________________
कृतकूजितरुताभिर्भवनहंसमालिकाभिर्धवलिताङ्गणेन धृतधौतधवलदुकूलोत्तरीयैः कलधौतदण्डावलम्बिभिः पलितपाण्डुरमौलिभिराधारमयैरिव मर्यादामयैरिव मङ्गलमयैरिव गम्भीराकृतिभिः स्वभावधीरैरुष्णीषिभिर्वयःपरिणामेऽपि जैरत्सिहैरिवापरित्यक्तसत्त्वावष्टम्भैः कञ्चुकिभिरधिष्ठितेन समुपेताभ्यन्तरम्, जलधरसनाथमिव कृष्णागुरुधूमपटलैः, सनीहारमिव यामकुञ्जरघटाकरसीकरैः, सनिशमिव तमालवीथिकान्धकारैः, सबालातपमिव रक्ताशोकैः, सतारागणमिव मुक्ताकलापैः, सवर्षासमयमिव धारागृहैः, सतडिल्लतमिव हेममयीभिर्मयूरयष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितदण्डपाणिप्रतीहारगणम्, उत्कृष्टकविगद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमानाभिनवार्थसंचयम्, अप्सरोगणमिव -
***********
स तेन । धृतेति । धृतं धारित धौत क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौतस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः। अतिवृद्धत्वाद्दण्डमवलम्ब्य स्थायिभिरित्यर्थः । पलितेति । पलितं पाण्डुराः कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयैरिव तद्विकारिव, मर्यादा स्थितिस्तन्मयैरिव, मङ्गलं श्रेयस्तन्मयैरिव, गम्भीराऽलब्धमध्याकृतिराकारो यैषां तैः । अतएव स्वभावेनानुपाधिकेन धीरा धैर्यवन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुष्णीषिभिः । वयः परिणामेऽप्यतिवृद्धत्वेऽपि जरसिंहैरिव वृद्धहर्यक्षरिवापरित्यक्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं तस्यावष्टम्भ आधारो यैरेवंविधैः कञ्चुकिभिः सौविदल्लैरधिष्ठितेनाश्रितेन । अङ्गणविशेषणम् । एवंविधेनान्तःपुरेण समुपेतं सहितमभ्यन्तरं मध्यभागो यस्येति गृहविशेषणमितिभावः । प्रकारान्तरेण गृह वर्णयन्नाह - जलेति । जलधरसनाथमिव मेघसदृशमिव । कैः । कृष्णागुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः । सनीति । नीहारेण हिमेन सह वर्तमानमिव यामकुञ्जराश्चतुष्किकागतहस्तिनस्तेषां घटाः समूहास्तेषां कराः शुण्डास्तेषा शीकराः पृषतास्तैः । सनीति । निशा रात्रिस्तया सह वर्तमानमिव तमालानां तापिच्छाना वीथिका पङ्क्तिस्तस्या अन्धकारैस्तिमिरैः । सेति । सह बालातपेन तरुणालोकेन वर्तमानमिव रक्ता येऽशोकाः कथेल्लयस्तैः । सेति । सह तारागणेन नक्षत्रसमूहेन वर्तमानमिव । कैः मुक्ताकलापैर्मुक्ताप्रालम्बैः । सवर्षेति । सह वर्षासमयेन प्रावृट्समयेन वर्तमानमिव । कैः । धारागृहैर्यन्त्रगृहैः । सेति । सह तडिल्लतया विद्युल्लतया वर्तमानमिव । काभिः । हेममयीभिः सुवर्णनिर्मितैर्मयूरयष्टिभिः कलापिसमूहोपवेशनदण्डैः । सेति । सह गृहदैवतेन वर्तमानमिव । काभिः । शालभञ्जिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येश्वरस्य भवनं गृहं तद्वदिव द्वारावस्थिता दण्डपाणयः प्रतीहारगणा यस्मिन् । ईश्वरपक्षे कूष्माण्डकादयो गणाः । उत्कृष्टमलंकाराद्युपेतं यत्कविगद्यमच्छन्दं तद्वदिव । उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ये वर्णा ब्राहाणादयः, एकमुख्यसजातीयसमूहश्रेणिः, ताभिः प्रतिपाद्यमान उत्पाद्यमानोऽभिनवः प्रत्यग्रोऽर्थसंचयो द्रव्यसमूहो यस्मिन् । पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपङ्क्तिभिः प्रतिपाद्यमानः कथ्यमानोऽभिनवोऽश्रुतपूर्वोऽर्थसंचयोऽभिधेयसमूहो यस्मिन् । अप्सरसां तिलोत्तमादीनां गणः समुदायस्तमिव । प्रकटः स्पष्टो मनसो रमाणां सुन्दराणा -
- - - - - - - - टिप्प० - 1 किञ्चिदेवं कथयति । अधिष्ठितेन अन्तःपुरेण समुपेताभ्यन्तरमित्यन्वयो बोध्यः । 2 मेघसहितमिति बोध्यम् । 3 प्रतिप्रहरं यामिकरूपेण परिवर्तनीयाः कुञ्जरा यामकुञ्जराः इत्यर्थः । 4 द्वारावस्थिता दण्डपाणिः (भैरवः) गणाः प्रमथाश्च यस्य तत् इति शिवभवनपक्षेऽर्थः । 5 छन्दोरहित गद्यकाव्यमिवेत्यर्थो वाच्यः । 6 उपहाररूपेण दीयमान इत्यर्थ उचितः । 7 प्रकटः (सर्वविदितः) मनोरमः आरम्भः कार्योपक्रमो यस्मिन् तदित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ कलहसमालाभिः. २ धवलीकृताजिरेण धौत. ३ पलितपाकपाण्डुर; पलितपाण्डु. ४ आचारमयः. ५ विनयमयैरिव मर्यादा. ६ जरीजरत्. ७ सजलजलधर. ८ कविकाव्यम्. ९ श्रेणी. १० अनेकाभिनव.
राजभवनम्
पूर्वभागः ।
197