________________
लक्ष्मीमदः । कष्टमनञ्जनवर्तिसाध्यमपरमैश्चर्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽतितीव्रो दर्पदाहज्वरोष्मा । सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । नित्यमस्नानशौचवथ्यो रागमलावलेपः । अजस्त्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा भवतीति विस्तरेणाभिधीयसे । गर्भेवरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्व चेति महतीयं खल्वनर्थपरंपरा सर्वा । अविनयानामेकैकमप्येषामायतनम्, किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिर -
***********
नोपशमः । दारुणो भयावहः । कष्टं दुःखरूपमपरं तृतीयमैश्चर्यमेव तिमिरमन्धकारं तेनान्धत्वं गताक्षत्वम् । अनञ्जनेति । अञ्जनवर्तिर्विडालादिवसाञ्जनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् - 'अन्धकारे महाघोरे रात्रौ पठति पुस्तकम्' इति । पदं वाञ्जनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशिशिरेति । न शिशिरैः शीतलैरुपचारैश्चन्दनादिभिर्हार्यः परिहर्तुं योग्यः । अत्यन्तमतिशयेन तीव्रः कठिनो दर्पोऽभिमानः स एव दाहज्वरस्तीव्रतापस्तस्योष्मा धर्मः । सततेति । सततं निरन्तरं मूलमन्त्रैरगम्यो निवर्तयितुमशक्यः । मूलमन्त्रेत्युपलक्षणम् । तेन मणिमधुकरादिविषोत्तारणहेतूनां सर्वेषामपि संग्रहः । विषमः कठिनो विषयाः स्त्रक्चन्दनादयस्त एव विषं गरलं तस्यास्वादो भक्षणं तस्माद्यो मोहो मूर्छा । नित्यमिति । नित्यं सर्वदा स्नानमाप्लवः, शौचं शुचिक्रिया, ताभ्यां न वध्यो न विनाश्य एवंविधो रागो विषयाभिलाषः स एव मलः पङ्कस्तस्यावलेपः संपर्कः । अजस्त्रमिति । अजस्त्रं निरन्तरं न विद्यते क्षपावसाने राज्यन्ते प्रबोधो विनिद्रत्वं यस्यामेतादृशी घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनिपातः संघातः स एव निद्रा प्रमीला भवतीति हेतोर्विस्तरेण वारंवारमभिधीयसे । वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थपरंपरां प्रदर्शयन्नाह - गर्भेश्वरेति । गर्भेश्वरत्वं बाल्यावधिकमीश्वरत्वम्, अभिनवयौवनत्वं सर्वाधिक तारुण्यम्, अप्रतिम प्रतिनिधिशून्यं रूपं सौन्दर्यम्, अमानुषशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्यं यस्मिंस्तस्य भावस्तत्त्वम् । चकारः समुच्चयार्थ । इति समाप्तौ । खलु निश्चये । इयं महती. गरीयसी सर्वा समग्रानर्थपरंपरा कष्टपरंपरा । एषां पूर्वोक्तानामेकैकमप्यविनयानां दुर्बुद्धीनामायतनमास्थानम्, किमुत समवायः । एतेषां समुदायस्य दुर्बुद्धिजनकत्वे किं पुनर्भण्यते । तदुक्तम् - 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं पुनस्तच्चतुष्टयम् । अथ यौवनस्यापि दर्बद्धिजनकत्वं प्रदर्शयन्नाह - यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे प्रायो बाहल्येन शास्त्रमेव जलं पानीयं तेन प्रक्षालन तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः कालुष्यं बुद्धिवैपरीत्यमुपयाति प्राप्नोति । अन्चिति । अनुज्झिताऽपरित्यक्ता धवलता
चेतता ययैवंविधापि यूनां तरुणानां दृष्टिः । सरागैवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया स्वेच्छया यौवनसमये तारुण्यक्षणे प्रकृतिः पुरुषं दूरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थ उपमानमाह - शुष्कमिति । वातानां समूहो वात्या वातकलिकोच्यते । शुष्कपत्रं यथापहरति । उभयोः साम्यमाह - समुद्भूतति । समुद्भूता -
- - - - - - - - - - - - - - - - - - टिप्प० - 1 अपरम्, प्रसिद्धात् अन्धत्वाद्भिनमित्यर्थो वन्तव्यः । 2 'नियतमस्नानशौचबाध्यः' इत्यपि केषाञ्चनाऽभिप्रेतः पाठः । स्नानजनितशौचेन (शुद्ध्या) न बाध्यः (अपनेयः) इति तदर्थः । 3 अभिनवतया दुर्दमनीयवेग तारुण्यमित्यर्थे वक्तव्यः । 4 अनुज्झितधवलताऽपि सरागा (रक्तिम्ना सह वर्तमाना) इति विरोधः, तत्परिहारस्तुरागेण रमण्यादिषु प्रेम्णा सहवर्तमानेति कर्तव्यः ।
पाठा० - १ अपटलम्. २ अत्यन्ततीव्रः. ३ मूल. ४ शम्याः. ५ वध्यो बलवान्; बाध्यो बलवान्. ६ इत्यतः. ७ अभिधीयते. ८ महती. ९ धवलापि. १० सरागेव. ११ अदूरम्;
A
(222
A
W कादम्बरी ।
myyyyyyyy कथायाम