________________
पुलकतया सीव्यन्निवैकीकुर्वन्निव पिबन्निव तं पिता विनयावनतमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृतमुत्तरीयमात्मीयं ताम्बूलकरङ्कवाहिन्या सत्वरमासनीकृतमपनयेति शनैर्वदन्नग्रचरणेन समुत्सार्य चन्द्रापीडः क्षितितल एव निषसाद । अनन्तरं निहिते चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत् । मुहूर्तमिव विस्मृतचामरोत्क्षेपनिश्चलानां वारविलासिनीनां साभिलाषैरनिलचलितकुवलयदामदीर्धे[जिहातरलतारसारैरवलुप्यमान इव दृष्टिपातैः स्थित्वा ‘गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य दर्शनलालसा यथाक्रम सर्वा जननीदर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमुत्थाय निवारितपरिजनो वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवान्तःपुरमाययौ । तत्र धवलकञ्चुकावच्छन्नशरीरैरनेकशतसंख्यैः श्रियमिव क्षीरोदकल्लोलैः समन्तात्परिवृतां -
***********
पुलको रोमाञ्चस्तस्य भावस्तत्ता तया सीव्यन्निव सीवनं कुर्वन्निवैकीकुर्वन्निव तन्मयीकुर्वन्निव पिबन्निवात्यादरेण पानं कुर्वन्निव । पितुर्निकटे विनयातिशय व्यञ्जयन्नाह - विनयेति । विनयाद्वैनयिकगुणेनावनत नभ्रीभूतं पिता तारापीडस्तं चन्द्रापीडमालिलिङ्ग परिषस्वजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितुस्तारापीडस्य चरणयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरीयं सत्वरं शीघ्रमासनीकृतं विष्टरीकृतम् अपनय दूरीकुर्विति शनैःशनैर्वदन्ब्रुवन्नग्रचरणेन तत्समुत्सार्य दूरीकृत्य चन्द्रापीडः क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्विशेष यथा स्यात्तथोपगूढ आलिङ्गितो वैशम्पायनो निहिते स्थापितेऽस्यासने चन्द्रापीडासने न्यषीददुपाविशत् । विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलाना वारविलासिनीनां वाराङ्गनानां दृष्टिपातैर्नेत्रप्रान्तैरवलुप्यमान इवाच्छाद्यमान इव । दृष्टिपातं विशेषयन्नाह - सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः । सहस्य सादेशः । अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम कमलमाला तद्दीधैरायतैराजिह्माकुटिला तरला चञ्चला तारा कनीनिका सैव सारं प्रधानं येषु तैः । मुहूर्तमिव कियत्कालं तत्र राजसमीपे स्थित्वा स्थानं कृत्वा । हे वत्स हे पुत्र, गच्छ व्रज । पुत्रवत्सलां पुत्रहितां मातरं जननी दर्शनलालसा त्वदर्शनोत्कण्ठितामभिवाद्य पादग्रहणं कृत्वा यथाक्रम यथानुक्रम सर्वा जननीरुपमातृर्दर्शनेनानन्दय प्रमोदय । इति हेत्वर्थे । पित्रा तारापीडेन विसर्जितो विसृष्टः सविनयं यथा स्यात्तथोत्थायोत्थानं कृत्वा निवारितस्तत्रैव रक्षितः परिजनः परिच्छदो येनैवंभूतो वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवान्तःपुरमाययौ समागमत् । ।
तत्रेति । तत्र अन्तःपुरे मातरं जननी प्रणनाम नमश्चक्र इति दूरेणान्वयः । अथ मातुर्विशेषणानि-धवलकञ्चुकैरवच्छन्नान्याच्छादितानि शरीराणि येषां तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तर्वशिकैः शुद्धोऽन्तर्वंशश्चान्तःपुरं तत्र नियुक्ता आन्तर्वशिकाः कञ्चुक्यादयस्तैः समन्तात्सर्वतः परिवृतां परिवेष्टिताम् । कैः कामिव । - - - - - - - - - - - - - टिप्प० - 1 वदति कश्चनैवम्-अस्य (चन्द्रापीडस्य) अनन्तरं (पश्चात्) निहिते आसने, इत्यर्थः । ब्राहाणत्वेन वैशम्पायनायासनदान नानुचितम् । 2 'आजिह्यतरलतरतारैः' इत्यपि पाठः प्रचलितः । तरलतराः ताराः येष्वित्यर्थः । सारैरिति पाठेऽपि तालव्यादिः 'शारैः' इति पाठः । आजिह्याः तरलतराश्च यास्ताराः ताभिः शारैचित्रितैः । इति तदर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० . १ पुलककण्टकतया. २ एकीकुर्वत्रिव तम्. ३ आत्मीयम्. ४ करण्ड, ५ समुत्सार्य क्षितितले. ६ अनन्तरनिहिते; अनन्तरविनिहिते. ७ कुवलयदल. ८ जिहिात. ९ तरलतरतार. १० दर्शनलालसाः. ११ परिजनेन. १२ नैकशत.
204
कादम्बरी।
कथायाम्