SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ विलासवती समाज्ञापयति-'इयं खलु कन्यका महाराजेन पूर्वं कुलूतराजधानीमवजित्य कुलूतेश्वरदुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिकामध्यमुपनीता । सा मया विगतनाथा राजदुहितेति च समुपजातस्नेहया दुहितृनिर्विशेषमियन्तं कालमुपलालिता संवर्धिता च । तदियमिदानीमुचिता भवतस्ताम्बूलकरङ्कवाहिनीति कृत्वा मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । बालेव लालनीया । स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया । शिष्येव द्रष्टव्या । सुहृदिव सर्वविधैम्भेष्वभ्यन्तरीकरणीया । दीर्घकालसंवर्धितस्नेहतया स्वसुतायामिव हृदयमस्यामस्ति मे । महाभिजनराजवंशप्रसूता चाहतीयमेवंविधानि कर्माणि । नियत स्वयमेवेयमतिविनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति । केवलमतिचिरकालोपचिता बलवती मे प्रेमप्रवृत्तिरस्याम् । अविदितशीलश्चास्याः कुमार इति संदिश्यते । सर्वथा तथा कल्याणिना प्रयतितव्यं यथेयमतिचिरमुचिता परिचारिका ते भवति' इत्यभिधाय विरतवचसि कैलासे कृता - *********** स्थाप्य विज्ञप्तिं कुर्वन्तीति भावः । हे कुमार, महादेवी विलासवती समाज्ञापयति भवन्तं ज्ञापना करोति । इयमिति । खलु निश्चयेन । इयं कन्यका महाराजेन त्वपित्रा पूर्वं कुलूतनाम्नी राजधानीमवजित्य स्वायत्तीकृत्य कुलूतेश्वरस्य हिमवद्रोण्या ईश्वरस्य दुहिता, पुत्री पत्रलेखेत्यभिधानं यस्याः सा बालिका सती बन्दीजनेन सहानीयान्तःपुरस्य याः परिचारिकाः सेवाकारिण्यस्तासां मध्यमुपनीता प्रापिता सती सा मया विगतनाथा राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यामेवंविधा मया सा पत्रलेखा दुहितृनिर्विशेषं दुहिता पुत्री तस्याः सकाशानिर्गतो विशेषोऽस्या यथा स्यात्तथेयन्तं कालमेतावत्पर्यन्तमुपलालिता पालिता संवर्धिता च वृद्धि प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रतमियमुचिता योग्या भवतस्तव ताम्बूलस्य करङ्कः स्थगी तद्वाहिनीति कृत्वा मया प्रेषिता । नचेति । अस्या पत्रलेखायामायुष्मता भवता परिजने परिच्छदे सामान्या सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च भवितव्यम । बालेव वालिकेव लालनीया पालनीया । स्वस्य चित्तवृत्तिर्मनोवृत्तिस्तद्वदिव चापलेभ्योऽनवस्थितिभ्यो निवारणीया वर्जनीया । शिष्या शिष्यणी सेव द्रष्टव्या विलोकनीया । सुहृदिव मित्रमिव सर्वविश्रम्भेषु समग्रविश्वासस्थानेष्वभ्यन्तरा मध्यवर्तिनी करणीया कार्या । दीर्घकालेन संवर्धितो वृद्धि प्राप्तो यः स्नेहः प्रीतिस्तस्य भावस्तत्ता तया स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति । महानभिजनः कुलं यस्मिन्नेवंभूतो यो राजवंशस्तत्र प्रसृतोत्पन्नवंविधानि कर्माणि ताम्बूलकरकंधारणप्रभृतीनीयमेवार्हति योग्या । नियतमिति । नियतं निश्चितमियं स्वयमेवातिविनीततयातिविनयवत्तया. कतिपयैरेव कियद्भिरेव दिवसैर्घस्त्रैः कुमारं त्वामाराधयिष्यति स्ववशीकरिष्यति । केवलं परमस्यामतिचिरकालेन भूयसानेहसोपचिता पुष्टि प्राप्ता मे मम बलवती प्रेमप्रवृत्तिः स्नेहप्रवृत्तिः । अस्या अविदितमज्ञातं शील येनैवविधः कुमार इति संदिश्यते कथ्यते । सर्वथेति । सर्वथा सर्वप्रकारेण तथा कल्याणिना श्रेयोवता प्रयतितव्यं प्रयत्नः कर्तव्यः । यथातिचिरं चिरकालं यावत् । ते तवोचिता योग्येय परिचारिका भवतीत्यभिधायेत्युक्त्वा विरतवचस्यपास्तवचने कैलासे सति कृतोऽभिजातः कुलीनस्तद्वत्प्रणामो यया तां पत्रलेखामनिमिषलोचन यथा स्यात्तथा सुचिरं - - - - - - - - - - - टिप्प० -1 हिमालयसमीपे 'कुल्लू' इति साम्प्रतं प्रसिद्धा राजधानी, तस्या ईश्वरः। 2 ताम्बूलपात्रमित्यर्थः । 3 शासनीया शिष्यिणी यथा छात्री इति परमार्थः । पाठा० - १ कन्या. २ कलत; कुन्तल. ३ कलूतलेश्वर; कुन्तलेश्वर. ४ इति समुपजात. ५ करण्डक. ६ इति मया. ७ उपदेष्टव्या. ८ विश्वासेषु. ९ बलवानस्या पक्षपातो महा. १० एवंविधानि नियतम्. ११ नियत च. १२ अभिविनीत. १३ भवतीतीत्यभिधाय. १४ अभिज्ञात. (220 कादम्बरी | कादम्बरा । A M कथायाम-) Y
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy