________________
चेदमशेषविद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजा यासां भरतभगीरथप्रतिमो भवानुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुंधरया ययासि भर्ता समासादितः । हरिवक्षस्थलनिवासासद्ग्रहव्यसनितया हता खलु लक्ष्मीः, या विग्रहवती भवन्तं नोपसर्पति । सर्वथा कल्पकोटीर्महावराह इव दंष्ट्रावलयेन वह बाहुना वसुंधराभारं सह पित्रा' इत्यभिधाय च स्वयमाभरणवसनकुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार । विसर्जितश्चोत्थायान्तःपुरं प्रविश्य दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितम्, प्रतिच्छन्दकमिव राजकुलस्य, द्वारावस्थितसितपूर्णकलशम्, आबद्धहरितचन्दनमालम्, उल्लसितसितपताकासहस्त्रम्, अभ्याहतमङ्गलतूर्यरवपरिपूरितदिगन्तरम्, उपरचितविकचकमलकुसुमप्रकरम्, अचिरकृताग्निकार्यम्, उज्ज्वलविविक्तपरिजनम्, उपपादिताशेषगृहप्रवेशमङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुपविश्य सह -
***********
क्व । इयं परिदृश्यमानाऽमानुषी मनुष्येष्वसंभाव्यमानैतादृशी शक्तिः पराक्रमः क्व । इदमशेषविद्याग्रहणसामर्थ्यं च क्व । अहो इत्याश्चर्ये । धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः, ताभ्यां प्रतिमः सदृशो भवास्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्ने । खलु निश्चयेन । वसुंधरया पृथिव्यावदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समासादितः प्राप्तः असि । हरिवक्षस्थले विष्णुभुजान्तरे यो निवासोऽवस्थितिस्तल्लक्षणो योऽसद्गहो हठस्तव्यसनितया तदासक्ततया । खलु निश्चयेन लक्ष्मीः श्रीहता । दैवेनेति शेषः । या श्रीभवन्तं त्वां विग्रहवती शरीरधारिणी नोपसर्पति नाभ्युपैति । अमूर्तरूपेण यद्यप्यनुसरति तथापि न मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटीर्यावद्वाहुना भुजेन वसुंधराभारं पित्रा सह जनकेन सम वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महावराह इव । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा । चकारः समुच्चयार्थः । स्वयमात्मनैव । आभरणेति । आभरणानि भूषणानि, वसनानि वस्त्राणि, कुसुमानि पुष्पाणि, अङ्गरागो विलेपनम्, एतत्प्रभृतिभिर्वस्तुभिरभ्यर्चियित्वा विसर्जयांचकार विसर्जितवान् । विसर्जितो गृहायानुज्ञात उत्थायोत्थानं कृत्वान्तःपुरमवरोधं प्रविश्य मध्ये गत्वा मनोरमाभिधानां मनोरमेति नाम्नी वैशम्पायनमातरं दृष्ट्वा विलोक्य तदनन्तरं बहिर्निर्गत्येन्द्रायुधं समारुह्यारोहणं कृत्वा कुमारो भवनं जगामेत्यन्वयः । अथ भवनं विशेषयन्नाह - पित्रेति । पित्रा जनकेन पुर्वं पूर्वस्मिन्काले कल्पितम् । कारितमित्यर्थः । राजकुलस्य राजसमूहस्य प्रतिच्छन्दकमिव प्रतिबिम्बमिव । द्वारेऽवस्थिताः सिताः श्वेताः पूर्णाः कलशाः कुम्भा यस्मिन् । आबद्धाः सदानिता हरिता नीलाश्चन्दनमाला यस्मिन् । उल्लसितमुच्छ्रित सितपताकानां चेतवैजयन्तीनां सहस्त्रं यस्मिन् । अभ्याहतानि वादितानि यानि मङ्गलतूर्याणि कल्याणहेतुकातोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो निर्मितो विकचानां विकस्वराणां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् । अचिरं कृतमग्निकार्य होमादिकं यस्मिन् । उज्ज्वलो निर्मलो विविक्तो भिन्नभिन्नस्वरूपः परिजनः परिवारो यस्मिन् । उपपादितं विहितमशेषं समग्रं गृहप्रवेशमङ्गलं धात्वालेख्यादि यस्मिन् । अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप आस्थानमण्डपस्तत्रावस्थिते स्थापिते शयने शय्यायां मुहूर्तं नाडिकाद्वयमात्रमुपविश्यावस्थानं कृत्वा तेन राज -
-
-
-
-
- - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'वन्दनमाला' इत्यपि पाठः । टीकाकारस्य शब्दयोजना निश्चे विशेषगौरवशालिनी ।
पाठा० - १ व्यसनिनी. २ दंष्ट्राबलेन. ३ दृष्ट्वा च. ४ हरिचन्दन.
[210 An
210
nanony कादम्बरी)
N
कथायाम्-)