________________
भुजलताविक्षेपप्रेषैितनखमयूखच्छलेन धाराभिरिव लावण्यरसमनवरतं क्षरन्त्या, दिङ्मुखविसर्पिहारलतानां रश्मिजाले निमग्नशरीरतया क्षीरसागरोन्मग्नवदनयेव लक्ष्म्या, बहलताम्बूलकृष्णिकान्धकारिताधरलेखया सैमसुवृत्ततुङ्गनासिकया, विकसितपुण्डरीकलोचनया, मणिकुण्डल-मकरपत्रभङ्गकोटिकिरणातपाहतकपोलतया सकर्णपल्लवमिव मुखमुद्रहन्त्या, पर्युषितधूसरचन्दनरसतिलकालंकृतललाटपट्टया, मुक्ताफलप्रायालंकारया, राधेयराज्यलक्ष्म्येवोपपादिताङ्गरागया, नेववनलेखयेव कोमलतनुलतया, त्रय्येव सुप्रतिष्ठितचरणया, मखशालयेव वेदिमध्यया, मेरुवनलतयेव कनकपत्रालंकृतया, महानुभावाकारयानुगम्यमानं कन्यया कैलासनामानं कञ्चुकिनमायान्तमपश्यत् । स कृतप्रणामः समुपसृत्य क्षितितलनिहितदक्षिणकरो विज्ञापयामास-'कुमार, महादेवी -
***********
ण्यरसं धाराभिः क्षरन्त्येव । दिगिति । दिङ्मुखविसर्पिण्यो दिङ्मुखप्रसरणशीला या हारलतास्तासां रश्मिजाले कान्तिसमूहे निमग्नं बुडितं यच्छरीरं तस्य भावस्तत्ता तया क्षीरसागरात् दुग्धाम्भोधेरुन्मग्नं वदनं यस्या एवंविधया लक्ष्म्येव । बहलेति । बहलो निबिडो यस्ताम्बूलस्तस्य कृष्णिका श्यामता तयान्धकारितान्धकार इवाचरिताधरलेखा दन्तच्छदरेखा यस्याः सा तया । समेति । समाऽविषमा, सुवृत्ता वर्तुला, तुङ्गोच्चा नासिका नासा यस्याः सा तया । विकेति । विकसितं यत्पुण्डरीक तरलोचने यस्याः सा तया । मणीति । मणिकुण्डलयो रत्नभूषणयोर्मकरपत्रभङ्गः कोटीरपत्रेषु मकराकृतिस्तस्याः किरणानामातपः प्रकाशस्तस्याहंत प्रतिबिम्बितं ययोरेवंविधकपोलो तस्य भावस्तत्ता तया । सह कर्णपल्लवेन श्रोत्रावतसेन वर्तमानं मुखमिवोद्वहन्त्या धारयन्त्या । पर्युषीति । पर्युषितो गतदिनोद्भवोऽत एव धूसरो यश्चन्दनरसस्तस्य तिलकेनालङ्कृतं भूषितं ललाटपट्ट यस्याः सा तया । मुक्तेति । मुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंविधा अलंकारा यस्याः सा तया । राधेयेति । राधेयः कर्णस्तस्य या राज्यलक्ष्मीराधिपत्यश्रीस्तयेव । उभयं विशिनष्टि - उपेति । उपपादितो विहितोऽङ्गरागो यया । पक्षेऽङ्गनाम्नो देशस्य रागः प्रीतिः । नवा प्रत्यग्रा या वनलेखारण्यश्रेणिस्तयेव । उभय विशेषयन्नाह -कोमलेति । कोमला सुकुमारा तनुलता शरीरलता यस्याः सा तया । पक्षे कोमलास्तन्व्यो लता व्रतत्यो यस्याम् । त्रयी वेदत्रयी तयेव । सुप्रतीति । सुप्रतिष्ठिताः शोभनतया स्थापिताश्चरणाः पादा यया सा तया । पक्षे सुप्रतिष्ठिताः सर्वत्र प्रसिद्धाश्चरणाः शाखाः पदानि यस्याः सा तया । मखेति । मखो यज्ञस्तस्य शालयेव । उभयोः साम्ययाह - वेदीति । वेदिवन्मध्यं यस्याः सा तया । तनुमध्ययेत्यर्थः । पक्षे वेदिः परिष्कृता भूमिमध्ये यस्याः । मेरुर्मन्दरस्तस्य या वनलता तयेव । कनकपत्रैः कर्णाभरणैरलंकृतया भूषितया । पक्षे कनकः नागकेसरश्चम्पको वा तस्य पत्राणि दलानि । 'कनको नागकेसरे । धत्तूरे चम्पके काञ्चनारकिंशुकयोरपि इत्यनेकार्थः । महाननुभावो माहात्म्यं तदनुरूप आकार आकृतिर्यस्याः सा तया । अन्वयस्तु प्रागेवोक्तः ।
आगमनानन्तरं स कञ्चुकी कृतः प्रणामो येनैवंभूतो विज्ञापयामास विज्ञप्तिमकरोत् । किं कृत्वा । समुपसृत्य समीपमागत्य क्षितितले निहितः स्थापितो दक्षिणकरो येन सः । इयं दक्षिणदेशरीतिः-क्षितौ दक्षिणकरं व्यव -
- - - - - - - - - - - - - -- टिप्प० - 1 दिङ्मुखेषु (सर्वतः) प्रसरणं हारलतारश्मिजालानां, न हारलतानाम् । अत एव 'दिङ्मुखविसर्पिणि हारलतानां रश्मिजाले' इत्यपि पाठान्तर तदर्थसङगतिञ्च केचिद् वदन्ति । 2 आतपेन आहतौ (संस्पृष्टौ) कपोलौ यस्यास्तत्तयेति सरलोऽर्थः । 3 पादाविति द्विवचनमेवोचितम् ।
-
-
-
पाठा० - १ कृष्णिमा. २ समुपवृत्त. ३ धवललोचनया. ४ मरकतमकर. ५ कपोलतलतया. ६ नवनव. ७ कन्यकया.
ताम्बूलकरकवाहिन्याः परिचयः
पूर्वभागः ।
1219