________________
नलेषु प्रज्वलत्सु मानिनीनां शोकविधुरेषु हृदयेषु, प्रवृत्ते प्रदोषसमये चन्द्रापीडः प्रज्वलितदीपिकाचक्रवालपरिवारश्चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्तं स्थित्वा दृष्ट्वा च विलासवतीमागत्य स्वभवनमनेकरत्नप्रभाशबलमुरगराजफणामण्डलमिव हृषीकेशः शयनतलमधिशिश्ये ।।
प्रभातायां च निशीथिन्यां समुत्थाय समभ्यनुज्ञातः पित्राभिनवमृगयाकौतुकाकृष्यमाणहृदयो भगवत्यनुदित एव सहस्त्ररश्मावारुह्येन्द्रायुधमग्रतो बोलेयप्रमाणानाकर्षयद्भिश्चामीकरश्रृङ्खलाभिः कौलेयकाञ्जरह्याघ्रचर्मशबलवसनकञ्चुकधारिभिरनेकवर्णपट्टचीरिकोद्वंद्धमौलिभिरुपचितश्मश्रुगहनमुखैरेककर्णावसक्तहेमतालीपुटैराबद्धनिबिडकखैरनवरतश्रमोपचितोरुपिण्डिकैः कोदण्डपाणिभिः श्वपोषकैरनवरतकृतकोलाहलैः प्रधावद्भिर्द्विगुणीक्रियमाणमनोत्साहो -
***********
नीति । मानिनीनां शोकविधुरेषु शुक्पीडितेषु हृदयेषु मनस्सु मानादेव प्रज्वलत्सु दह्यमानेषु सत्सु । अतएवाह - सूर्येति । सूर्यकान्ता ये मणयस्तेभ्य इव संक्रान्तः प्रतिबिम्बितोऽनलो वह्निर्येषु । उपसंहरन्नाह-एवंविधे प्रदोषसमये यामिनीमुखसमये प्रवृत्ते सति प्रसृते सति चन्द्रापीडः । प्रज्वलितेति । प्रज्वलितमुद्दीपितं यद्दीपिकाचक्रवालं तदेव परिवारः परिच्छदो यस्यैवंभूतः । चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्तं स्थित्वा दृष्ट्वा च विलासवतीमागत्य स्वभवनं शयनतलं शयनीयतलमधिशिश्ये शयनं चक्रे । शयनतलमित्यत्र 'अधिशीस्थासाम्-' इत्यधिकरणे द्वितीया । शयनतलं विशेषयन्नाह - अनेकेति । अनेकेषां रत्नानां मणीनां या प्रभा तया शबल कर्बुरम् । कृष्णत्वसाम्यादुपमानान्तरमाह - उरगेति । उरगराजः शेषनागस्तस्य यत्फणामण्डलं तत्र हृषीकेश इव ।
प्रभातायामिति । प्रभातायां विभातायां निशीथिन्यां रजन्यां च समुत्थायोत्थानं कृत्वा पित्रा जनकेन समभ्यनुज्ञातः प्रदत्तानुज्ञोऽभिनवा प्रत्यग्रा या मृगयाखेटकं तस्य यत्कौतुकमाश्चर्यं तेनाकृष्यमाणं हृदयं यस्य सः । भगवत्यनुदित उदयमप्राप्त एव सहस्त्ररश्मी सूर्य इन्द्रायुधमश्वमारुह्य बहुगजतुरगपदातिपरिवृतो वनं ययावित्यन्वयः । कीदृशो राजकुमारः । द्विगुणेति । द्विगुणीक्रियमाणो मनोत्साहो यस्य सः । कैः । श्वपोषकैः कौलेयकरक्षकैः । तानेव विशिनष्टि - अग्रत इति । अग्रतः पुरतो बालेयो रासभस्त प्रमाणाश्चामीकरश्रृङ्खलाभिः सुवर्णश्रृङ्खलाभि कौलेयकाशुन आकर्षयद्भिराकर्षणं कुर्वद्भिः । जरदिति । जरञ्जरीयान्यो व्याघ्रो द्वीपी तस्य चर्म त्वक्तद्वत्तदिव शबलं कर्बुर यद्वसनं वस्त्रं तस्य यः कञ्चुकोऽङ्गिका तद्धारिभिः । अनेकेति । अनेकवर्णा या पट्टचीरिका तयोद्धाः संयता मौलयः केशा यैः । उपेति । उपचितानि वर्धितानि यानि श्मश्रूण्यास्यलोमानि तैर्गहनानि संकीर्णानि मुखानि येषां तैः । एकेति । एकस्मिन्कर्णेऽवसक्तं क्षिप्तं हेमतालीपुटं यैः । आबद्धेति । आबद्धा नद्धा निबिडं दृढं कक्षा मध्यप्रदेशो यैः । अनवरतेति । अनवरतं यः श्रमस्तेनोपचिते पुष्टे ऊरुपिण्डिके जवापिचिण्डिके येषां तैः । पिण्डिका च गुल्फोपरि जानोरधःप्रदेशः । कोदण्डो धनुः पाणी येषा तैः । अनवरतेति । अनवतं निरन्तरं कृतः कोलाहलो यैः ।।
- टिप्प० - 1 अत्र केषाञ्चनमते न खलु कृष्णवर्णे शयनीये सुष्याप चन्द्रापीडः, न च तस्य शोभैव । शेषोपि च श्वेत एव । अत एव तन्मते श्वेतत्वसाम्यादित्युचितम् । 2 द्विगुणीक्रियमाणो गमनोत्साहो यस्येत्यपि पाठः । मनोत्साह इति पाठस्वीकारस्तु न टीकाकृता संभाव्यतेऽव्युत्पत्तिमत्त्वात्, किन्तु लिपिकारेण कृतोऽयं दोषः, अतो 'मनसामुत्साह' इत्यर्थसंगता पाठघटना । 3 आकर्षद्भिरित्यपि पाठः, णिचोऽनावश्यकत्वात् । 4 अनेकवर्णाः याः पट्ट (क्षौम)वस्त्रस्य चीरिकाः क्षुद्रखण्डास्तैः उत् उपरि बद्धाः जटीभूताः केशा यैरिति व्याख्योचिता । 5 स्वर्णघटितोऽलंकारविशेषः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ चलत्सु. २ मुहूर्तकम्. ३ अभ्यनुज्ञातः. ४ अवकृष्यमाण. ५ बालेयद्वीपिप्रमाणान्. ६ आकर्षद्भिः. ७ शबलकञ्चुक. ८ अवबद्ध; ऊर्ध्वबळ. ९ पिण्डकैः. १० दण्डपाणिभिः. ११ उत्साहः, गमनोत्साहः.
214
कादम्बरी।
कथायाम्