________________
कान्तिः, अनेकरूपानुसरणसंभ्रमपरिभ्रष्टच्छेत्रधरतया छत्रीकृतेन नवपल्लवेन निवार्यमाणातपः, विविधवनलताकुसुमरेणुधूसरो वसन्त इव विग्रहवान्, अश्वखुररजोमलिनललाटाभिव्यक्तावदातस्वेदलेखः, दूरविच्छिन्नेन पदातिपरिजनेन शून्यीकृतपुरोभागः, प्रजवितुरङ्गमाधिरूढेरल्पावशिष्टैः, सह राजपुत्रैः ‘एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः, एवं हरिणः इति तमेव मृगयावृत्तान्तमुच्चारयन्स्वभवनमाजगाम ।
उत्तीर्य, च तुरङ्गमात्ससंभ्रमप्रधावितपरिजनोपनीत उपविश्यासने वारबाणमवतार्य, अपनीय चाशेषं तुरङ्गाधिरोहणोचितं वेषपरिग्रहमितस्ततः प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्तं विशश्राम । विश्रम्य च मणिरजतकनककलशशतसनाथामन्तर्विन्यस्तकाञ्चनपीठां स्नानभूमिमगात् । निर्वतिताभिषेकव्यापारस्य च विविक्तवसनपरिमृष्टवपुषः स्वच्छदुकूलपल्लवाकलितमौलेर्गृहीतवाससः कृतदेवार्चनस्याङ्गरागभूमौ समुपविष्टस्य राज्ञा विसर्जिता महा -
***********
अनेकेति । अनेके ये रूपाः पशवस्तेषामनुसरणं गवेषणं तत्र यः संभ्रमश्चेतसो वैक्लव्यं तेन परिभ्रष्टा दूरीभूता ये छत्रधरास्तेषां भावस्तत्ता तया । 'रूपं तु श्लोकशब्दयोः पशौ' इत्यनेकार्थः । छत्रीकृतेनातपवारणीकृतेन नवपल्लवेन प्रत्यग्रकिसलयेन निवार्यमाणो दूरीक्रियमाण आतपो यस्य सः । विविधेति । विविधा अनेकप्रकारा या वनलता अरण्यव्रतत्यस्तासां कुसुमरेणुः पुष्परागस्तेन धूसरे ईषत्पाण्डुः । क इव । विग्रहवान्सशरीरो वसन्त इव इष्य इव । अश्वखुरस्य यद्रजस्तेन मलिनं कश्मलं यल्ललाट तत्राभिव्यक्ता प्रकटावदाता निर्मला स्वेदलेखा यस्य सः । दूरविच्छिन्नेन दूरान्तरितेन पदातिपरिजनेन पत्तिपरिच्छदेन शून्यः कृतो विहितः पुरोभागोऽग्रभागो यस्य सः । प्रजविनो जवयुक्ता ये तुरङ्गमा अवास्तेष्वधिरूढरारूढेरल्पावशिष्टैः स्तोकैः राजपुत्रैर्नृपसुतैः सह । इति तमेव मृगयावृत्तान्तमाखेटकोदन्तमुच्चारयन्नन्योन्यं ब्रुवन् । इतिशब्दार्थमाह - एवमिति । एवं पूर्वोक्तप्रकारेण मृगपतिः सिंहः, एवं वराहो वनक्रोडः, एवं महिषो रक्ताक्षः, एवं शरभोऽष्टापदः, एवं हरिणो मृगः । व्यापादित इति शेषः । अन्वयस्तु प्रागेवोक्तः ।।
स्वभवनगमनानन्तरं च तुरङ्गमादश्चादुत्तीर्यावरोह कृत्वा ससंभ्रमं सवेगं प्रधावितो यः परिजनः परिच्छदस्तेनोपनीत आनीत आसने विष्टर उपविश्योपवेशनं कृत्वा वारवाणं कवचमवतार्य तस्यावतरणं कृत्वा तुरङ्गाधिरोहणोचितमशेषं समग्रं वेषपरिग्रहणमपनीय दूरीकृत्य । इतस्ततः प्रचलितं यत्तालवृन्तं व्यजनं तस्य यः पवनो वायुस्तेनापनीयमानो दूरीक्रियमाणः श्रमः क्लमो यस्य स तथा मुहूर्तं घटिकाद्वयं विशश्राम विश्राम गृहीतवान् । विश्रम्यचेति । विश्राम गृहीत्वा । मणीति । मणयश्चन्द्रकान्तायाः, रजत रौप्यम्, कनक सुवर्णम्, एतेषां यत्कलशशतं कुम्भशतं तेन सनाथा सहिताम् । अन्तर्मध्ये विन्यस्त स्थापितं काञ्चनपीठं स्वर्णपीठ यस्यामेवभूता स्नानभूमिमगाज्जगाम । निर्वर्तितेति । निर्वतितो निष्पादितोऽभिषेकव्यापारो यस्य स तस्य । विविक्ते विजने वसनं वस्त्रं तेन परिमृष्टं शुष्कीकृतं वपुर्येन स तस्य । स्वच्छेति । स्वच्छो निर्मलो यो दुकूलपल्लवस्तेनाकलितो वेष्टितो मौलिः शिरो यस्य स तस्य । गृहीत स्वीकृत वासो वस्त्रं येन स तथा तस्य । कृतं देवार्चन देवपूजा येन स तस्य । अङ्गरागभूमौ विलेपनभूमौ समुपविष्टस्य राज्ञा तारापीडेन विसर्जिता विसृष्टा महाप्रतीहारेण महाद्वारपालकेनाधिष्ठिता आश्रिता राजकुलपरिचारिका नृपकुलसेवाकारिण्यः कुलवर्धना -
- - - टिप्प० - 1 विविक्तेन पवित्रेण वसनेनेत्यर्थ उचितः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
-
-
--
पाटा० - १ अनुसार. २ छत्रधारतया. ३ वनपल्लवेन. ४ जनेन. ५ बनमहिषः. ६ अवतीर्य. ७ समुपविश्य. ८ तुरङ्गम. ९ निवर्तित. १० आकुलित. ११ गृहीतधोतवाससः. १२ देवता.
216
कादम्बरी।
कथायाम