________________
नारदीयमिव वर्ण्यमानराजधर्मम्, यन्त्रमिव विविधशब्दरसलब्धास्वादम्, मृदुकाव्यमिवान्यचिन्तितस्वभावाभिप्रायावेदकम्, महानदीप्रवाहमिव सर्वर्दुरितापहरम्, धनमिव न कस्यचित्राकाङ्क्षणीयम्, संध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षस्थलमिव श्रीरत्नप्रभाभासितदिगन्तम्, बलभद्रमिव कादम्बरीरसविशेषवर्णनाकुलमेतिम्, ब्राह्मणमिव पद्मासनोपदेशदर्शितभूमण्डलम्, स्कन्दमिव शिखिक्रीडारम्भचञ्चलम्, कुलाङ्गनाप्रचारमिव सर्वदोपजातशङ्कम्, वेश्याजनमिवोपचारचतुरम्, दुर्जनमिवापगतपरलोकभयम्, अन्त्यजजनमिवागम्यविषयाभिलाषम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तकभटगणमिव -
-
*****:
दण्डादिना मोचनम्, कलाभागा विज्ञानैकदेशाः तेषु निपुणा यस्मिन् । पक्षे अर्केन्द्रोः ग्रहो मोक्षश्च, कला षोडशो भागः, तासां भागा विभागास्तेषु निपुणम् । एतज्ज्ञापकमित्यर्थः । नारदीयं पुराण तद्वदिवासमन्ताद्वर्ण्यमानः स्तूयमानो राजधर्मो यस्मिन्नित्यभङ्गश्लेषः । यन्त्र वीणा तद्वदिव विविधाः शब्दा मनोज्ञशब्दाः, रसाः श्रृङ्गारादयः तेषां लब्ध आस्वादश्चर्वणं येन तत् । पक्षे विविधशब्दरसैर्नानाविधरागरसैर्लब्धास्वादा, जना यस्मात् । मृदु सुकुमारं यत्काव्यं कविकर्म तद्वदिवान्यचिन्तितानि स्वभावाः प्रकृतयः, अध्यवसाया मनोगताभिप्रायाः, तेषामावेदकं कथकम् । पक्षेऽन्येन कविना चिन्तितो विचारितो यः स्वभावाभिप्रायः सहजोऽभिप्रायः । तात्पर्यविषयी भूतोऽर्थ इति यावत् । तस्यावेदकं ज्ञापकम् । महानद्या बृहत्तटिन्याः प्रवाह ओघस्तमिव सर्वं यद्दुरितं दुश्चरितं तस्यापहरम् । पक्षे सर्वं दुरितं पापम् । धनं द्रव्यं तद्वदिव न कस्यचिदपि नाकाङ्क्षणीयं नाभिलषनीयम् । अपि तु सर्वस्यापि स्पृहणीयमित्यर्थः । इत्यभङ्गश्लेषः । संध्यायाः सायंकालस्य समयः क्षणस्तमिव दृश्यमानः प्रेक्ष्यमाणश्चन्द्रापीडस्य सुतस्योदयोऽभ्युन्नतिर्यस्मिन् । पक्षे चन्द्रापीड ईश्वरः । सर्वदा संध्यायां नृत्यविधानादिति भावः । नारायणो विष्णुस्तस्य वक्षस्थलं भुजान्तरं तद्वदिव श्रीः शोभा तया युक्तानि रत्नानि तेषां प्रभाः कान्तयस्ताभिर्भासितं प्रकाशितं दिगन्तं यस्मिन् । पक्षे श्रीलक्ष्मीः, रत्नं कौस्तुभम् । शेषं पूर्ववत् । बलभद्रो रामस्तमिव कादम्बरी वक्ष्यमाणी स्त्री तस्या रसविशेषवर्णन आकुला मतिर्यस्मिन् । पक्षे कादम्बरी कापिशायनम् । ब्राह्मणमिव द्विजमिव पद्मासनोपदेशेन दर्शितं भूमण्डल यस्मिन् । पक्षे पद्मासनो ब्रह्मा तस्योपदेशो वेदस्तेन दर्शितमन्येभ्यः प्रकाशितं भूमण्डलं येन स तम् । स्कन्दः स्वामी तमिव शिखी मयूरस्तस्य यः क्रीडारम्भस्तेन चञ्चलं चटुलमित्यभङ्गश्लेषः । कुलाङ्गनायाः कुलवध्याः प्रचारः संचरणं तमिव सर्वं ददातीति सर्वदःपरमेश्वरस्तस्मादुपजाता शङ्का भयं यस्मिन् । पक्षे सर्वदा सर्वकालम् । वेश्याजनो वाराङ्गनाजनस्तमिवोपचारः सेवा तत्र चतुरमित्यभङ्गश्लेषः । दुर्जनः खलस्तमिवागतं परे लोकाः शत्रवस्तेभ्यो भयं यस्मिन् । पक्षे परलोको भवान्तरम् । अन्त्यजजनो दिवाकीर्तिजनस्तमिवागम्यः परैरग्राह्य एवंविधो विषयो देशस्तमिवोपचारो यस्मिन् । पक्षेऽगम्यानां विषयाभिलाषो यस्मिन्निति बहुव्रीहिः । अगम्यविषया - सक्तमपि
राजभवनम्
***
टिप्प० - 1 अन्यैः (वक्तुर्भिन्त्रैः) चिन्तितः श्रवणमात्रेणाऽवगतः स्वभावः (स्वोऽर्थः ) अभिप्रायः कवेराशयश्च तयोरावेदकम् । प्रसादगुणविशिष्टं काव्यमन्ये श्रवणमात्रेण आशयतोऽवबुध्यन्त इत्यर्थः । 2 कादम्बर्या सांप्रतं परिचयाभावान्नोचितोयमर्थः केषाञ्चिन्मते । उभयत्रापि मद्यमेवार्थः । राजकुलपक्षे 'आकुलमति' इति लिङ्गव्यत्ययः कार्यः । 3 पद्मायाः आसनाय (स्थितये) य उपदेशो ( गुरुभिर्दत्तः ) तेन दर्शितं भूमण्डलं ( भूमण्डलव्यवहारः ) यस्मिन् । 4 सर्वदा उपजाता शङ्का यस्मात्, साधारणजना राजभवनाद् बिभ्यति । 5 परैः अगम्यः अज्ञेयः विषयाणां देशानामभिलाषो यस्मिन्, कदा कीदृशो देशः आक्रम्य ग्रहीष्यते इति गुप्तमन्त्रत्वाद् न ज्ञायते इत्यर्थो योग्यः ।
पाठा० - १ अनन्य. २ वेदकम. ३. दुरिततापहरम्. ४ काङ्क्षणीयम्; काङ्क्षणीयं फलम्. ५ मति. ६ ब्रह्माणम्. ७ अन्यजन.
पूर्वभागः ।
201