________________
संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव भयान्तःप्रविष्टसपक्षभूभृत्सहससंकुलम्, उषानिरुद्धसमागममिव चित्रलेखादर्शितविचित्रसकलत्रिभुवनाकारम, बलियज्ञमिव पुराणपुरुषवामनाधिष्ठिताभ्यन्तरम्, शुक्लपक्षप्रदोषमिव विततशशिकिरणकलापधवेलाम्बरवितानम्, नरैवाहनदन्तकथेवान्तःसंवर्धितप्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थमिव सद्योऽनेकपुरुषप्राप्ताभिषेकफलम्, प्राग्वंशमिव नानासवपात्रसंकुलम्, निशासमयमिवानेक -
***********
भावः । पक्षे शूरी नाम विष्णोः पितामहः, भीमो नाम कश्चित्, पुरुषोत्तमो विष्णुः, बलो बलदेवः एभिः परिपालितं लालितम् । जरासिन्धोरिति शेषः । व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आयः, अयं मध्यमऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेक आदेशकारकाः आज्ञाकारकास्तराख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदानक्रिया तस्या यो व्ययस्तस्य प्रपञ्चो विस्तारस्तत्र सुस्थितम् । सुखेनावस्थितमित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशास्तिसृचतसृप्रभृतयः, कारकाणि कादीन्याख्यातानि नव दश वा, संप्रदान चतुर्थीकारकम्, क्रिया भ्वादिः, अव्ययान्युच्चैरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो यस्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तःप्रविष्टं मध्ये समागतं यत्सपक्षाणां परिच्छेदोपेतानां भूभृतां राज्ञां सहसं तेन संकुलम् । पक्षे सपक्षाः पक्षयुक्ता भूभृतः पर्वताः । शेष पूर्ववत् । उषेति । उषा बाणासुरपुत्री, अनिरुद्धः प्रद्युम्नतनयः, तयोः समागमः संबन्धस्तदिव । तस्याः सखीभूता चित्रलेखा तयानिरुद्धोत्कण्ठितामुषां प्रत्यनिरुद्धज्ञानाय चित्रे त्रिभुवनमालिख्य दर्शितमिति पौराणिकी कथा । तामधिकृत्याह - चित्रेति । चित्रलेखाभिरालेख्यपङ्क्तिभिर्दर्शितः प्रकाशितो विचित्रो नानाविधः सकलः समग्रस्त्रिभुवनस्य त्रिविष्टपस्याकार आकृतिर्येन तत् । पक्षे चित्रलेखा सखी । शेषं पूर्ववत् । बलिनुपस्तेन कृतो यज्ञो यागस्तमिव पुराणपुरुषैर्वृद्धपुरुषैर्वामनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्यभागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनावतारः शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । विततो विस्तीर्णो यः राशिकिरणकलापस्तद्वद्धवलं यदम्बरं वस्त्रं तस्य वितानमुल्लोचो यस्मिन् । पक्षे शशिकिरणकलापेन धवलाम्बरमेव वितानं यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तःसंवर्धिता अन्तःपुरे वृद्धि प्राप्ता याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः । स्वार्थे कः । 'काम्यच्च' इति पूर्वस्येकारः । ताभिर्गन्धर्वाणां देवगायकानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तःसंवर्धिता प्रियदर्शनानाम्नी राजदारिका नरवाहनपुत्री गन्धर्वदत्तश्च तस्या गान्धर्वशिक्षकोपाध्यायस्तयोश्चिरविरहितयोः समागमोत्कण्ठा यस्मिन् । महातीर्थं वाराणस्यादि तद्वदिव सद्यस्तत्कालमनेकैः पुरुषैः प्राप्तं लब्धमभिषेकेण फलं शरीरशुद्धिलक्षणं यस्मिन् । पक्षेऽनेकपुरुषैः प्राप्तमभिषेकात्स्नानात्स्वर्गादिपदबन्धफलं यस्मात् । प्रागिति । प्राग्वंशो हविर्गृहात्याग्गृहम् । यज्ञगृहमित्यर्थः । तमिव नानाविधो या आसंवः सोमवल्ल्यासवस्तेषां पात्राणि भाजनानि तैः संकुलं व्याप्तम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 भयेन शत्रुभयेन अन्तःप्रविष्टानां स्वपक्षीयजनसहितानां भूभृतां राज्ञां सहस्त्रेण संकुलमिति राजभवनपक्षेऽर्थः । 2 अन्तःसंवर्धिता प्रियदर्शना (परमसुन्दरी) गन्धर्वदत्ताख्या या (सागरदत्तस्य कन्या) तस्या उत्कण्ठा (नरवाहनदत्तस्य कृते) यस्याम् इत्यर्थः । तथाहि कथासरित्सागरः- 'राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः । तस्य गन्धर्वदत्ताख्या सुतास्ति न्यकृताप्सराः । सा हि बन्दिमुखावरवाहनदत्तस्य गुणान् श्रुत्वा तस्मिनुत्कण्ठिता बभूव । पाठोऽपि - 'नरवाहनदत्तकथेव' इति कैश्चनाऽनुमीतः । 3 अनेकपुरुषैर्नानादेशीयैः राजपुरुषैः प्राप्तम्, अभिषेक (राज्याभिषेक) रूपं फलं यस्मात् । अर्थात् यस्माद्राजभवनात् बहुभिः राजभिः राजत्वं प्राप्तम् । 4 नानाविधैः सवस्य यज्ञस्य पात्रैः सुक्सुवादिभिः संकुलमित्यर्थो वाच्यः ।
पाठा० - १ संप्रदानापादान. २ भयात्प्रविष्ट. ३ भूमिभृत्. ४ विचित्रलेखा. ५ धवलित. ६ नरवाहनदत्तचरितमिव.
राजभवनम्
पूर्वभागः ।
199