________________
शुद्धान्तर्वशिकः, अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणीभिः संध्याभिरिव सकललोकवन्याभिः प्रलम्बश्रवणपाशाभिर्विदितानेककथावृत्तान्ताभिभूतपूर्वाः पुण्याः कथाः कथयन्तीभिरितिहासान्वाचयन्तीभिः पुस्तकान्दधतीभिर्धर्मोपदेशानिवेदयन्तीभिः जरत्प्रव्रजिताभिर्विनोद्यमानाम, उपरचितस्त्रीवेषभाषेण गृहीतविकटप्रसाधनेन वर्षवरजनेनोपसेव्यमानाम्, अनवरताभिधूयमानवालव्यजनकलापाम्, अङ्गनाजनेन च वसनाभरणकुसुमपटवासताम्बूलतालवृन्ताङ्गरागभृङ्गारधारिणा मण्डलोपविष्टेनोपास्यमानाम्, पयोधरावलम्बिमुक्तागुणाम् अचलमध्यस्त्रवद्गङ्गाप्रवाहामिव मेदिनीम्, आसनदर्पणपतितमुखप्रतिविम्बाम् अर्क -
***********
क्षीरोदकल्लोलैः क्षीरसमुद्रतरगैः परिवृतां श्रियमिव लक्ष्मीमिव । पुनः कीदृशीम् । जरत्प्रव्रजिताभिवृद्धतापसीभिर्विनोद्यमानां विनोदविषयीक्रियमाणाम् । अथ च तापसीना विशेषणानि-अतिप्रशान्तोऽतिशान्त आकारो यासा ताभिः । कषायेण रक्तं यदम्बरं वस्त्रं तद्धारयन्तीत्येवशीलास्ताभिः । सकलाः समग्रा ये लोकास्तैर्वन्याभिर्वन्दनीयाभिः । रक्ताम्बरसाम्यादाह - संध्याभिरिव । प्रलम्बा लम्बायमानाः श्रवणपाशाः कर्णपाल्यो यासां ताभिः । विदिता ज्ञाता अनेकाः कथाः प्रबन्धास्तासां वृत्तान्तो वार्ता याभिस्तास्ताभिः । पूर्वं भूता भूतपूर्वा एवंविधाः पुण्याः पवित्राः कथाः संबन्धान्कथयन्तीभिः प्रतिपादयन्तीभिः । इतिहासान्पूर्ववृत्तान्तान्वाचयन्तीभिः पठन्तीभिः । पुस्तकाञ्छास्वान्दधतीभिर्धारयन्तीभिः । धर्मोपदेशानिवेदयन्तीभिर्जापयन्तीभिः । पुनस्तामेव विशेषयन्नाह - उपरचितेति । उपरचितो विहितः स्त्रीणां वेषो नेपथ्यं भाषा च येन स तथा तेन । गृहीतमात्तं विकटं विपुलं प्रसाधनं प्रतिकर्म येनैवंविधेन वर्षवरजनेन षण्ढजनेनोपसेव्यमाना पर्युपास्यमानाम् । कामन्दक्यां तेषां लक्षणं यथा-'ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः' इति । अनवरतं निरन्तरमभिधूयमानो वीज्यमानो वालव्यजनकलापश्चामरसमूहो यस्याः सा ताम् । अङ्गनाजनेन स्त्रीजनेन चोपास्यमानां सेव्यमानाम् । अङ्गनाजनं विशेषयन्नाह - वसनेति । वसनानि वस्त्राणि; आभरणानि भूषणानि; कुसुमानि पुष्पाणि, पटवासः पिष्टातः, ताम्बूलं नागवल्लीदलानि, तालवृन्तं व्यजनम्, अङ्गरागो विलेपनम्, भृङ्गारः कनकालुका, एतान्धरतीति धारी तेन धारिणा । कीदृशेन । मण्डल्योपविष्टेन स्थितेन । अन्वयस्तु प्रागेवोक्तः । पुनरपि विशेषतस्तामेव विशेषयन्नाह - पयोधरेति । पयोधरयोः कुचयोरवलम्बी मुक्तागुणो हारो यस्यास्ताम् । स्तनानामत्युच्चत्वेन मुक्तानां चात्युज्जवलत्वेनोपमान्तरं प्रदर्शयन्नाह - अचलेति । अचलयोः पर्वतयोर्मध्येऽन्तरे स्त्रवन् वहमानो गङ्गाप्रवाहो यस्यामेवंभूतां मेदिनीमिव वसुंधरामिव । सर्वसहत्वात्तस्याः पृथिव्या उपमानम् । आसनेति । आसन्नः समीपवर्ती यो दर्पण आदर्शस्तत्र पतितो मुखप्रतिबिम्बो यस्यास्ताम् । अत्रार्थ उपमानान्तरं दर्शयत्राह - अर्केति । अर्कबिम्बे सूर्यमण्डले प्रविष्टं शशिमण्डलं यस्यामेवंभूतां दिवमिवाकाशमिव । तस्यामेव शशिबिम्बस्यार्कबिम्बे प्रवेशात् । अत्रादर्शस्य सूर्यबिम्बोपमानम् । मुखस्य शशिमण्डलोपमानम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- - - - - - - टिप्प० - 1 अतिप्रशान्ताकाराभिरित्यादि विशेषणत्रयं प्रव्रजितासु सन्ध्यासु च योज्यते । अतिप्रशान्ताकाराभिः सकललोकवन्याभिरिति तभयत्र समानं स्पष्ट च । सन्ध्यापक्षे-कषायेण रक्तमिव यदम्बरम् (आकाशम्) तद् धारयन्तीभिरित्यर्थो बोध्यः । 2 पुस्तक-शास्त्रयोः क्लीबत्वमेवोचितम् ।
पाठा० - १ शुद्धान्तान्तर्वशिकैः. २ कथालाप. ३ श्रुतपूर्वाः. ४ कथाः. ५ वाचयन्तीभिरितिहासपुस्तकानि ददतीभिः; इतिहासान्वाचयन्तीभिः पुस्तकानि दधतीभिः. ६ निवेदयन्तीभिः पुण्याः कथा जरत्. ७ भारेण. ८ वर्षधर. ९ संसेव्यमानाम्. १० विधूयमानाम्. ११ ताम्बूलवृन्त. १२ अवलम्बित; अन्तरावलम्बित. १३ अचलद्वयप्रवृत्तगङ्गा; अचलद्वयमध्यप्रवृत्तगङ्गा.
सागर सार
चन्द्रापीडस्य मातापित्रोदर्शनम्
पूर्वभागः ।
205