________________
रसरसलुलितलाजकेवलै पालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैश्चार्यवेषैरत्युच्चवेत्रासनोपविष्टैधर्ममयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम्, अधिगतसकलग्रामनगरनामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखितसकलभुवनव्यापारतया धर्मराजनगरव्यतिकरमिव दर्शयद्भिरधिकरणलेखकैरालिख्यमानशासनसहसम्, अभ्यन्तरावस्थितनरपतिनिर्गमप्रतीक्षणपरेण च स्थानस्थानेषु बद्धमण्डलेन कनकमयार्धचन्द्रतारागणशबलचर्मफलकैर्निशासमयमिव दर्शयता स्फूरितनिशितकरवालकरप्ररोहकरालितातपेनैकश्रवणपुटंघटितधवलदन्तपत्रेणोर्ध्वबद्धमौलिकलापेन धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धा -
***********
मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णा यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृता स्थापिता मधुरा मिष्टाः सरसा रसोपेता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्रतण्डुलाः' इति कोशः । तेषां कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानस्तेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशालाप्राप्तैरेवंविधैस्तुरङ्गमैरश्चैरुद्भासितं शोभितम् । अधीति । अधिक्रियते जवोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युच्चं यक्षेत्रासनं तत्रोपविष्टैः स्थितैर्धर्ममयैरिव धर्मनिष्पन्नरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् । यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखकास्तैरालिख्यमानं लिपीक्रियमाणं शासनसहसमाज्ञापत्राणां दशशतं यस्मिन् । अथ लेखकान्चिशिनष्टि - अधीति । अधिगतं ज्ञातं सकलग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमिवाखिलं समग्रं जगद्विष्टपमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो व्यवहारस्तस्य भावस्तत्ता तया । धर्मराजो यमस्तस्य नगर संयमिनीति ख्यातं तस्माद् व्यतिकरमतिशयं दर्शयद्भिः । एतेन चित्रगुप्तलिखितोत्कृष्टलिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचितमिति भावः । पुनः कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिनाधिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्यन्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थानस्थानानीति कर्मधारयस्तेषु बद्धं मण्डलं येन स तेन । कनकेति । कनकमयः सुवर्णनिष्पन्नो योऽर्धचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च धेतबिन्दुचित्रं ताभ्यां शबलानि कर्बुराणि चर्मफलकानि तैः । चन्द्रतारकानिमित्तवत्त्वादाह - निशेति । निशासमयमिव रात्रिकालमिव दर्शयतान्येभ्यो ज्ञापयता । स्फुरितेति । स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं खङ्ग तस्य ये कराः किरणास्तेषां प्ररोहा अङ्कुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा तेन एकश्रवणपुट एककर्णपुटे घटित संयोजितं धवलं दन्तपत्रं येन स तथा तेन । देशाचारोऽयं यदेककर्णे दन्तपत्रपरिधानम् । ऊर्ध्वं बद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन । धवलेति । धवल यच्चन्दनं तस्य स्थासका आभरणविशेषास्तैः खचिता नद्धा भुजोरुदण्डा बाहुदण्डा यस्य स तेन । बद्धासीति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 गुडेन आर्टीकृताः इत्यर्थो बोध्यः । गुडमिश्रिता लाजग्रासाः चाञ्चल्यवशान्मा निपातयन्त्विति सेवकैर्मुखे ध्रियन्त इति तुरगस्वभावः । 2 केषाञ्चित्पक्षे आलिखितसकलभुवनव्यापारत्वरूपं द्वयोः समानधर्मत्वमेवेति नातिशयः । तस्मात् धर्मराजनगरस्य व्यतिकरं व्यापार संबन्धं वेत्यर्थः । यमनगरलेखकैः सह अधिकरण (कचहरी) लेखकानां साम्येन एतेषां क्रूरतोपहासश्चातुर्येण ध्वनितो ग्रन्थकृता परमविदुषा । 3 चन्दनलिप्तहस्तस्य प्रतिच्छन्दः स्थासकः-एवमपि कस्यचन मतः । 'थापा' इति भाषा ।
पाठा० - १ लवलुलित; लवविलुलित. २ जम्बाल. ३ ग्रामखर्बटनगर; नगरखेटखवट; खेटखवट. ४ अधिकार. ५ निर्गमन. ६ परेण स्थाने स्थाने. ७ तारागणशतशबलः. ८ घटितानेकदन्त.
राजभवनम्
। पूर्वभागः ।
193