________________
मेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकुलमयासीत् । तेनैव च क्रमेणावलोक्य राजानमागत्य निशामनैषीत् ।
अपरेयुश्च प्रभातसमय एव सर्वान्तःपुराधिकृतम्, अवनिपतेः परमसंमतम्, अनुमार्गागतया च, प्रथमे वयसि वर्तमानया, राजकुलसंवासप्रगल्भयाप्यनुज्झिातविनयया, किंचिदुपारूढयौवनया, शक्रगोपालोहितरागेणांशुकेन रचितावगुण्ठनया सबालातपयेव पूर्वया ककुभा प्रत्यग्रदलितमनःशिलावर्णेनाङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूरयन्त्या, ज्योत्स्नयेव राहुग्रहग्रासभयादपहाय रजनिकरमण्डलं गामवतीर्णया, राजकुलगृहदेवतयेव मूर्तिमत्या, क्वणितमणिनूपुराकुलचरणयुगलया कूजत्कलहंसाकुलितकमलयेव कमलिन्या महार्हहेममेखलाकलापकलितजघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, मन्दं मन्दं -
***********
कर्षितं हृदयं चेतो यस्यैवंभूतः । स्वयमेवात्मनैव, अत्रैवकारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस्याश्वस्य पुरोऽग्रे यवसं तृणमाकीर्य प्रकीर्य प्रक्षिप्य तदनन्तरं निर्गत्य राजकुलमयासीदबाजीत् । तेनैव क्रमेण पूर्वोक्तपरिपाट्या राजानं तारापीडमवलोक्य निरीक्ष्य पुनरागत्यैत्य । स्वगृहमिति शेषः । निशां रात्रिमनैषीत्परिकलितवान् ।
अपरेयुरिति । अपरस्मिन्दिने प्रभातसमय एव कन्ययानुगम्यमानं कैलासनामानं कञ्चुकिनमायान्तमागच्छन्तमपश्यदित्यन्वयः । कञ्चुकिनं विशिनष्टि - सर्वेति । सर्वं समग्रं यदन्तःपुरं तत्राधिकृतं नियुक्तम् । स्वस्वामिनेति शेषः । अवनिपते राज्ञः परमसंमतं पर विश्वस्तम् । अथ च सहागतकन्यां विशेषयन्नाह - अन्विति । अनुलक्षीकृत्य मार्गमागता प्राप्ता तया । प्रथमवयः कौमारवयस्तस्मिन्वर्तमानया स्थितया । राजेति । राजकुले नृपकुले यः संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो विनयो मर्यादा यया सा तया । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधिक्यमित्याश्चर्यमिति भावः । किचिदिति । किंचिदीषदुपारूढमाश्रितं यौवनं तारुण्यं यया सा तया । शक्रेति । शक्रगोप एव शक्रगोपकः । स्वार्थे कः । आरक्तः प्रावृटुकीटस्तद्वदालोहितो रक्तो रागो यस्मिन्नेतादृशेनांशुकेन वस्त्रेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यया सा तया । अंशुकस्यातिरक्तत्वादुपमान प्रदर्शयन्नाह - सबालेति । सह बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव । प्रत्यग्रदलिता तत्कालमर्दिता या मनःशिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्यं तस्य प्रभा कान्तिस्तस्याः प्रवाहो रयस्तेन भवनं गृहमापूरयन्त्या परिपूर्ण कुर्वत्या । केनेव । अमृतरसस्य या नदी तस्याः पूरेणेव । राहुः सैहिकेयः स चासौ ग्रहस्तेन ग्रासो भक्षणं तस्माद्यद्भयं तस्माद्रजनिकरमण्डलं चन्द्रबिम्बमपहाय त्यक्त्वा गां पृथ्वीमवतीर्णयागतया ज्योत्स्नयेव कौमुद्येव । मूर्तिमत्या शरीरधारिण्या राजकुलदेवतयेव नृपकुलाधिष्ठात्येव । क्वणितं शब्दितं यन्मणिनपुरं रत्नपादकटकं तेनाकुलं व्याप्तं चरणयुगलं पादद्वितयं यस्याः सा तया । नूपुरस्य श्वेतत्वाच्चरणयोश्चारक्तत्वादुत्प्रेक्षामाह - कूजदिति । कूजन्यः कलहंसः कादम्बस्तेनाकुलितं कमलं यस्या एवंविधया कमलिन्येव । महार्हो महा? यो हेममेखलाकलापः सुवर्णरशनाकलापस्तेन कलितं जघनस्थलं कट्या अग्रप्रदेशो यस्याः सा तया । नातीति । नातिनिर्भर नातिबाहुल्येनोदिन्नौ प्रकाशं प्राप्तौ पयोधरौ स्तनौ यस्याः सा तया । मन्दमिति । मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवल्लया विक्षेप इतस्ततञ्चालनं तेन प्रेलिता धूता ये नखमयूखा नखरदीप्तयस्तेषां छलेन मिषेणानवरतं निरन्तरं लावण्यरस तारु -
-------------------------------- टिप्प० - 1 'मैनसिल' इति ख्यातो धातुविशेषः ।
-
-
-
-
पाठा० - १ परेयुश्च. २ अधिकृततया. ३ गतया प्रथमे. ४ लोहित. ५ चूर्णवर्णेन. ६ राहुग्रास; राहुग्रसन. ७ भूमण्डलम्. ८ कुलदेवतया. ९ आकुलित; आकलित. १० चरणया रुचिररेणुचर्चितचञ्चरीकचक्रवालवाचालितरक्तकमलयुगलयेव स्थलकमलिन्या. ११ आकलित. १२ मन्दमन्द.
MARRRRRRRRR
स कादम्बरी I
(218
कथायाम- }
IIIIIIIIIIIIIIII