________________
कृताकृतसुकृतविचारनिपुणम्, सुकृतमिवादिमध्यावसानकल्याणकरम्, वासरारम्भमिव पद्मरागारुणीक्रियमाणनिशान्तम्, दिव्यमुनिगणमिव केलापिसनाथश्वेतकेतुशोभितम्, भारतसमरमिव कृतवर्मबाणचक्रसंभारभीषणम्, पातालमिव महाकञ्चुक्यध्यासितम्, वर्षपर्वतसमूहमिवान्तःस्थितापरिमितश्रृङ्गिहेमकूटम, महाद्वारमपि दुष्प्रवेशम्, अवन्तिविषयगतमपि मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नग्नलोकं राजकुलं विवेश । ससंभ्रमोपगतैश्च कृतप्रणामैः प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च -
***********
प्रशंसनीयमिति विरोधः । तत्परिहारस्त्वगम्यः परैरग्राह्यो विषयो देशस्तदासक्तमित्यर्थात् । अन्तको यमस्तस्य भटगणः सुभटसमूहस्तमिव कृताकृतं यत्सुकृतं शोभनं कृत्यं तस्य यो विचारस्तत्र निपुणं चतुरम् । पक्ष------- । सुकृतं पुण्यं तद्वदिवादिमध्यावसानेषु कल्याणकर शुभकारकमित्यभङ्गश्लेषः । वासरस्य दिवसस्यारम्भस्तमिव पद्मरागै रक्तमणिभिररुणीक्रियमाणं रक्तीक्रियमाणं निशान्तं गृहं यत्र तत् । 'धामागारं निशान्तम्' इति कोशः । पक्षे पद्माना रागैररुणीक्रियमाणो निशान्तो रात्रिप्रान्तो यस्मिन् । दिव्यो मुनिगणो वसिष्ठादिस्तमिव कलापिनो मयूरास्तैः सनाथाः सहिता ये श्वेतकेतवः सितध्वजास्तैः शोभितम् । पक्षे कलापी सनाथः श्वेतकेतुश्च त्रयोऽप्येते देवर्षयस्तैः शोभितं विराजितम् । भारतशास्त्रोक्तसमरमिव कृतो विहितो वर्म कवचम्, बाणाः शराः, चक्राणि प्रसिद्धानि, एतेषां संभारः समूहस्तेन भीषणं भयजनकम् । पक्षे कृतवर्मा हृदीकपुत्रः, बाणाः शिलीमुखाः, तेषां चक्रेषु परदलेषु संभारस्तेन भीषणम् । पाताल वडवामुखं तदिव महाकञ्चुकिनः सौविदल्लास्तैरध्यासितमाश्रितम् । पक्षे महाकञ्चुकिनः सर्पाः । वर्षपर्वताः क्षेत्रसीमाकारिणोऽचलाः सप्तैव । तदुक्तम्'हिमवान् हेमकूटश्च निषधो मेरुरेव च । श्वेतः कृष्णश्च श्रृङ्गी च सप्तैते वर्षपर्वताः । तेषां समूहमिवान्तःस्थितानि मध्यस्थितान्यपरिमितान्यसंख्येयानि श्रृङ्गीहेमानि । 'अलंकाराय यत्स्वर्णं तच्छृङ्गीकनकं विदुः । तेषां कूटानि यस्मिंस्तत्संबन्धस्तैरपरिमितत्वेनं श्रृङ्गं प्राधान्य येषामेवंभूतानि हेमकूटानि सुवर्णसमूहा यस्मिन् । 'श्रृङ्गं प्राधान्यसान्वोच' इत्यनेकार्थः । पक्षेऽपरिमितश्रृङ्गी हेमकूटाचलो यस्मिन् । महाद्वारमपि दुःप्रवेशमित्यतिशयोक्तिः । अवन्तिविषयो मालवदेशस्तत्र गतमपि प्राप्तमपि मागधजनै जरासन्धदेशोद्भवजनैरधिष्ठितमिति विरोधः । तत्परिहारस्तु मागधा युद्धान्निवर्तिनो गायनास्तैरधिष्ठितमित्यर्थात् । स्फीतमपि ऋद्धिमदपि भ्रमन्तो नग्ना लोका यस्मिन्निति विरोधः । तत्परिहारस्तु भ्रमन्तो देशान्तरादागता नग्नलोकाः स्तुतिव्रता नग्नाचार्याश्च यस्मिन्नित्यर्थात् ।
ससंभ्रमं सवेगमुपगतैः प्राप्तैः कृतः प्रणामो येनैवंभूतैः प्रतीहारमण्डलैभरपालसमूहैरुपदिश्यमान उपदय॑मानो मार्गः पन्था यस्य स तथा । बहुभिर्वर्षर्विद्याभ्यासं विधाय गृहागतत्वेन तादृशगृहज्ञानाभावाद्वारपालैर्मार्गः प्रदीत इति भावः । यद्वा पितुराह्वानजनितप्रमोदातिरेकेण विस्मृतान्यव्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति भावः । राजगृहप्रवेशानन्तरं स चन्द्रापीडो भुवनान्तराणीव सप्तकक्षान्तराण्यतिक्रम्य पितरं तारापीडमपश्यदित्यन्वयः । पुनः कीदृशः । राजलोकेन प्रणम्यमानो नमस्क्रियमाणः । अथ राजलोकं विशिनष्टि - सर्वति इति । सर्वतः - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 प्रजाभिः कृतस्य अकृतस्य सुन्दररूपेण कृतस्य च (कार्यस्य) विचारे इति राजकुलपक्षे । कृतयोः अकृत(पाप) सुकृत (पुण्य) योर्विचारे इति यमभटपक्षे । 2 अन्तःस्थितः अपरिमितानां श्रृङ्गिणां (गवादीनाम्) हेम्नां च कूटो (समूहः) यस्मिन्निति राजकूलम् । अन्तःस्थितौ अपरिमितौ (महान्तौ) गि - हेमकुटौ तन्नामको पर्वतौ यस्य इति वर्षपर्वतसमूहः । इत्यर्थः । 3 विरोधालंकारोऽत्र । महाद्वारत्वे दुःप्रवेशत्वं विरुद्धम् । राज्ञः प्रतापात् साधारणैः दुःप्रवेशत्वमिति तत्परिहारः ।
पाठा० - १ परिस्फुरत्पद्म. २ चित्रकलापि. ३ उपशोभितम्. ४ शिलीमुख. ५ कञ्चुकिसहसाध्यासितम्. ६ परिमाण. ७ श्रृङ्गः श्रृङ्गि.
(202)
कादम्बरी।
कथायाम्