________________
सिधेनुकेनान्ध्रद्रविडसिंहलप्रायेण सेवकजनेनास्थानमण्डपगतेन च यथोचितासनोपविष्टेन प्रसारयता दुरोदरक्रीडामभ्यस्यताष्टापदव्यापारमास्फालयता परिवादिनीमालिखता चित्रफलके भूमिपालप्रतिबिम्बमाबध्नता काव्यगोष्ठीमातन्वता परिहासकथां विन्दता बिन्दुमती चिन्तयता प्रहेलिकां भावयता नरपतिकृतकाव्यसुभाषितानि पठता द्विपदीं गृह्णता कविगुणानुत्किरता पत्रभङ्गानालपता वारविलासिनीजनमाकर्णयता वैतालिकगीतमनेकसहससंख्येन धवलोष्णीषपटाश्लिष्टविकटकिरीटसंकटशिरसा सनिझरशिखरलग्नबालातपमण्डलेनेव कुलपर्वतचक्रवालेन मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम्, आस्थानोत्थितभूमिपालसंवर्तितानां च कुथानां रत्नासनानां च राशिभिरनेकवर्णैरिन्द्रायुधपुजैरिव विराजितसभा -
***********
बद्धा । कट्यामिति शेषः । असिधेनुका क्षुरिका येन । नानादेशपरिग्रहादाह - आन्ध्रेति । आन्ध्रस्त्रीलिङ्ग, द्रविडो द्राविडदेशः, सिंहलः सिंहलद्वीपम्, तत्यायेण तत्सदृशेन । एतद्देशोद्भवाः प्रायो बाहुल्येन सन्ति यस्मिन्निति वा । स तेन सेवकजनेन । सेवकसेवकेनेत्यर्थ । इतः परं सामन्तविशेषणानि - आस्थानमण्डपो मध्यमण्डपस्तत्र गतेन प्राप्तेन यथोचितानि यथायोग्यानि यान्यासनानि विष्टराः तेषूपविष्टेनासेदुषा । किं कुर्वता । दुरोदरक्रीडां द्युतक्रीडां प्रसारयता विस्तारयता । अष्टापदमभ्यस्यताभ्यासं कुर्वता । अष्टापदं शारिफलम् । नयपिटकमित्यन्ये । तस्य व्यापारम् । आस्फालयता वादयता परिवादिनी वीणाम् । चित्रफलक आलेख्यपट्टके भूमिपालो राजा तस्य प्रतिबिम्ब प्रतिरूपमालिखता लिपीकुर्वता । काव्येति । काव्यगोष्ठीमाबध्नता । काव्यश्रवणार्थं स्वस्योपवेशनेन जनबन्धं कुर्वतेत्यर्थः । परिहासकथामुपहासकारिवचनरचनामातन्वता विस्तारयता । बिन्दुमती विचित्रां लिपि विन्दता प्राप्नुवता । प्रहेलिकां पूर्वोक्तां चिन्तयता ध्यायता । नरपतिना राज्ञा कृतानि विरचितानि यानि काव्यसुभाषितानि काव्यसूक्तानि तानि भावयता चेतसि भावनां कुर्वता । द्विपदी पदद्वयात्मिकां पठता पाठं कुर्वता । कविगुणान्नवीनकाव्यकर्तृणां गुणांस्तत्कालकाव्यकरणादिरूपान्गृह्णता ग्रहणं कुर्वता । पत्राणि केतकीसंबन्धीनि तेषां भङ्गानचनाविशेषानुत्किरतोत्कीर्णं कुर्वता । वारविलासिनीजनं वारयोषिज्जनमालापयता संभाषयता । वैतालिका बोधिजनाः सुभाषितपाठका बन्दिनो या तेषां गीतं गानमाकर्णयता श्रृण्वता । अनेकेति । अनेकानि सहसानि संख्या परिमाणं यस्य स तेन । धवलेति । धवलः श्वेतो य उष्णीषपटो मूर्धवेष्टनपटस्तेनाश्लिष्टान्यालिङ्गितानि विकटानि विपुलानि किरीटानि कोटीरानि तैः संकटं संकीर्णं शिरो यस्य स तेन । उष्णीषस्य श्वेतत्वात्किरीटस्य मणिप्रभया रक्तत्वाच्च श्वेतरक्तत्वसाम्यादुत्प्रेक्षामाह - सेति । सनिर्झर निर्झरे : सहवर्तमानं यच्छिखरं श्रृङ्गं तत्र लग्नं बालातपस्य मण्डलं यस्मिन्नेवभूतेन कुलपर्वतचक्रबालेनेवेदृशेन मूर्धाभिषेकेण कृतपट्टाभिषेकेण सामन्तलोकेन स्वदेशसमीपवर्तिराजसमूहेनाधिष्ठितमिति प्रागुक्तमेव । आस्थानेति । आस्थानादुपवेशनस्थलादुत्थितो यो भूमिपालो नृपतिस्तस्मात्संवर्तितानां समूहैरिवेन्द्रायुधपुजैरिवेन्द्रधनुःसमूहैरिव विराजितः शोभितः सभापर्यन्तः संसप्रान्तो यस्य तत् । पुनः कीदृशम् । अनवरतं निरन्तरं वारविलासिनीनां जनेनागच्छता निर्गच्छता चाकुलितं व्याकुलीभूतम् । अथ - - टिप्प० - 1 'चौपड' इति भाषा । 2 पद्यवर्णसंख्यया बिन्दवो लिख्यन्ते तैः पद्यस्य परिज्ञानं बिन्दुमती । यथा-01०1०००:३०ौ (वागर्थाविव संपृक्तौ) । 3 पदद्वयात्मिकां गाथाम्, इति वाच्यम् । 4 अग्रसंबन्धेन - वारविलासिनीनां कपोलादिषु चन्दनादिना पत्ररचनां कुर्वतेत्यर्थो वा । 5 आस्थानादुत्थितेषु भूमिपालेषु (सामन्तेषु) संवर्तितानां भृत्यैः संकोचितानाम् ('तह' 'घडी' किये हिन्दी) कुथानां रत्नासनानां च समूहैः, अनेकवर्णैः इन्द्रधनुःसमूहैरिव शोभितः सभापर्यन्तो यस्य तत् ।
-
-
-
-
-
-
-
-
-
-
पाठा० . १ द्विपदीः. २ उत्कीर्यता. ३ गीतिम्. ४ आलग्न.
(1947
कादम्बरी।
कथायाम्