SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रतीहाराधिष्ठिता राजकुलपरिचारिकाः कुलवर्धनासनाथाश्च विलासवतीदास्यः सर्वान्तःपुरप्रेषिताश्चान्तःपुरपरिचारिकाः पटलकविनिहितानि विविधान्याभरणानि मोल्यान्यङ्गरागान्वासांसि चादाय पुरतस्तस्योपतस्थुरेपनिन्युश्च । यथाक्रममादाय च ताभ्यः प्रथम स्वयमुपलिप्य वैशम्पायनमुपरचिताङ्गरागो दत्त्वा च समीपवर्तिभ्यो यथार्हमाभरणवसनाङ्गरागकुसुमानि विविधमणिभाजनसहस्त्रसारं शारदमम्बरतलमिव स्फुरिततारागणमाहारमण्डपमगच्छत् । तत्र च द्विगुणितकुथासनोपविष्टः समीपोपविष्टेन तद्गुणोपॅवर्णनपरेण वैशम्पायनेन येथार्ह भूमिभागोपवेशितेन राजपुत्रलोकेन 'इदमस्मै दीयताम्, इदमस्मै दीयताम्इति प्रसादविशेषदर्शनसंवर्धितसेवारसेन च सहाहारविधिमकरोत् । उपस्पृश्य च गृहीतताम्बूलस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीपमगमत् । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्रायालापाः कथाः कृत्वा सत्यप्याज्ञाप्रतीक्षणोन्मुखे पार्श्वपरिवर्तिनि परिजने तद्गुणहृतहृदयः स्वय - *********** प्रगल्भा दासी तया सनाथाः सहिता विलासवती कुमारजननी तस्या दास्यः कूटहारिकाः (?) । सर्वान्तःपुरप्रेषिता इति । सर्व यदन्तःपुरं तेन प्रेषिता अन्तःपुरपरिचारिकाश्चावरोधसेवाविधायिन्यः पटलकं वङ्गेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि, माल्यानि पुष्पदामानि, अङ्गरागान्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः । उपनिन्युश्च । आनीतं वस्तूपढौकयामासुरित्यर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुरपरिचारिकाभ्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुपलिप्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहारमण्डपं भोजनमण्डपमगच्छदित्यन्वयः । किं कृत्वा । यथार्ह यथायोग्यमाभरणवसनाङ्गरागकुसुमानि समीपवर्तिभ्यः पार्थस्थायिभ्यो दत्त्वा वितीर्य । भोजनमण्डप विशेषयन्नाह - विविधेति । विविधानि विचित्राणि यानि मणिभाजनानि रत्नपात्राणि तेषां सहस्त्रं तेनं सारं प्रधानम् । भाजनानां वर्तुलत्वादिसाम्यादुपमानान्तरमाह - शारदेति । स्फुरिततारागण शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहारविधि भोजनविधिमकरोदित्यम्बयः । द्विगुणितं परावर्तित यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्थ तत्रोपविष्टेन स्थितेन । तदिति । तस्य तारौपीडस्य ये गुणाः शौर्यादयस्तेषामुपवर्णनं श्लाघनं तत्र परेणासक्तेन वैशम्पायनेन यथार्ह यथायोग्यम् । भूमिभागेति । यस्य योचिता योग्या भूस्तस्यामुपवेशितेन स्थापितेन । राजपुत्रलोकस्य विशेषणम् । राजपुत्रलोकेन 'अस्मा इदं दीयताम्, अस्मा इदं दीयताम्' इति पूर्वोक्तप्रकारेण प्रसादः प्रसन्नता तस्य विशेष आधिक्यं तस्य दर्शनं प्रकटीकरणं तेन संवर्धितो वृद्धि प्रापितः सेवारसः सपर्यास्वादो यस्य स तेन । अन्वयस्तु प्रागेवोक्तः । भोजनानन्तरमुपस्पृश्याचमनं कृत्वा गृहीतं ताम्बूलं नागवल्लीदलं येन सः । तस्मिन्मण्डपे मुहूर्तमिव नाडिकाद्वयमिव स्थित्वेन्द्रायुधसमीपमगमद्ययौ । तत्र चेति । तत्र तस्मिन्स्थलेऽनुपविष्ट एवोर्ध्वस्थित एव तस्येन्द्रायुधस्य ये गुणा मुखमण्डले निर्मासत्वादयस्तेषामुपवर्णन प्रायो बाहुल्यं येषु एवंविधा आलापाः संलापा यास्वेवंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समयावेक्षणं तत्रोन्मुखे सावधाने पार्थपरिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये गुणाः शालिहोत्रप्रसिद्धास्तैर्हतमा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पेटिका इत्यर्थः । 2 'भाजनसहसशारम्' इत्यपि पाठः । मणिभाजनसहस्त्रैः शारं विचित्रमिति तदर्थः । 3 चन्द्रापीडस्येत्युचितम्, संनिधानात्, 4 वेगेन गमनं, मनोभावानुसारं स्थित्यादिकाः । पाठा० - १ प्रतिचारिकाः. २ माल्याङ्गरागान्. ३ उपनिन्युश्चोपनीतानि च. ४ रचित. ५ शाराम्बर. ६ द्विगुणीकृत. ७ वर्णन. ८ वैशम्पायनेन सह. ९ यथार्ह. १० सह राज. ११ प्रदीयताम्. १२ तस्मै. १३ प्रदीयताम्. १४ विशेषसंवर्धितसेवारसेनाहार. १५ अगात्. १६ आज्ञा प्रतीक्षमाणोन्मुरवे. १७ अपहत. चन्द्रापीडस्य विश्राम-भोजनादिव्यापारः पूर्वभागः । 217
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy