________________
पर्यन्तम्, अमलभूमिसंक्रान्तमुखनिवहप्रतिबिम्बतया विकचकमलपुष्पप्रकरमिव संपादयता गतिवशरणितनूपुरपारिहार्यरशनास्वनमुखरेण स्कन्धावसक्तकनकदण्डचामरेण निर्गच्छता प्रविशता चानवरतं वारविलासिनीजनेनाकुलितम्, एकदेशनिषण्णचामीकरश्रृङ्खलासंयतश्चगणम्, इतस्ततः प्रचलितपरिचितामितकस्तूरिकाकुरङ्गपरिमलवासितदिङ्मुखम्, अनेककुब्जकिरातवर्षवरबधिरवामनमूकसंकुलम्, उपाहृतकिंनरमिथुनम्, आनीतवनमानुषम्, आबद्धमेषकुक्कुटकुररकपिञ्जललावकवर्तिकायुद्धम्, उत्कूजितचकोरकादम्बहारीतकोकिलम्, आलप्यमानशुकसारिकम्, इभपतिपरिमलामर्षजृम्भितैश्च निःकूजद्भिः शिखरिणां जीवितैरिवगिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भांस्यमानम्, उत्त्रास्यमानैः काञ्चनभवनप्रभाजनितदावानलशङ्कर्लोलतारकैर्धमद्भिर्भवनहरिणकदम्बकैर्लोचनप्रभया शबलीकृतदिगन्तरम्, -
***********
च वारविलासिनीजनं विशेषयन्नाह - अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य प्रतिबिम्बस्तस्य भावस्तत्ता तया । तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते - विकचेति । विकचो विकस्वरः कमललक्षणपुष्पाणां प्रकरः समूहो यस्मिन्नेवंभूतमिव संपादयता कुर्वता । गतिवशेन गमनवशेन रणितानि शब्दितानि नपुराणि पादकटकानि पारिहार्याणि कङ्कणानि रशनाश्च कटिमेखलास्तासां स्वनः शब्दस्तेन मुखरेण वाचालेन । स्कन्धेऽवसक्तं स्थापितं कनकदण्डयुक्तं चामरं येन स तथा तेन । एकस्मिन्देशे निषण्ण आसीनश्चामीकरस्य सुवर्णस्य श्रृङ्खलान्दुकस्तया संयतो नद्धः शुनां गणो यस्मिन् । इतस्तत इति । इतस्ततः समन्ताप्रचलिताः परिचिता विश्वस्ता अमिता अनेके ये कस्तूरिकाकुरङ्गाः कस्तूरिकामृगास्तेषां परिमल आमोदस्तेन वासितं सुरभीकृतं दिङ्मुखं यस्य तत् । अनेकेति । प्रत्येकमभिसंबन्धः । कुब्जाः पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवराः षण्ढाः, बधिराः प्रसिद्धाः, वामनाः पूर्वव्यावर्णितस्वरूपाः, मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहृतेति । उपाहृतमानीतं किंनरमिथुनं यस्मिंस्तत् । आनीतं वनमानुषमरण्यमनुष्यरूपवनचरं यस्मिन् । आबद्धेति । आबद्धाः संयता ये मेषा हुडाः, कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिञ्जला गणेशाः, लावकाः प्रसिद्धाः, वर्तिकाः पक्षिविशेषाः, तेषां युद्धं यस्मिन् । उदिति । उत्प्राबल्येन कूजितं येषामेवंविधाचकोरा विषसूचकाः, कादम्बाः कलहंसाः, हारीताः पक्षिविशेषाः, कोकिलाः पिकाः यस्मिन् । आलप्येति । आलप्यमानाः संभाष्यमाणाः शुकसारिका यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जरप्राप्तहर्यक्षरुद्भास्यमानमुत्याबल्येन शोभमानम् । अथ केसरिणं(णो) विशेषयन्नाह - इभपतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्माद्योऽमर्षः क्रोधसंभवस्तेन जृम्भितैपूर्णितैरतएव निःकूजद्भिर्नितरां गुञ्जद्भिर्गुञ्जारवं कुर्वद्भिः । शिखरिणां पर्वतानां केसरिसारवत्त्वादाह - जीवितैरिति । जीवितैरिव प्राणितैरिव । गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिर्गृहीतैर्बलाद्वनानीतैरित्यर्थः पुनः प्रकारान्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्बकैर्गृहमृगसमूहैर्लोचनप्रभया नेत्रदीप्त्या शबलीकृत कर्बुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः । काञ्चनभवनं सुवर्णगृह तस्य प्रभा कान्तिस्तया जनितोत्पादिता दावानलशङ्का वनवह्निद्वापरो येषां तैः । अत एवोत्रास्यमानैरुत्प्राबल्येन त्रासं प्राप्यमाणैः । लोला -
- - - - -- टिप्प० - 1 आनीताः वनमानुषा यस्मिनिति समासो बोध्यः । 2 आबद्धं संघटित मेषादीनां युद्धं यस्मिन्नित्यर्थः । 3 सिंहा न गृहीता मन्ये पर्वतानां जीवा एव गृहीताः, इति भावार्थः । अत्र सिहंविषये निष्कूजद्भिरितिपदस्य परमार्थः 'गर्जद्भिः' इति स्यात् ।
-
-
-
-
-
-
-
-
पाठा०.१ अमलमणिभूमि. २ परिहार्य. ३ ख. ४ स्कन्धसक्त. ५ वारविलासिनीनां जनेन. ६ संयताश्चगणम्. ७ अपरिमितसितिकस्तूरिक. ८ वर्षधर; बर्बरवर्षवर, ९ वामनक. १० लालप्यमान. ११ पतिमद.
राजभवनम्
पूर्वभागः ।।
195