________________
त्समस्ताभिरुपेतो विद्याभिरालोकितोऽस्येवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेतमालोकयिष्यामि' इत्येवमभिधाय लज्जास्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवावतंस इव कपोले पर्यचुम्बदेनम् । एवं च तत्रापि नोतिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शनेनानन्दयामास ।
निर्गत्य च राजकुलद्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं द्रष्टुमयासीत् । यामावस्थितविविधंगजघटासंकटम्, अनेकतुरङ्गसहससंबाधम्, अपरिमितजनसमूहसहससंमर्दसंकुलम्, एकदेशोपविष्टैः सहसशो निबद्धचक्रवालैरनेककार्यागतैर्दर्शनोत्सुकैः समन्ततो विविधशास्त्रा, जनोन्मीलितप्रतिभैरवरच्छद्मना विनयानुरा -
***********
एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानुरूपाभिर्योग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय एवं कुमारं पर्यचुम्बच्चुम्बन कृतवती । कीदृशम् । लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्परभागे । कीदृशे । आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह - विकचेति । विकचैर्विकस्वरैः कमलैः कृतो विहितः कर्णपल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्यवरोधानि दर्शनेनानन्दयामास प्रमोदयामास ।
राजकुलद्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थितमिन्द्रायुधमधमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्रष्टुं विलोकयितुमयासीदित्यन्वयः । ‘या प्रापणे लुङिरूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं विवेशेत्यन्वयः । अथ गृहद्वारं विशेषयन्नाह - यामेति । यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूहस्तया संकट संबाधं प्रवेष्टुमशक्यम् । अनेके ये तुरङ्गा स्तुरङ्गमास्तेषां सहस्त्रं तेन सबौधं बाधासहितम् । अपरीति । अपरिमिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजातीयनरगणास्तेषां सहस्त्राणि तेषां समर्दोऽन्योन्याघातस्तेन संकुलम् । एकदेश एकान्त उपविष्टैः स्थितैः सहस्त्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तैः । दर्शनार्थमवलोकनार्थमुत्सुकैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाञ्जनं नेत्रौषधंतेनोन्मीलितानि विकास प्रापितानि प्रतिभानि चक्षूषि येषां तैः । अवरेति । अवरच्छद्मना सेवक -
- - - - - - - - - - - - - - - - - - - - टिप्प० -1 विकस्वरेण कमलेन, इत्येकवचनमत्रोचितं भासते । प्रतिबिम्बस्य (उपमानकोटिस्थस्य, मुखप्रतिबिम्बस्य) एकत्वात् । 2 अवरोधान, पुंस्त्वात् । 3 'राजकुलद्वारावस्थितम्' इत्यपि पाटप्रचारः । 4 संकीर्णम् । 'संकटं ना तु संबाधः कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे इत्यमरः । 5 उन्मीलितानि बुद्धिरूपलोचनानि येषामिति स्पष्टीकरणमर्थस्य । शास्त्रेष्वञ्जनत्वारोपो हि प्रतिभासु लोचनत्वारोपमपेक्षते । 6 'चीवरच्छद्मना' इत्यपि पाठः । तथा च-चीवराणि बौद्ध भिक्षुप्रावरणानि तेषां व्याजेन-विनये धर्मशिक्षायामनुराग एव अनुरागः (रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव बौद्धाचारसिद्धवसनविशेषैरिव (येषु पटेषु धर्मशासनान्युल्लिख्य शिष्येभ्यः प्रदर्श्यन्ते) अवगुण्ठितैः बौद्धशासनमार्गनिपुणैः (बौद्ध भिक्षुभिः) । अयं भावःबौद्धभिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु धर्मपटत्वमुत्प्रेक्ष्यते । अर्थात् चीवराणां तु व्याजो वर्तते, वास्तवे तु धर्मपटैरेव ते आच्छादिता इति कवेर्बाणस्य कल्पना । अनुराग इति श्लिष्टम्, ततश्च श्लेषोत्थापिता सापह्नवोत्प्रेक्षाऽलंकारः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अवलोकसे एवम्. २ नातिचिरं स्थित्वा. ३ नन्दयामास. ४ द्वारावस्थितम्. ५ गन्धगज. ६ समूहसंमर्द. ७ उन्मीलितबुद्धिलोचनैश्चीवर. ८ रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः.
चन्द्रापीडस्य शुकनाससाक्षात्कारः
पूर्वभागः ।
(207)