________________
रशाखावलम्बिपञ्जरेषु विगतालापेषु शुकसारिकानिवहेषु, संगीतविरामविश्रान्तरवासूत्सार्यमाणासु वीणासु, युवतिनपुरशब्दोपशमनिभृतेषु भवनकलहंसेषु, अपनीयमानकर्णशङ्खचामरनक्षत्रमालामण्डनेषु मधुकरकुलशून्यकपोलभित्तिषु मत्तवारणेषु, प्रदीप्यमानेषु राजवल्लभतुरङ्गममन्दुराप्रदीपेषु, प्रविशन्तीषु प्रथमयामकुञ्जरघटासु, कृतस्वस्त्ययनेषु निष्कामत्सुपुरोहितेषु, विसर्जितराजलोकविरलपरिजनेषु विस्तारितेष्विव राजकुलकक्षान्तरेषु, प्रज्वलितदीपिकासहस्त्रप्रतिबिम्बचुम्बितेषु कृतविकचचम्पकदलोपहारेष्विव मणिभूमिकुट्टिमेषु, निपतितदीपालोकासु रविविरहार्तनलिनीविनोदनागतबालातपास्विव भवनदीर्घिकासु, निद्रालसेषु पञ्जरकेसरिषु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकरकेतो, अवतंसपल्लवेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, सूर्यकान्तमणिभ्य इव संक्रान्ता -
*********** तेषु । शुकः कीरः, सारिका पीतपादा, तयोर्निवहेषु सत्सु । संगीतेति । संगीतस्य यो विरामोऽवसानं तेन विश्रान्तः स्थितो रवः शब्दो यासां तासूत्सार्यमाणासु दूरीक्रियमाणासु वीणासु वल्लकीषु सतीषु । युवतीति । युवतीनां यानि नपुराणि पादकटकानि तेषां यः शब्दस्तस्योपशमो निवृत्तिस्तेन निभृतेषु निश्चलेषु भवनकलहंसेषु गृहराजहंसेषु सत्सु । नूपुरशब्दोपशमस्य सजातीयरवशङ्काकारित्वाभावेन तेऽपि सुखेन सुप्ता इति भावः । अपनीति । अपनीयमानानि दूरीक्रियमाणानि दृष्टिदोषशमार्थं कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला नक्षत्रसंख्यमौक्तिकरचिताभरणविशेषः, एवंविधानि मण्डनानि भूषणानि येषु । मधुकरेति । मधुकरा भ्रमरास्तेषां कुलं समूहस्तेन शून्या रिक्ता कपोलभित्तिर्येषां तेषु एवंविधेषु मत्तवारणेषु मत्तगजेषु सत्सु । प्रदीति । प्रदीप्यमानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरङ्गमा अश्वास्तेषां मन्दुरा शाला तस्यां प्रदीपेषु स्नेहप्रियेषु । प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीषु प्रथमयामसक्ता याः कुञ्जरघटास्तासु । कृतेति । कृतं विहितं स्वस्त्ययनं विघ्नोपशमनविधियैरेवंभूतेषु पुरोहितेषु पुरोधस्सु निष्कामत्सु बहिर्गच्छत्सु । पुनः केषु सत्सु । मणिभूमिकुट्टिमेषु स्फटिकमणिना बद्धानि यानि भूमौ कुट्टिमानि तेषु सत्सु । तानि विशेषयन्नाह - विसर्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येषु । अतएव विस्तारितेष्विव विस्तारं प्राप्तेष्विव । स्तोकजनापेक्षया स्थानं महदृश्यते रजन्यामिति भावः । राजेति । राजकुलस्य यानि कक्षान्तराणि प्रकोष्ठान्तराणि तेषु । प्रचलितं यद्दीपिकासहस्त्रं तस्य प्रतिबिम्बानि प्रतिच्छायास्तैश्चुम्बितेषु सहितेषु । दीपकप्रतिविम्बानां पीतत्वादुपमानान्तरं दर्शयन्नाह - कृतेति । कृतो विहितो विकचचम्पकदलैरुपहारः पूजा येष्वेवंविधेष्विव । चम्पकदलाना पीतत्वादेव तदुपमानमिति भावः । निपतितेति । निपतितः पतितो दीपालोको गृहमणिप्रकाशो यासु । रवीति । रविविरहेण सूर्यविरहेणार्ता या नैलिन्यस्तासां विनोदन क्रीडनं तदर्थमागतो बालातपो यास्वेवविधास्विव भवनदीर्घिकासु गृहवापीषु सतीषु । पज्जरस्थकेसरिषु सिंहेषु निद्रया प्रमीलयालसेषु मन्थरेषु सत्सु । समारोपितेति । समारोपितमधिज्य कृतं कार्मुकं येन स तस्मिन् । गृहीताः सायका बाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तःपुरप्रविष्टे मकरकेतौ कंदर्प सति । सुरतेति । सुरते मैथुने यानि दुतीवचनानि तेषु कर्णे श्रोत्रे क्रियमाणेषु श्रूयमाणेषु सत्सु सरागेषु । अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंसपल्लवेष्विव । मानि -
-
-
-
-
टिप्प० - 1 हंसरवानुकारी नूपुरशब्दः । ततश्च नूपुरशब्दे जाते हंसाः सजातीयस्य विरावभ्रमेण शब्दायन्ते, किन्तु नूपुरशब्दोपरामेण रात्री तेपि निभृताः स्थिता इति ग्रन्थकर्तुराशयः । 2 दीपालोकः दीपकानां प्रकाशः । 3 पु-स्त्रीलिङ्गाभ्यां रवि-नलिन्योंर्नायकनायिकाव्यवहारसूचनात् समासोक्तिः ।
पाठा० - १ अवलम्बित. २ संगीतक. ३ मण्डलपिण्डेषु; मण्डलेषु. ४ तुरङ्ग. ५ कृतराज. ६ विकच. ७ सूर्यमणिभ्यः,
(सन्ध्यावर्णनम्
पूर्वभागः ।