________________
बहुगजतुरगपदातिपरिवृतो वैनं ययौ । तत्र चाकर्णान्ताकृष्टमुक्तैर्विकचकुवलयपलाशकान्तिभिभल्लैर्मदकलकलभकुम्भभित्तिभिदुरैश्च नाराचैश्चापटङ्कारभयचकितवनदेवतार्धाक्षवीक्षितो वनवैराहान्केसरिणः शरभाचामराननेककुरङ्गकांच सहस्त्रशो जघान । अन्यांश्च जीवत एव महाप्राणतया स्फुरतो जग्राह । समारूढे च मध्यमह्नः सवितरि वनात्स्नानोत्थितेनेव श्रमसलिलबिन्दुवर्षमनवरतमुज्झता मुहुर्मुहुर्दशनविघट्टनैः खणखणायितखरखलीनेन श्रमशिथिलमुखविगलितफेनिलरुधिरलवेन पर्याणपट्टकानुसरणोत्थितफेनराजिना कर्णावतंसीकृतमुत्फुल्लकुसुमशबलमलिपटलझङ्काररवमुखर वनगमनचिह्न पल्लवस्तबकमुबहतेन्द्रायुधेनोह्यमानः, समुद्गतस्वेदतयान्तरार्दीकृतमंण्डलेन मृगरुधिरलवशतशबलेन वारबाणेन द्विगुणतरमुपजात -
***********
प्रधावद्भिः शीघ्रं गच्छद्भिः । तत्रेति । तत्र तस्मिन्बने सहस्त्रशोऽनेकशो वनवराहानरण्यक्रोडान्, केसरिणः सिंहान्, शरभानष्टापदान चामराश्चमरी , अनेककुरङ्गकानसंख्यमृगांश्च जघान हतवानित्यन्वयः । कैः । नाराचैर्लोहनिर्मितैर्बाणैः । 'सर्वलोहो नाराच एषणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्तेति । आकर्णान्तमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति । मदेन कला मनोहराः । अनेन कलभस्य त्रिंशदब्दकत्वान्मदावस्था सूचिता । अत एव कलभशब्दप्रयोगः । एवंविधा ये कलभा हस्तिशावकास्तेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिदुरैर्भेदकैः । पुनः कैः । भल्लैः कुन्तैः । तामेव विशिनष्टि - विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां पलाशानि पत्राणि तद्वत्कान्तिीप्तिर्येषां तैः । उत्तेजिताना भल्लानामपि तदुपमानम् । चापेति । चापस्य धनुषो यष्टङ्कारष्टङ्काररवोऽनुकरणशब्दस्तस्माद्यद्भयं तेन चकिता त्रस्ता या वनदेवता वनाधिष्ठात्र्यस्ताभिरक्षण वीक्षितः । अन्याश्चेति । अन्यानेतद्भिन्नाञ्जीवत एव प्राणान्दधत एव स्फुरतो दीप्यमानान्महाप्राणतया महासाहसतया जग्राह गृहीतवान् । समेति । अह्रो दिवसस्य मध्यं समारूढे प्राप्ते सवितरि सूर्ये सति वनादरण्यात्कुमारः स्वभवनं स्वगृहमाजगामाययावित्यन्वयः । अथ कुमारं विशिनष्टि - इन्द्रेति । इन्द्रायुधेनाश्वेनोह्यमानः वहमानः । अश्वं तुरंगमं विशेषयन्नाह - स्नानेति । अनवरतं श्रमसलिलाना खेदोत्थजलाना ये बिन्दवः पृषतास्तेषां वर्षं वृष्टिमुज्झता त्यजता । अत एवाह-स्नानोत्थितेनेवाप्लवानन्तरमेव कृताभ्युत्थानेनेव । मुहुरिति । मुहुर्मुहुर्वारंवारं दशनविघट्टनैर्दन्तघर्षणैः खणखणायितं खणखणेत्याचरितं खरं कठिनं खलीनं मुखयन्त्रणं येन । श्रमेति । श्रमेण खेदेन शिथिलं श्लथं यन्मुखं तस्माद्विगलिताः स्त्रस्ताः फेनिलयुक्ताः कफसहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याण पल्ययनं तस्य पट्टकः काष्ठपीठं तयावदनुसरणं यस्या एवंविधोत्थिता फेनराजिः कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं कृतम् । उत्फुल्लानि विकचानि यानि कुसुमानि तैः शबलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्काररवो झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्न लक्ष्मैवंविधं पल्लवस्तबकं किसलयगुच्छकमुरहता धारयता । पुनः कीदृशः । समुद्गतः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तरार्दीकृतं मण्डलं यस्य स तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्ताशास्तेषां शतं तेन शबलेन कबुरेणैवंभूतेन वारबाणेन कञ्चुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारबाणेन महती दीप्तिर्भवत्येवेति विश्वविदितम् ।
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 इलच्प्रत्ययः स्वयं मत्वर्थे । अत एव फेनयुक्ता इत्युचितम् ।
।
पाठा० - १ पादातिभिः. २ घन वनम्. ३ अवकृष्ट. ४ टड्काररव. ५ वनवराहकेसरिणः. ६ चामराननेकविधः. । स्नानोत्थितेन. ८ खररवाभीतेन. ९ गलित. १० अनुसारोत्थितः. ११ झङ्कारमुखरम्. १२ अन्तरान्तरा. १३ उपजनित.
(चन्द्रापीडस्य मृगया ।
पूर्वभागः ।)
215