SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ मुल्लसितायोमम्बरतटोकविकचकमलिन्यां संध्यायाम, कृष्णागुरुपङ्कपत्रलतास्विव तिमिरलेखासु स्फुरन्तीषु दिशामुखेषु, अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरेणोत्सार्यमाणे संध्यारागे, कमलिनीनिपीतमातपमुन्मूलयितुमन्धकारपल्लवेष्विव प्रविशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैःशनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे, दिक्षु विक्षिप्तेषु संध्यादेवतार्चनबलिपिण्डेषु, शिखरदेशलग्नतिमिरास्वनारूढमयूरास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु, गवाक्षविवरनिलीनेषु प्रासादलक्ष्मीकर्णोत्पलेषु पारावतेषु, विगतविलासिनीसंवाहननिश्चलकाञ्चनपीठासु मूकीभूतघण्टोस्वरास्वन्तःपुरदोलासु, भवनसहका - *********** अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह - अम्बरेति । अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात्, तदेव तटाकः सरस्तस्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्यातिशयो व्यङ्ग्यः । पुनः केषु सत्सु । दिशामुखेषु दिग्वदनेषु तिमिरलेखासु भूछायराजिषु स्फुरन्तीषु देदीप्यमानासु । कृष्णत्वसाम्यादाह - कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पकः कर्दमस्तस्य पत्रलतास्विव पत्रभङ्गेष्विव । दिशां मुखं तन्मुखमेव । अतएव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्धकारेण संध्याराग उत्सार्यमाणे दूरीक्रियमाणे सति । केनेव । अलिकुलं भ्रमरसमूहस्तेन मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्मसमूहे । तथा च रागतिमिरयोः कुमुदकमलयोर्विरुद्धातिशयवत्त्वेनैतदुपमानम् । कमलिनीति । कमलिन्या पद्मिन्या निपीतमास्वादितमातप सूर्यालोकमुन्मूलयितु मूलतोऽपि दूरीकर्ता रक्तकमलोदराणि मधुकरकुलेषु शनैः शनैः प्रविशत्सु प्रवेश कर्वत्स । कष्णत्वसाम्यादाह - अन्धेति । अन्धकारपल्लवेष्विव तमोभागेष्विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशैव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं तस्यावतसपल्लवे शेखरकिसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संध्यादेवतार्चनार्थं बलिपि डेषु विक्षिप्तेषु विकीर्णेषु सत्सु । अर्घजलाञ्जलिभिरित्यपि । बोध्यम् । तमसो नीलत्वात्तदेव मयूरसाम्यमित्याशयेनाह - मयूरेति । शिखरदेशे प्रान्तप्रदेशे लग्न तिमिर तमो यास्वेवविधास्वनारूढमयूरास्वप्यनाश्रितनीलकण्ठास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु सतीषु । पारावताना रात्रौ विवरे निवासः प्रसिद्ध इति तदाह - गवाक्षेति । गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु । कृष्णत्वसाम्यादाह - प्रासादेति । प्रासादस्य राजसदनस्य या लक्ष्मीस्तस्याः कर्णोत्पलेषु पारावतेषु कपोतेषु सत्सु । पुनः कासु । अन्तःपुरदोलास्ववरोधप्रेङ्खासु सतीषु । ता विशेषयन्नाह - विगतेति । विगतं दूरीभूतं विलासिनीनां संवाहनमुद्वहनं तेन निश्चलानि स्थिराणि काञ्चनपीठानि सुवर्णफलकानि यासु । मूकीति । मूकीभूता दोलासंबन्धिघण्टास्ताभिरस्वरासु शब्दरहितासु । आन्दोलनाभावादिति भावः । तदभावस्तु कस्यचिदारोहणाभावात् । भवनेति । भवनस्य गृहस्य यः सहकारभूतस्तस्य शाखावलम्बीनि पञ्जराणि येषां तेषु विगतालापेषु संलापवर्जि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अन्धकारपरम्परास्वित्यर्थः । 2 दिशां यः प्राग्भागः स एव मुखं (वदनम्), अत एव तिमिरलेखास्तत्र कृष्णागुरुपत्रभङ्गायिता इति टीकाकर्तुस्तात्पर्यम् । 3 भ्रमरसमूहाच्छादिततया मलिनेन कुवलय (नीलोत्पल) वनेन रक्तपद्मसरोवरे इव तिमिरेण सन्ध्यारागै उत्सार्यमाणे (सति) इत्यन्चयो वोध्यः । 4 अत्र 'अन्धकारकरपल्लवेष्विव इत्यपि पाठः प्रचलितः । अन्तःप्रविष्टपदार्थस्य निःसारणाय हस्तः प्रवेश्यते, अत एव मधुकरेषु अन्धकारकरपल्लवत्वोप्रेक्षेत्यर्थः पाठान्तरस्याऽस्य । पाटा० - १ अम्बरतल. २ तडाग. ३ दिशां मुखेषु. ४ अलिकुलेन मलिनेषु. ५ तिमिरनिकरण. ६. अन्धकारकरपल्लवेषु. ७ विशत्सु. ८ दिक्षु दिक्षु. ९ अर्चना. १० कर्णोत्पलेष्विव. ११ निश्चलासु. १२ पीटिकासु. १३ घण्टारवासुः घण्टासु. 212 कादम्बरी। कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy