________________
उद्दामकेकारवानुमीयमानमरकतकुट्टिमस्थितशिखण्डिमण्डलम्, अतिशिशिरचन्दनविटपिच्छायानिषण्णनिद्रायमाणगृहसारसम्, अन्तःपुरेण च बालिकाजनप्रस्तुतकन्दुकपञ्चालिकाक्रीडेनानवरतसंवाह्यमानदोलाशिखरक्वणितघण्टाटकारपूरिताशामुखेन भुजंगनिर्मोकशङ्कितमयूरह्रियमाणहारेण सौधशिखरावतीर्णप्रचलितपारावतकुलतया स्थलोत्पलिनीवनेनेवान्तःपुरिकाजनप्रस्तुतनरपतिचरितविडम्बनक्रीडेनाश्चमन्दुरापरिभ्रष्टागतैरवलुप्तभवनदाडिमीफलैराखण्डिताङ्गणसहकारपल्लवैरभिभूतकुब्जवामनकिरातकरतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभिराकुलीभूतेन शुकसारिकाप्रकाशितसुरतविश्रम्भालापलज्जितावरोधजनेन प्रासादसोपानसमारोहणचलितैरबलानां चरणावसक्तैर्मणिमयैः पदेपदे रणद्भिस्तुलाकोटिवलयैर्द्विगुणी -
***********
स्तारकाः कनीनिका येषां तैर्धमद्भिरितस्ततः पर्यटद्भिः । उद्दामेति । उद्दाम उद्धतो यः केकारवस्तेनानुमीयमानमनुमानविषयीक्रियमाण मरकतकुट्टिमस्थितमश्मगर्भबद्धभूमिस्थितमुपविष्टं शिखण्डिमण्डलं मयूरसमूहो यस्मिन् । अतीति । अतिशिशिरोऽतिशीतलो यश्चन्दनविटपिमलयजतरुस्तस्य छाया आतपाभावस्तत्र निषण्णा उपविष्टा निद्रायमाणाः प्रमीलां कुर्वन्तो गृहसारसा येस्मिन् । अथ चान्तःपुरेण शुकत्यारभ्यावरोधजनेन भवनेत्यारभ्य गणेनाधिष्ठितेन समुपेतं सहितमभ्यन्तरं मध्यं यस्येति दूरेणान्चयः । क्रमेण कीदृशेत्यादि । बालिकेति । बालिकाजनेन कन्याजनेन प्रस्तुता प्रारब्धा कन्दुकस्य गेन्दुकस्य पाञ्चालिका, पञ्चभिर्मंदादिमयीभिः स्वल्पगुलिकाभित पञ्चालिकोच्यते । तस्याः क्रीडा येन स तेन । अनवरतेति । अनवरतं निरन्तरं संवाह्यमानारुह्यमाणा या दोला प्रेवा तस्याः शिखरमग्न तस्मिन्क्वणिता या घण्टास्तासां टङ्कारस्तेन पूरितं भृतमाशामुखं येन । भुजगेति । भुजंगस्य सर्पस्य यो निर्मोकः कञ्चुकस्तेन शङ्कितः शङ्का प्राप्तो यो मयूरः केकी तेन ह्रियमाणो गृह्यमाणो हारो मुक्ताकलापो यस्य स तेन । सौधेति । सौधशिखरादवतीर्णं प्रचलित यत्पारावतकुलं रक्तलोचनकुलं तस्य भावस्तत्ता तया । स्थलेति । स्थलस्य या उत्पलिन्यः कमलिन्यस्तासा वनेनेव काननेनेव । पारावतानां नीलत्वसाम्यात्तदुप्रेक्षा । अन्तःपुरेति । अन्तःपुरिकाजनेन प्रस्तुता प्रारब्धान्यनरपतिचरिताना विडम्बनक्रीडा यस्मिन्स तेन । पुनः किंविशिष्टेन । कपिभिर्वानरैराकुलीभूतेन । अधानां दृष्टिदोषबाधनार्थमश्वशालायां कपयः स्थाप्यन्त इति राज्ञामाचारः। अत उक्तम् । अश्वमन्दुरातः परिभ्रष्टा बन्धनाद्विमुक्ता अतएवागतास्तैः । अवेति । अवलुप्तानि मर्दितानि भवनदाडिमीफलानि यैः । आखण्डितेति । आखण्डिताः शकलीकृता अङ्गणं गृहाङ्गणं तस्य सहकारपल्लवाचूतकिसलया यैः । अभीति । अभिभूताः पराभूता ये कुब्जवामनकिरातास्तेषां करतलाद्धस्ततलादाच्छिन्नानि बलाद्गृहीतानि भूषणानि विकिरद्भिर्विक्षिपद्भिरेवभूतैः कपिभिर्वानरैराकुलीभूतेन व्याकुलीभूतेन । शुकेति । शुकः कीरः, सारिका पीतपादा, ताभिः प्रकाशितः प्रकटीकृतो यः सुरते मैथुने विश्रम्भालापो विश्वासालापस्तेन लज्जितस्त्रपितोऽवरोधजनो यस्मिन्स तेन । प्रासादेति । प्रासादस्य गृहस्य यानि सोपानान्यारोहणानि तत्र यत्समारोहणमुपरिष्टाद्गमनं तेन चलितैः कम्पितैरबलानां स्त्रीणां चरणावसक्तैः पादावलग्नैर्मणिमयै रत्नविकारैः पदे पदे । प्रतिचरणविन्यासमित्यर्थः । रणद्भिः शब्दं कुर्वद्भिस्तुलाकोटिवलयैः पादाङ्गदवलयैर्द्विगुणीकृतं द्विगुणतामापादितं कूजितलक्षणं रुतं शब्दितं यासा ताभिरेवभूताभिर्हसमालिकाभिः कलहंसपङ्क्तिभिर्धवलितं शुभ्रीकृतमङ्गणं चत्वरं यस्य -
-
-
-
-
-
-
-.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'ईदृशेन अन्तःपुरेण समुपेताभ्यन्तरम्' इति दूरेणान्चय इति वक्तव्यम् । 2 कन्दुकैः पाञ्चालिकाभिः वस्त्रनिर्मितपुत्तलिकाभिश्च क्रीडा यस्मिन्नित्यर्थः । ‘पञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः' इति मेदिनी ।
पाठा० - १ अविरत. २ वाह्यमानतोली. ३ वनशोभितेनेव. ४ आकुलीकृतेन. ५ मणिमयविभूषणैः पदेपदे.
(196
कादम्बरी।
कथायाम