________________
सुधावदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश । प्रविश्य चानेकनरेन्द्रसहस्त्रमध्योपैस्थितमपरमिव ... पितरमुपदर्शितविनयो दूरावनतेन मौलिना शुकनासं ववन्दे ।
शुकनासस्तं सैसंभ्रम समुत्थायानुपूर्येणोत्थितराजलोकः सादरमभिमुखदत्ताविरलपदः प्रहर्षविस्फारितविलोचनागतानन्दजलकणः संमं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपाविशत्, तदनु च वैशम्पायनः । उपविष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजासनमवनितलमभजत । स्थित्वा च तूष्णी क्षणमिव शुकनासः समुद्गतप्रीतिपुलकैरगैरावेद्यमानहर्षप्रकर्षस्तमब्रवीत् - 'तात, अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारुढयौवनमालोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अद्य समृद्धाः सर्वा गुरुजनाशिषः । अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः । न ह्यपुण्यभाजा भवादृशास्त्रिभुवनविस्मयजनकाः पुत्रता प्रतिपद्यन्ते । क्वेदं वयः । क्वेयममानुषी शक्तिः । क्व -
***********
अनेकेति । अनेकेषां नरेन्द्राणां यत्सहस्त्रं तन्मध्य उपस्थितमपरमिवान्यमिव पितरं जनकम् । उपेति । उपदर्शितो विनयो येन स तथा दूराद्दविष्ठादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चके ।
शुकनासस्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गोपगृहनं चक्रे । ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा वैशम्पायनेन स्वसुतेन समं सार्धम् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह - आन्विति । आनुपूर्व्यानुक्रमेणोत्थितो राजलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुख दत्तान्यविरलान्यनवच्छिन्नानि पदानि येन स तथा । प्रहर्षेति । प्रहर्षेण प्रमोदेन विस्फारिते विस्तारिते ये विलोचने तयोरागता आनन्दजलकणा यस्य स तथा । पूर्वमालिङ्गितः पश्चादुन्मुक्तश्च सादरं उपनीतमानीत रत्नासन सिंहासनमपहाय त्यक्त्वावनावेव पृथिव्यामेव राजपुत्रश्चन्द्रापीडः समुपाविशदुपाविशत् । तदनु पश्चाद्वैशम्पायन उपाविशत् । उपविष्टे च राजपुत्रे शुकनासवर्जमेक शुकनासं विहायाखिलं समग्रमन्यदवनिपालचक्र राजसमूहमुज्झितं त्यक्तं निजासनमात्मीयासन येन तत् । अवनितलं पृथ्वीतलमभजदशिश्रियत । क्षणमिति । क्षणमिव क्षणमात्रं तूष्णीं मौनं स्थित्वा च शुकनासः समुद्गतः प्रादुर्भूतः प्रीत्या स्नेहेन पुलको रोमाञ्चो येष्वेवंविधैरभैरावेद्यमानो हर्षप्रकर्ष उत्कर्षप्रमोदो यस्य स तथा तं चन्द्रापीडमब्रवीत् । हे तात हे पुत्र । 'तातस्तु पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अद्यास्मिन्दिने देवस्य तारापीडस्य समाप्तविद्य परिपूर्णीकृता विद्या येनैवंविधमुपारूढयौवन संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराच्चिरकालेन भुवनराज्यफलप्राप्तिस्त्रिभुवनाधिपत्यफलोपलब्धिरुपजाता प्रादुर्भूता । अद्य गुरुजनाना पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संपत्तिभाजो बभूवुः । अद्यानेकजन्मान्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलित फलवज्जज्ञे । अद्य कुलदेवताः कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः । न हि अपुण्यभाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्टपस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । क्वेति महदन्तरे । इयं वयोवस्था -
- - - - -
- - - - - टिप्प० - 1 प्रमोदोत्कर्ष इति वाच्यम् । 2 'समाप्तवियं भवन्तमालोक्य देवस्य तारापीडस्य भुवनराज्यफलप्राप्तिरुपजाता' इत्यन्वयो वाच्यः ।।
-
-
-
-
-
-
पाठा० - १ प्रासादसहस्त्र. २ उपविष्टम्. ३ ससंभ्रम. ४ उत्थाय. ५ अनुपूर्वेण. ६ लोकैः. ७ सहर्ष. ८ लोचन. ९ सह. १० समुपविष्टे. ११ क्षणमपि. १२ हृदयहर्ष. १३ तात चन्द्रापीड. १४ तत्पुण्यभाजाम्. १५ सकलत्रिभुवन. १६ हेतवः.
(शुकनाससाक्षात्कारः।
पूर्वभागः ।
1209)