________________
नक्षत्रमालालकृतम्, प्रभातसमयमिव पूर्वदिग्भागरागानुमेयमित्रोदयम्, गन्धिकभवनमिव स्नानधूपविलेपवर्णकोज्ज्वलम्, ताम्बूलिकभवनमिव कृतलवलीलविङ्गैलाकङ्कोलपत्रसंचयम्, प्रथमवेश्यासमागममिवाविदितहृदयाभिप्रायचेष्टाविकारम्, कामुकजनमिव बहुचाटुसलापसुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशतसहसालंकरणकृतलेख्यपत्रसंचयम्, धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमिव चोपदद्विजोपघुष्टम्, रामायणमिव कैपिकथासमाकुलम्, माद्रीकुलमिव नकुलालकृतम्, संगीतभवनमिवानेकस्थानावस्थापितमृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्, ज्यौतिषमिव ग्रहमोक्षकलाभागनिपुणम्, -
***********
पक्ष आसवपात्राणि मद्यपात्राणि । 'मध्वासवो माधवको मैरेये सीधुरासवः' इति कोशः । निशा रात्रिस्तस्याः समयः कालस्तमिव सप्तविंशतिभिर्मुक्ताफलैः रचिता नक्षत्रमालास्ताभिरनेकाभिरलंकृतं विभूषितम् । पक्षेऽनेका नक्षत्रमाला ग्रहश्रेणियस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीत्या भागेनैकदेशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उदयोऽभ्युन्नतिर्यस्मिन् । स्तोकसबन्धेन समागतानामपि सुहृदामतिगौरवम् । का कथा बहुसंबन्धेनागतानामिति भावः । पक्षे पूर्वदिग्भागे प्राच्येकदेशे यो रागस्ते नानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक औषधादिविक्रयकृत्तस्य भवनं गृहं तद्वदिव स्नानानन्तरं केशानां धूपः, विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्जवलं निर्मलमित्यभङ्गश्लेषः । ताम्बूलिकानां नागवल्लीदलविक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवल्लीविशेषः, लविङ्ग देवकुसुमम्, एला चन्द्रवाला, कङ्कोलः कोशफलम्, पत्रं जातिफलपत्रम्, एतेषां संचयः संनिधिर्यस्मिनित्यभङ्गश्लेषः । प्रथम आयो यो वेश्यया वारयोषिता समागमस्तमिव । अतिगाम्भीर्यादविदितोऽज्ञातो हृदयाभिप्रायश्चित्ताशयो यस्यैवंविधस्य । अर्थाद्राज्ञः । चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतिर्यस्मिनित्यभङ्गश्लेषः । कामुकः कामयिता यो जनस्तमिव बहूनि चाटूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परस्परालापाः सुभाषितानां सूक्तानां रसास्वादास्तेषु दत्तास्तालशब्दा अभीष्टावबोधनेन परस्परकरतालाहतयो यस्मिन् । पक्षे यैरिति तृतीयाबहुव्रीहिः । धूर्ता द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशतसहसालकरणमलंकृतिस्तत्र कृतो लेख्यपत्रसंचयो यस्मिन् । अवरोधजनस्य मध्ये यदलंकारादिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीक्रियत इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति । धूर्तेरपि सर्वं पत्रलेख्यपूर्वकं गृह्यत इति तदुपमानम् । धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनकमित्यभङ्गश्लेषः । महच्च तद्वनं च महावन तदिव वापदा वने व्याघ्रादयो गृहे मृगयार्थं संरक्षिताश्च द्विजाः पक्षिणो ब्राह्मणाश्च तैरुपघुष्टं शब्दितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षिताना कपीना वानराणां कथा वार्तास्ताभिः समाकुलम् । पक्षे कपिकथा हनूमत्कथा । माद्रीकुलं माद्री पाण्डुपत्नी तस्याः कुलं तद्वदिव नकुलः सर्पहा तेनालंकृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः । संगीतस्य प्रेक्षणार्थं प्रयुक्तस्य गीतनृत्यवायत्रयस्य भवनमिवानेकस्थानेष्ववस्थापितं न्यस्तं मृदां मृत्तिकानामङ्गं यस्मिन् । पक्षे मृदङ्गानि मुरजानि । रघुकुलं दशरथकुलं तद्वदिव । भरतः शैलूषस्तस्य गुणेन कलाकौशलेनानन्दितम् । पक्षे भरतस्य दाशरथेगुणो व्रतपालनलक्षणः । ज्योतिषमिव ज्योतिःशास्त्रमिव ग्रह उद्धतनृपाणा ग्रहणं, मोक्षस्तेषामेव -
- - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 गन्धद्रव्याणि विक्रीणीते स गान्धिकः (गन्धी 'सुगन्धी' इति ख्यातः) । 2 पर्णम् (नागवल्लीदलम्) इर्थः । 3 दीपमान्य (दातव्याय) मणिशतसहसाय अलंकरणाय च कृतः लेख्यपत्रसंचयः 'एतावत्काले दास्यामि' इति ऋणलेख्यपत्रसमूहो यस्मिनित्यर्थः ।
पाठा० - १ गान्धिक. २ लेपन. ३ लवङ्गलाकोलि; लवङ्गैलाकक्कोल. ४ प्रधान. ५ विविधश्चापद. ६ कविकथा. ७ कुल.
M
(200
MMMM
कादम्बरी ।
कथायाम