________________
प्रकटमनोरमारम्भम्, दिवसकरोदयमिवोल्लसत्पद्माकरकमलामोदम्, उष्णकिरणमिव निजलक्ष्मीकृतकमलोपकारम्, नाटकमिव पंताकाङ्कशोभितम्, शोणितपुरमिव बाणयोग्यावासोपेतम्, पुराणमिव विभागावस्थापितसकलभुवनकोशम्, संपूर्णचन्द्रोदयमिव मूदुकरसहससंवर्धितरत्नालयम्, दिग्गजमिवाविच्छिन्नमहादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकव्यवहारकारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमिव महाभोगिमण्डलसहसाधिष्ठितप्रकोष्ठम्, महाभारतमिवानन्तगीताकर्णनानन्दितनरम्, यदुवंशमिव कुलक्रमागतशूरभीमपुरुषोत्तमबलपॅरिपालितम्, व्याकरणमिव प्रथममध्यमोत्तमपुरुषविभक्तिस्थितानेकादेशकारकाख्यात -
***********
मारम्भः प्रारम्भो यस्मिन्, पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्य सूर्यस्योदय उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेषामामोदः परिमलो यस्मिन्नित्यभङ्गश्लेषः । यद्वोल्लसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेषास्तेषामामोदः परिमलो यस्मिन् । उष्णकिरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कमलवज्जलजवत्कमलैर्वोपकार उपकृतिः पूजा वा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशरूपो येन तम् । नाटक ताण्डवं तद्वदिव पताका वैजयन्ती तस्या अङ्को मध्यं तेन शोभितम् । पक्षे पताका हस्तविन्यासः, अङ्को नाटकैकदेशः ताभ्यां शोभित विराजितम् । शोणितपुरं बाणनाम्नो दैत्यस्य नगरं तच्च ‘देवीकोट' इति प्रसिद्धं तद्वदिव बाणाः शरास्तेषां योग्यो य आवासस्तेनोपेत सहितम् । पक्षे बाणो दैत्यस्तदावासोपेतमित्यर्थः । पुराणेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्नतयावस्थापितो रक्षितः सकलभुवनस्य समाविष्टपस्य कोशो द्रव्यसमूहो यस्मिन् । पक्षे विभागेनावस्थापितो ज्ञापितः सकलभवनकोशः समग्रभुवनमण्डलं येन । संपूर्णेति । संपूर्णः समग्रो यश्चन्द्रस्तस्योदयस्तद्वदिव मृदवः स्वल्पा ये करा राजदेयद्रव्याणि तेषां सहसं तेन संवर्धितानि वृद्धि प्राप्तानि यानि रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहसं तेन संवर्धितो वेलां ग्राहितो रत्नालयः समुद्रो येन स तम् । दिगिति । दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्नमत्रुटितं महादानस्य महद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतान मदसंततिः । शेषं पूर्ववत् । ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समाविष्टपस्य व्यवहारो व्यवहरणं तस्य कारण निदानं तदर्थमुत्पन्नं यद्धिरण्यं सुवर्णं तदेव गर्भे मध्ये यस्य तत् । पक्षे हिरण्यगर्भो विश्वरेताः । शेषं पूर्ववत् । ईशानेति । ईशान ईश्वरस्तस्य बाहुवनं भुजवनम् । सरलत्वादाहुत्वाच्च नृत्यारम्भ उर्वीकृतत्वेन च वनोपमानम् । तद्वदिव । महेति । महाभोगिनां नृणा मण्डलसहसैरधिष्ठित आश्रितः प्रकोष्ठो गृहैकदेशो यस्मिन् (स्य) । पक्षे महाभोगिनां महासर्पाणां मण्डलसहसैरधिष्ठितः प्रकोष्ठः कलाचिका यस्मिन् (स्य) । महानाभोगो विद्यते येषामेवंविधानां मण्डलानां खङ्गानां सहसं तेनाधिष्ठितौ प्रकोष्ठौ यस्येति वा । महेति । महाभारत शास्त्रं तदिवानन्तान्यसंख्यानि गीतानि गानानि तेषामाकर्णन श्रवणं तेनानन्दिता हर्षिता नरा मानवा यस्मिन् । पक्षेऽनन्तः परमेश्वरस्तस्य गीतं स्तुतिस्तदाकर्णनेनानन्दितो नरोऽर्जुनो यस्मिन् । यदुवंशमिव यदुर्नपतिस्तस्य वंशः संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः, शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरुषेषु मुख्याः, तेषां बलेन सैन्येन परिपालितं रक्षितम् । रजन्यां चतुष्किकाप्रदानेन तद्रक्षां कुर्वन्तीति -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 हन्त धिकू । निजलक्ष्म्या निजशोभया कृतः कमलायाः (राजलक्ष्म्याः ) वृद्धिरूपः शोभारूपो वा उपकारो येन तत् । ईदृशेन राजभवनेन राजलक्ष्म्याः शोभा भवतीति भवनेनोपकारः कृतः । 2 करसहसैः संवर्धिताः रत्नालयाः धनागाराणि यस्मिन्निति स्पष्टोऽर्थः । 3 अनन्तस्य सिद्धभगवतो या ध्यानप्रवृत्तिः तया आनन्दित इत्यर्थो वक्तव्यः ।
पाठा० . १ रम्भाभोगम्. २ प्रकटपताका. ३ यथाविभाग. ४ अवस्थित. ५ पूर्ण. ६ अध्यासितप्रकोष्ठमिव. ७ पालितम्.
198
कादम्बरी ।।
कथायाम्