________________
बिम्बप्रविष्टशशिमण्डलामिव दिवं समुपसृत्य मातरं प्रेणनाम । सा तु तं ससंभ्रममुत्थाप्य सत्यप्याज्ञासंपादनदक्षे पार्थपरिवर्तिनि परिजने स्वयमेव कृतावतरणका प्रेस्नुतपयोधरक्षरत्पयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन निर्गच्छतेव हृदयेनान्तःशुभशतानीव ध्यायन्ती मूर्धन्युपाघ्राय तं सुचिरमाशिश्लेष । अनन्तरं च तथैव कृतयथोचितसमुपचारमाश्लिष्टवैशम्पायना स्वयमुपविश्य विनयादवनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रपीडमुत्सङ्गमारोपितवती । ससंभ्रमपरिजनोपनीतायामासन्यामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनःपुनरालिङ्ग्य ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत्-'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरीदृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमियन्तं कालं लम्भिता । कथमसि सोढवानतिदीर्घामिमां गुरुजनयन्त्रणाम् । अहो, बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो, विगलितशिशुजनक्रीडाकौतुकलाघवमर्भके ते हृदयम् । अहो, गुरुजनस्योपरि भक्तिरसाधारणा सर्वा । यथा पितुःप्रसादा -
***********
राज्या अमावास्योपमानमिति भावः । समुपसृत्य पार्श्वे समागत्य । अन्वयस्तु प्रागेवोक्तः । तु पुनरर्थे । सा विलासवती तं सुतं ससंभ्रम सवेगं पादपतितमुत्थाप्य पार्श्वपरिवर्तिनि निकटस्थायिनि परिजने परिच्छद आज्ञासंपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्साहकर्मविशेषो यया सा । हृदयेन चेतसान्तमध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती । अथ हृदयविशेषणानि - प्रस्नु(प्रस्तु)तेति । प्रस्तुतौ पयःपूर्णो यौ पयोधरौ ताभ्यां क्षरन्तो ये पयोबिन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय निर्गच्छतेव बहिःप्रसर्पतेव स्नेह आभ्यन्तरप्रीतिस्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वा तं सुचिरं चिरकालमाशिश्लेषालिलिङ्ग । अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् । कृतमिति । कृतो यथोचितो यथायोग्यः समुपचारः प्रियवाग्व्यापारो यथा स्यात्तथाश्लिष्ट आलिङ्गितो वैशम्पायनो यया सा स्वयमुपविश्य विनयादवनितले समुपविशन्तमासेदिवासमाकृष्य बलादाकर्षणं कृत्वानिच्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्सङ्गं क्रोडमारोपितवत्यारोपयामास । ससंभ्रमं सवेगं परिजनेन परिच्छदेनोपनीतायामानीतायामासन्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनःपुनरिवारमालिङ्ग्योपगृहनं विधाय ललाटदेशेऽलिकप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुरिवारं करतलेन स्वपाणितलेन परामृशन्ती परामर्शनं कुर्वती विलासवती तमवादीदवोचत् । किमुवाचेत्याह - वत्सेति । हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीयमाकृतिराकारस्त्रिभुवने लालनीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्तमेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा चिरकालमिमा गुरुजनयन्त्रणां पूज्यजननियन्त्रणां कथं सोढवानसि । अहो इत्याश्चर्ये । ते तव बालस्यापि ततः कठोरस्येव महद्धैर्यम् । अहो इति पूर्ववत् । अर्भके बालके त्वयि विगलितं दूरीभूतं शिशुजना बालजनास्तेषां क्रीडाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत । गुरुजनस्योपर्यसाधारणा सर्वा भक्तिः । यथा पितर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्याभिरुपेतः सहित आलोकितोऽसि वीक्षितोऽसि । - -- - - - - -
- - - - - - - - - - - - टिप्प०.1 यानावतरणकालिक धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणम् । 2 'अर्भकस्यापि ते हृदयम्' इत्यपि केषाञ्चन विदुषां मते पाठः । 3 'असाधारणी भक्तिः सर्वथा इत्यपि पाठः । 'सर्वा इति विशेषणस्याऽसमर्पकत्वात् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दिवसमुपसृत्य; दिवसश्रियं समुपसृत्य. २ ननाम. ३ तु ससंभ्रममुत्थाय. ४ कृतावतरणकापस्नुतपयोधर; कृतावतरणकमङ्गला प्रस्नुतपयोधर. ५ प्रस्तुत. ६ निर्गतेव. ७ शतान्यभिध्यायन्ती; शतानीवाभिध्यायन्ती. ८ समुपाविशन्तम्; उपविशन्तम्. ९ ससंभ्रमम्. १० ईदृश. ११ कथमपि. १२ गुरुयन्त्रणाम्. १३ विगत. १४ अर्भकत्वे त्वयि; अर्भकस्यापि ते; अर्भके ते. १५ असाधारणी सर्वथा.
206
कादम्बरी ।
कथायाम