________________
भिजातप्रणामां पत्रलेखामनिमिषलोचनं सुचिरमालोक्य चन्द्रापीडः 'यथाज्ञापयत्यम्बा' एवमुक्त्वा कञ्चुकिन प्रेषयामास । पत्रलेखा तु ततःप्रभृति दर्शनेनैव समुपजातसेवारसा न दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न राजकुलगतस्य छायेव राजसूनोः पार्थं मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती प्रीतिरासीत् । अभ्यधिकं च प्रतिदिनमस्य प्रसादमकरोत् । आत्महृदयादव्यतिरिक्तामिव चैनां सर्वविश्रम्भेष्वमन्यत ।
एवं समतिक्रामत्स दिवसेष राजा चन्द्रापीडस्य यौवराज्याभिषेक चिकीर्षः प्रतीहारानपकरणसंभारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेक च तं कदाचिद्दर्शनार्थमागतमारूढविनयमपि विनीततरमिच्छशुकनासः सविस्तरमुवाच'तात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो -
***********
चिरकालमालोक्य निरीक्ष्य चन्द्रापीडो यथाज्ञापयत्यादेशं दत्तेऽम्बा मातैवमुक्त्वा कञ्चुकिनं प्रेषयामास विसर्जितवान् । तु पुनरर्थे । पत्रलेखा ततःप्रभृति तद्दिनादारभ्य दर्शनेनैव तदवलोकनेनैव समुपजातः समुत्पन्नः सेवायां रसो यस्याः सा । न दिवेति । न दिवा दिवसे, न रात्रौ त्रियामायाम्, न सुप्तस्य शयनं कृतवतः, नासीनस्योपविष्टस्य, नोत्थितस्योत्थानं कृतवतः, न भ्रमत इतस्ततो गच्छतः, न राजकुलगतस्य छायेव स्वप्रतिबिम्बमिव राजसूनोश्चन्द्रापीडस्य पार्श्व मुमोचेत्यस्य सर्वत्र नकारेणान्चयः । चन्द्रापीडस्यापि तस्यां पत्रलेखाया दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धिं प्राप्यमाणा महती प्रीतिर्महान्स्नेह आसीदभूत् । अस्य प्रतिदिन प्रत्यहमभ्यधिकमधिकाधिक प्रसादं सद्वस्तुप्रत्यर्पणरूपमकरोत् । सर्वविश्रम्भेषु समग्रविश्वासस्थलेष्येनां पत्रलेखामात्महृदयादव्यतिरिक्तामिव स्वस्वान्तादभिन्नामिवामन्यत ज्ञातवान् ।
एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गत्छत्सु दिवसेषु राजा तारापीडश्चन्द्रापीडस्य यौवराज्ये योऽभिषेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभारः समूहस्तस्य संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति । समुपस्थितः संजातो यौवराज्याभिषेको यस्य स तम् । कदाचित्कस्मिंश्चित्समये दर्शनार्थमवलोकनार्थमागतं प्राप्तमारूढविनयमपि संप्राप्तविनयमपि । किंचिनिगूढाभिप्रायः । विनीततरं विनम्रतरमिच्छन्वाञ्छशुकनासः सविस्तरं सव्यासमुवाचाब्रवीत् । तदेवाह-तातेति संबोधनम् । हे पुत्र चन्द्रापीड, ते तवाल्पमपि स्तोकमप्युपदेष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह - अधीतेति । अधीतानि पठितानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः । अधीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्य शास्त्राभिप्रायो येन तस्य । आशयमुद्घाटयति - केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्योच्छेद्यम् । अरत्नेति । न रत्नाना मणीनामालोकेनोच्छेद्य दूरीकर्तुं योग्यम् । अप्रदीति । न प्रदीपप्रभया गृहमणिकान्त्यापनेयं दूरीकरणीयम् । अतीति । अतिशयेन निरवधिकतया गहनमलब्धमध्यं यौवनं तारुण्यं ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामेनोपशमो यस्य सः । अयं भावः-परिणामेनोपशम ओषध्यादिषु प्रसिद्धः । विपरीतमत्र वयःपरिणामेऽपि - - - - - - - - - - - -
- - - - - - - - - - - - टिप्प० - 1 (अस्याः) इति पाठः प्रचलितः । 2 यौवनजनितं तमः अतिदुर्दमनीयमित्यर्थः ।।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ लोचनः, २ इत्येवम्. ३ प्रतिदिवसमस्याः . ४ केषुचिद्दिवसेषु. ५ उपसभार. ६ कर्तुम्. ७ वेयस्य. ८ तु.
(शुकनासोपदेशः
पूर्वभागः ।
221