________________
तेन राजपुत्रलोकेनाभिषेकादिमशनावसानमकरोद्दिवसविधिम् । अभ्यन्तरे च शयनीयगृह एवेन्द्रायुधस्यावस्थानमकल्पयत् ।
एवंप्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ । गगनतलादवतरन्त्या दिवसश्रियः पद्मरागनूपुरमिव स्वप्रभापिहितरन्ध्र रविमण्डलमुन्मुक्तपादं पपात । जलप्रवाह इव रथचक्रमार्गानुसारेण दिवसकरस्य वासरालोकः प्रतीचीं ककुभमगात् । अभिनवपल्लवलोहिततलेन करेणेवाधोमुखप्रसृतेन रविबिम्बेन वासरः कमलरागमशेषं ममार्ज । कमलिनीपरिमलपरिचयागतालिमालाकुलितकण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृष्यमाणं विजघटे । करपुटैरादिवसान्तमापीतमरविन्दमधुरसमिव रक्तातपच्छलेन गगनगमनखेदादिव दिवसकरबिम्बं ववाम । क्रमेण च प्रतीचीकर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, स -
***********
पुत्रलोकेन सह सार्धमभिषेकः स्नानमादिर्यस्य तम् । अशनं भोजनमवसानेऽन्ते यस्यैवंभूतं दिवसविधि दिवसकर्माकरोदकार्षीत् । अभ्यन्तरे मध्ये यच्छयनीयगृहं सुषुप्तिगृह तस्मिन्नेवेन्द्रायुधस्य स्वकीयावस्यावस्थानमकल्पयदन्वतिष्ठत् ।
एवमिति । अस्य राज्ञ एवंप्रायेणोदन्तेन वृत्तान्तेन तदहस्तद्दिनम् । परिणतिस्त्रयोदशमुहूर्तपर्यन्तदिवसावस्था परिणतिस्तामुपययावगमत् । रविमण्डलं सूर्यबिम्बमुदूर्ध्वं मुक्ताः पादाः किरणा येनैवंभूतं पपात सस्तम् । अन्योऽप्युपरिप्रदेशाद्यः पतति स ऊर्ध्वपाद एव स्यात् । स्वभाववर्णवर्तुलत्वसाम्यादुपमानान्तरं दर्शयन्नाह - गगनेति । गगनतलादाकाशतलादवतरन्त्या आगच्छन्त्या दिवसश्रियो दिनलक्ष्म्याः पद्मरागनूपुरमिव लोहितकपादकटकमिव । नूपुरं प्रायेण सच्छिद्रम् । छिद्रोपलब्धय आह - स्वेति । स्वस्य या प्रभा कान्तिस्तया पिहितान्याच्छादितानि रन्ध्राणि छिद्राणि यस्य तत् । दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण वासरालोको दिवसप्रकाशः प्रतीची पश्चिमा ककुभं दिशमगाप्रययौ । क इव । जलप्रवाह इव पानीयपूर इव । सोऽपि रथमार्गानुगामी स्यादिति भावः । वासरो दिवसोऽधोमुख प्रसृतेन विस्तृतेन रविबिम्बेन सूर्यबिम्बेनाभिनवाः प्रत्यग्रा ये पल्लवास्तवलोहितं रक्तं तलं यस्यैवंभूतेन करेणेव करतलेनेव कमलरागमशेष समग्रं ममार्ज दूरीचकारेत्यन्वयः । अत्र वर्तुलत्वरक्तत्वसाम्याद्रविबिम्बस्य हस्ततलोपमानम् । कमलानां संकोचत्वादेव रागनिवृत्तिरिति । कमलिनीति । कमलिन्या नलिन्या यः परिमलस्तस्य परिचयात्संबन्धादागता प्राप्तालिमाला भ्रमरश्रेणिस्तयाकुलितो व्याप्तः कण्ठो यस्य । अतएव हेतुनाह - कालेति । कालपाशैः कृष्णबन्धनैराकृष्यमाणमिव चक्रवाकमिथुनं द्वन्द्वचरमिथुनं विजघटे विघटयांचकार । दिवसकरेति । दिवसकरबिम्ब सूर्यबिम्ब गगनगमनखेदादिव व्योमसंचरणप्रयासादिव करपुटैः किरणसंपुटैरा दिवसान्तमा दिनपर्यन्तमापीतो योऽरविन्दमधुरसस्तमिव रक्तातपच्छलेन लोहितप्रकाशमिषेण ववामोद्गिरयांचकार । अस्तावस्थामाह - प्रतीचीति । प्रतीची पश्चिमा तस्याः कर्णपूरं तदेव रक्तोत्पलं तद्रूपे लोकान्तरं क्षेत्रान्तरमुपगते प्राप्ते भगवति माहात्म्यवति गभस्तिमालिनि श्रीसूर्ये सति । अथ च संध्यायां समुल्लसितायामुल्लासं प्राप्तायाम् ।
- - - - - - - - - - - - टिप्प० - 1 संकोचादेवेति तात्पर्यम् । 2 रात्रौ चक्रद्वन्द्वस्य तथा विघटनमभूद् यथा काल (मृत्यु) - पाशैराकृष्टस्य मुभूर्षोः प्रियजनसकाशाद्वियोगो भवतीति शब्दशक्त्या ध्वन्यते । मृत्युवदुःखसूचनेन प्रेमातिशयश्चरम व्यङ्ग्यम् । 3 वियुक्तं बभूवेति व्याख्यानमुचितम् । 4 उज्जगारेत्यर्थं । मार्गगमनखेदातिशयाद् यथा श्रान्तस्य निपीतपदार्थस्य वमनं भवति तथाऽत्र सूर्यस्य वमनमित्याशयः ।
-
-
-
-
-
-
पाटा० - १ अभिषेकादिकम्. २ स्वशयनीय. ३ सलिलप्रवाहः. ४ दिशम्. ५ अगमत्. ६ पल्लवदललोहितकरेण. ७ दिवसकर. ८ करपुटैर्दिवसान्तम्.
चन्द्रापीडस्य शुकनास-तत्पत्नीसाक्षात्कारः