________________
तिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च संततदुरन्तेयमुपभोगमृगतृष्णिका । नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पृषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति भाजनान्युपदेशानाम् । अपगतमले हि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शखाभरणमाननशोभासमुदयमधिकतरमुपजनयति । ह॑रत्यतिमलिनमन्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव । गुरूपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन्गुणरूपेण तदेव परिणमयति । अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य । कुसुमशरशर
***********
रजोगुणेन भ्रान्तिर्भ्रमो यस्याम् । पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येव करणान्येव हरिणाः कुरङ्गास्तेषां हारिणी हरणशीलैतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णिका मरुमरीचिकेयं सततं निरन्तरम् । सुखाभिमानोत्पादनाद् दुरन्ता दुःखावसाना । नवेति । नवयौवनेन प्रत्यग्रतारुण्येन कषायितं विपरिवर्तितमात्मान्तःकरणं यस्यैवंभूतस्य पुरुषस्यास्वाद्य मानानि तान्येव विषयस्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति । मधुराण्येव भवन्तीत्यर्थः । अत्रैव दृष्टान्तमाह- सलिलेति । यथा कषायद्रव्येण हरीतक्यादिना मधुराण्यपि जलानिमधु ( रत) राणि स्युः । 'आत्मानः' इति प्रामादिकः पाठः । विषयेषु स्त्रक्चन्दनवनितादिष्वत्यासङ्गोऽत्यासक्तिः पुरुषमात्मानं नाशयति । क इव । दिङ्मोहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह उन्मार्ग इति । उन्मार्गोऽपथो विरुद्धाचारश्च तत्र प्रवर्तकः प्रेरकः । ततः किमित्यत आह - भवादृशा इति । उपदेशानां शिक्षाणां भाजनानि पात्राणि भवादृशा भवत्सदृशा एव भवन्ति नान्य इति भावः । उपदेशफलमाह - अपगतेति । अपगतो दूरीभूतः कालुष्यलक्षणो मलो यस्मादेवंभूते मनसि चित्त उपदेशगुणाः शिक्षागुणाः सुखेनानायासेन विशन्ति प्रवेशं कुर्वन्ति । कस्मिन्क इव । स्फटीति । स्फटिकमणौ रजनिकरश्चन्द्रस्तस्य गभस्तयः किरणास्तद्वदिव । दोषे सति किं स्यादित्याह - गुरुवचनमिति । गुरुवचनं हिताहितप्राप्तिपरिहारोपदेष्टा गुरुस्तस्य वचनं वाक्यममलमपि निर्मलमप्यभव्यस्यासाधोः श्रवणस्थितं कर्णकोटरगतं सन्महच्छूलमुपजनयत्युत्पादयतीत्यर्थः । अत्रार्थेऽनुभवसिद्धं दृष्टान्तमाह- सलिलेति । यथा सलिलं पानीयमतिस्वच्छमपि कर्णगतं महाव्यथाजनकं स्यात् । दोषाभावे त्वाहइतरस्य त्वधिकतरमाननशोभास ु दयमुपजनयति विदधाति । क इव । शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति लोकरीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकारमिव तिमिरमिव हरति दूरीकरोति । क इव, प्रदोषसमयनिशाकर इव यामिनीमुखचन्द्रोदय इव । प्रकारान्तरेणाह - प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रस्तद्धेतुर्गुरूपदेशः शिरसिजजालं शिरोरुहभारममलीकुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं नयति । क इव । वयःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिरसिजजालं केशसमूह पलितरूपेणामलीकुर्वंस्तदेव शिरसिजजालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेनेत्यत आह- अयमिति । अयमेव नापरस्ते तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शयन्नाह - अनास्वादीति । न विद्यत आस्वादोऽनुभवो यस्यैवंविधो विषयरसो यस्य तथा तस्य । आस्वादितविषयस्य तूपदेशो निरर्थकः स्यादित्याह - कुसुमेति ।
टिप्प० - 1 कर्णगतशङ्खाभरणेन यथा हस्तिनो मुखशोभा, तथा गुरुवचनेन साधोर्मुखशोभा, रुचिपूर्वकं श्रवणेन आनने उल्लासोदयात् ।
पाठा० - १ इन्द्रियहरिणहरती च २ सततमतिदुरन्तेयमुपभोग; सततमतिदुरन्ते इयं दूरं नयत्युपभोग. ३ भाजनम् ४ सुखम् ५ च ६ अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम् ७ अतिमलिनमपि ८ परिणामः ९ कुसुमशरप्रहार.
शुकनासोपदेशः
पूर्वभागः ।
223