________________
पूर्वकृतावस्थानेन दूरपर्यस्तमौलिशिथिलितंचूडामणिमरीचिचुम्बितवसुधातलेन राजलोकेन प्रत्येकशः प्रतीहारनिवेद्ये मानेन सादरं प्रणम्यमानः, पदे पदे चाभ्यन्तरविनिर्गताभिराचारकुशलाभिरन्तःपुरवृद्धाभिः क्रियमाणौवतरणमङ्गलः, भुवनान्तराणीव विविधप्राणिसहस्त्रसंकुलानि सप्तकक्षान्तराण्यतिक्रम्याभ्यन्तरावस्थितम्, अनवरतशैस्त्रग्रहणश्यामिकालीढकरतलैः करचरणलोचैनवर्जमसितलोहजालैकावृतशरीरैरालानस्तम्भैरिव गजमदपरिमललो भँनिरन्तरनिलीनमधुकरपटलजटिलैः कुलक्रमागतैरुदात्तान्वयैरनुरक्तैर्महाप्राणतयातिकर्कशतया च दानवैरिवार्शयाकारसंभाव्यमानपराक्रमैः सर्वतः शरीररक्षाधिकारनियुक्तैः पुरुषैः परिवृतम्, उभयतो वारविलासिनीभिश्चानवरतमुद्धूयमानधवलचामरम्, अमलपुलिनतलशोभिनि सुरकुञ्जरमिव मन्दाकिनीवारिणि हसंधवलशयनतले निषण्णं पितरमपश्यत् । आलोकयेति च प्रतीहारवचनानन्तरमतिदूरावनतेन चलितचूडामणिना शिरसा कृतप्रणाममेोहीत्यभिदधानो दूरादेव प्रसारितभुजयुगलः शयनतलादीषच्छसितमूर्तिरानन्दजलपूर्यमाणलोचनः समुद्गत -
**
I
1
समन्तात्प्रचलितेनोत्थितेन कुमारागमनप्रतीक्षया पूर्वं कृतं विहितमवस्थानमवस्थितिर्येन । दूरादेव पर्यस्ता नम्रा ये मौलयः शिरांसि मुकुटानि वा तेभ्यः शिथिलिताः श्लथीभूता ये चूडामणयस्तेषां मरीचिभिश्चुम्बितमाश्लिष्टं वसुधातलं येन । प्रत्येकशः प्रत्येकं प्रतीहारो द्वारपालस्तेन निवेद्यमानेन निवेदनां क्रियमाणेन सादरं यथा स्यात्तथेति क्रियाविशेषणम् । पदे पदे प्रतिपदमभ्यन्तरान्मध्यप्रदेशाद्विनिर्गताभिर्बहिर्निःसृताभिराचारे राजस्थितौ कुशलाभिर्निपुणाभिरन्तः पुरवृद्धाभिर्महत्तरिकाभिः क्रियमाणमवतरणमङ्गलं यस्य सः । अथ राजानं विशेषयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्यगृहेऽवस्थितं कृतावस्थानम् । पुनः कीदृशम् । पुरुषैः परिवृतं आवृतम् । पुरुषान्विशेषयन्नाह - अनवरतेति । अनवरतं निरन्तरं यच्छस्त्रग्रहणं तेन या श्यामिका तयालीढमाश्लिष्टं करतलं हस्ततलं येषां तैः । करचरणलोचनवर्जम् एतान्विहायेत्यर्थः । तेषामप्यावरणे शस्त्रग्रहणगतिप्रेक्षणानामेवाभावः स्यादित्यर्थः । असितं यल्लोहजालकं तेनावृतमाच्छादितं शरीरं येषां तैः । कैरिव । आलानस्तम्भैरिव गजबन्धनस्तम्भैरिव । असितत्वसाम्यादाह - गजेति । गजस्य हस्तिनो यो मदो दानं तस्य यः परिमलस्तस्य लोभेन निरन्तरं निलीना ये मधुकरा भ्रमरास्तेषां पटलानि तैर्जटिलैव्र्व्याप्तैः । कुलक्रमागतैः परम्परायातैः । उदात्तो महानन्वयो वंशो येषां तैः । अनुरक्तैः प्रीतिमद्भिः । महाप्राणतया महापराक्रमतयातिकर्कशतयातिनिष्ठुरतया च दानवैरिव दनुजैरिवाशयश्चित्ताभिप्रायः, आकार आकृतिः, ताभ्यां संभाव्यमानः पराक्रमः साहसं येषु तैरेवंभूतैः सर्वतश्चतुर्दिक्षु शरीररक्षाधिकारनियुक्तैरात्मरक्षकैः पुरुषैः परिवृतं परिवेष्टितम् । उभयतः पार्श्वद्वये वारविलासिनीभिर्वारयोषिद्भिरनवरतमुद्धूयमानं वीज्यमानं धवलचामरं यस्य स तम् । पुनः कीदृशम् । हंसवद्धवलं यच्छयनतलं शय्यातलं तत्र निषण्णं स्थितम् । कमिव । मन्दाकिनी गङ्गा तस्या वारिणि जले सुरकुञ्जरमिवैरावणमिव । शयनं विशिनष्टि - अमलेति । अमलं निर्मलं यत्पुलिनं सैकतं तस्य तलं तद्वच्छोभिनि विराजिनि । अन्वयस्तु प्रागेवोक्तः । आलो विलोकयेति प्रतीहारवचनानन्तरं द्वारपालोक्तेः पश्चादतिदूरादतिदविष्ठदेशादवनतेन नम्रेण चलितः कम्पितश्चूडामणिः शिरोमणिर्यस्यैवंभूतेन शिरसा मस्तकेन कृतः प्रणामो येन तम् । एह्येहि । वीप्सायां द्वित्वम् । आगच्छागच्छेत्यभिदधान इति ब्रुवाणः दूरादेव प्रसारितं विस्तारितं भुजयुगलं बाहुयुग्मं येन सः । शयनतलादीषत्किंचिदुच्छ्वसितोर्ध्वभूता मूर्तिः शरीरं यस्य सः । आनन्दजलेन प्रमोदबाष्पेण पूर्यमाणे भ्रियमाणे लोचने नेत्रे यस्य सः । आनन्दरूपमभिव्यञ्जयन्नाह समुद्गतेति । समुद्गतः प्रादुर्भूतो यः
-
-
पाठा० - १ चलित. २ निवेद्यमाननाम्ना. ३ अवतारण; अवतरणक. ४ शस्त्रग्रह. ५ विलोचन. ६ जालावृत. ७ लोभनिलीन. ८ महाप्रमाणतया. ९ अतिशयाकारम्; आशयाकारम्; अतिशयाकारैः; अतिशयाकार. १० हंसधवले. ११ आदरेणाभिदधानः १२ उल्लसित. १३ आपूर्यमाण.
चन्द्रापीडस्य मातापित्रोर्दर्शनम्
पूर्वभागः ।
203