________________
गिभिर्धर्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेय रक्तपटैः पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानां च सामन्तानां जघनोपविष्टपुरुषोत्सङ्गावस्थितद्विगुणंकुथाभिरतिचिरावस्थाननिर्वेदप्रसुप्ताधोरणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायिताभिः शतसहस्त्रशः करिणीभिराकीर्णं शुकनासगृहद्वारमासाद्य सत्वरप्रधावितै
रदेशावस्थितैः प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गण एव तुरगादवततार । द्वारदेशावस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारितपरिजनैस्तत्प्रतीहारमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिनरेन्द्रवृन्दैः सेवासमुपस्थितैरुत्थायोत्थाय प्रणम्यमानस्तथैव च प्रचण्डप्रतीहारहुंकारभयमूकीभवत्परिजनानि प्रचलितवेत्रलताचकितसामन्तचक्रचरणशतचलितवसुंधराणि कक्षान्तराणि निरीक्षमाणस्तथैव च नवनव
***********
मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूतैरित्यर्थः । धर्मपटैरिवावगुण्ठितैराच्छादितैः शाक्यमुनीनामकंबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गस्तत्र धौरेयधुरंधरैस्तथा रक्तपटै रक्ताम्बरैः पाशुपतैः शैवैर्द्विजैाहाणैश्च दिवानिशमहनिशमासेव्यमानमुपास्यमानम् । अभ्यन्तरप्रविष्टानां मध्यगतानां सामन्तानां स्वदेशपार्थवर्तिराज्ञां च शतसहस्त्रशः करिणीभिर्धेनुकाभिराकीर्ण व्याप्तम् । अथ करिणीविशेषणानि - जघनेति । कट्या अग्रिमो भागो जघनं तत्रोपविष्टाः स्थिता ये सामन्तीयाः पुरुषास्तेषामुत्सङ्गाः क्रोडास्तेष्ववस्थिता द्विगुणाः कुथा वर्णपरिस्तोमा यासु ताभिः । अतीति । अतिचिरं बहुकालं यदवस्थानं तस्मायो निर्वेदः स्वावमानन तेन प्रसप्ता निद्रा प्राप्ता आधोरणा हस्तिपका यास ताभिः । सह पर्याणेन पल्ययनेन वर्तमानास्ताभिर्निश्चलं चेष्टारहितं यदवस्थान तेन प्रचलायिताभिः संजातनिद्राभिरेतादृशं शुकनासगृहद्वारमासाद्य प्राप्य सत्वरं सवेगं प्रधावितैरतित्वराकृतगमनैभरदेशावस्थितैः प्रतीहारपुरुषैरिपालकैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इव बाह्याङ्गण एव राजपुत्रस्तुरगादश्चादवततारोत्तीर्णवान् । द्वारेति.। द्वारदेशे प्रतोल्यामवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलम्ब्यालम्ब्य पुरः प्रधावितैरग्रतः शीघ्रप्रचलितैः । समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् । प्रतीहारमण्डलैरुपदिश्यमान उपदेशविषयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् । चलिताः कम्पिता मुकुटानां कोटयो येषां तैः नरेन्द्रवृन्दै राजसमूहैः सेवार्थं सपर्यार्थं समुपस्थितैरागतैरुत्थायोत्थायेति । उत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्यमानो नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्डा ये प्रतीहारा द्वारपालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भीतिस्तेन मूकीभवन्मौनता समाश्रयपरिजनो येषु तानि । प्रचलितेति । प्रचलिता इतस्ततो विक्षिप्ता या वेत्रलता वेतसयष्टयस्ताभिश्चकितं शङ्कितं यत्सामन्तचक्र तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृहप्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काञ्च्या मध्येभबन्धने' इति विश्वः । निरीक्षमाणो विलोकमानः । नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्ज्वला ये प्रासादास्तैनिरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुकनासभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 सामन्तानां शुकनाससविधे गमनोत्तरं तद्भत्याः करिणीनां कटिदेशे उपविष्टाः सन्ति तेषामके च द्विगुणीकृताः (अपसार्य द्विगुणभागे संकोचिताः 'तहकिए) कुथाः स्थिताः सन्तीत्याशयः । 2 निद्रावेशेन पूर्णिताभिरित्यर्थो बोध्यः 'पूर्णितं प्रचलायितम अमरः ।
पाठा० - १ रक्तपादैः. २ स्थानोपविष्टपुरुषावस्थित. ३ सङ्गस्थित. ४ द्विगुणित. ५ धोरणाभिः सपर्याणाभिः. ६ बाह्याङ्गे. ७ तुरङ्गात्. ८ अवस्थित. ९ तथैव प्रतीकार; तथैव च प्रतीहार. १० तथैव प्रचण्ड. ११ त्रासनचकित. १२ तथैव नव.
208
कादम्बरी।
कथायाम्