । राज्ञामनेक उपदेष्टारः किं तवोपदेशेनेत्यत आह - विरलेति । हि निश्चितम् । तेषां राज्ञामुपदेष्टार उपदेशदातारो विरलाः स्तोकाः । यतो राज्ञामुपदेशसमर्थोऽत्युत्कृष्टो विवक्षितोऽस्मदादिः, न त्वन्यो जनः । तदेव प्रदर्शयन्नाह - प्रतिशब्दक इवेति । जनो लोको भयादीते राजवचनं नृपवचोऽनुगच्छति नृपवचनानुगो भवति । न तु प्रत्युत्तरं दातुं समर्थ इति भावः । क इव प्रतिशब्दक इव प्रतिध्वनिरिव । यथा सोऽपि मूलशब्दसाम्येनानुगच्छति । केषांचिदुपदेशश्रवणमेव नास्तीत्यत आह - उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषा ते च । पृथु यथा स्यात्तथा स्थगितान्या -
टिप्प० - 1 दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य अकारण (कारण न) भवतीत्यपि पाठः, तदर्थश्च । अविनयस्येति पाठे तु अकारणमित्यनेन सह कथं योगः ? 2 प्रशमहेतुना वारिणा वाडवाग्निः किं न चण्डतरो भवति ? अपि तु भवत्येवेति स्पष्टोऽर्थः । 3 'उद्दामदर्पश्चयथुस्थगितश्रवणविवराश्च' इत्यपि केषाञ्चनाभिप्रेतः पाठः । तदर्थश्चैवम्- उद्दामदर्प एव श्वयथुः (शोथः) तेन रुद्धं श्रवणविवर येषाम् । शोथेन कर्णविवररोधे श्रवणाभावो यथा भवति तथा गर्वेण तेषामुपदेशगिरः श्रवणे न गच्छन्तीत्याशयः । पृथुस्थगितेत्यत्र पृथुपदेन कोऽर्थपरिपोष इति सहृदयाः प्रमाणम् ।
पाठा० - १ संप्रहार. २ हि हृदये; हृदये. ३ वा विनयस्य. ४ प्रभवोऽपि. ५ क्षमजलम्. ६ मददोषम्. ७ विरचनाग्राह्यम्. ८ अपनीत. ९ तु राज्ञाम्. १० एव.
(224
कादम्बरी।
कथायाम