________________
कायस्य वामनतया च जघनभागस्य पोतालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धचन्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपदीविलासेन स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन प्रसाधितेनेवालोलैकर्णपल्लवाहतमुखेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतैकदेशम्, उज्ज्वलपट्टकम्बलपटप्रवारितपृष्ठैश्च रसितमधुरघण्टिकारवमुखरकण्ठैर्मज्जिष्ठालोहितस्कन्धकेसरबालैर्वनगजरुधिरपाटलसटैरिव केसरिभिः पुरोनिहितयवसराशिशिखरोपविष्टमन्दुरापालैरासन्नमङ्गलगीतध्वनिदत्तकर्णैरन्तः कपोलधृतमधु -
***********
पुरोभागस्य जघनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया ह्रस्वतया जघनभागस्य पश्चाद्भागस्य । एतन्निमित्तादेवोव्प्रेक्षामाह - पातालेति । पातालाद्वसातलाद्वडवामुखादुत्तिष्ठता प्रादुर्भवता । निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमीचन्द्रस्तदाकृतिना मध्यमणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मिन्स तेन । पक्षे सार्धचन्द्रा नक्षत्रमाला तारापङ्क्तिर्यस्मन्निति विग्रहः । पुनस्तमेव विशिनष्टि प्रकटितेति । प्रकटितमाविष्कृतमरुणं रक्तमतएव चारु मनोहरं पुष्करं शुण्डाग्रं येन स तथा तेन । केनेव । शरदारम्भेणेव घनात्ययप्रारम्भेणेव । तत्पक्षे पुष्कराणि कमलानि । 'राजीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह - वामनेति । वामनरूपेणेव वामनावतारेणेव । उभयसाम्यमाह - त्रिपदीति । कृतो विहित एकं पादमुत्क्षिप्य पादत्रयेऽङ्गावस्थानं त्रिपदी तस्या विलासो विभ्रमो येन स तथा तेन । पक्षे त्रिपदीति स्वर्गमृत्युपाताललक्षणा तस्यां विलासो विलसन येनेति भावः । स्फटिकेति । स्फटिकगिरिः स्फटिकाचलस्तस्य तटेनेव वप्रेणेव । उभयं विशिनष्टि - लग्नेति । लग्ना सिंहमुखा प्रतिमा गजस्य दन्तबैन्धो यस्य स तेन । 'प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च' इत्येनकार्थः । पक्षे लग्ना प्रतिबिम्बिता सिंहमुखस्य प्रतिमा प्रतिरूपकं यस्मिन्स तेन । अतएव प्रसाधितेनेव स्वीकृत भूषणपरिग्रहेणेव । लोलौ चपलौ यौ कर्णपल्लवौ ताभ्यामाहतं मुखं येन (यस्य) स तेन । पक्षे कर्णपल्लवः । शेषं पूर्ववत् । अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाह - उज्ज्चलेति । उज्ज्वलाः श्वेता ये पट्टकम्बलाः पट्टसूत्रनिर्मिताः । 'षट्' (?) इति प्रसिद्धा वा । तेषां पटास्तैः प्रावारितान्याच्छादितानि पृष्ठानि येषां तैः । रसितेति । रसितानां रणितानां मर्धुरः श्रोत्रसुखदो यो घण्टिकानां लघुकिङ्किणीनां रवः स्वरस्तेन मुखरो बाचालः कण्ठो येषां तैः । मञ्जिष्ठेति । मञ्जिष्ठया प्रसिद्धया लोहिता रक्तीकृताः स्कन्धकेसराणां बाला येषां तैः । रक्तबालसाम्यादाह - वनेति । वनगजानामरण्यहस्तिना रुधिरेण पाटलाः श्वेतरक्ताः सटा येषामेवंभूतैः केसरिभिरिव हर्यक्षैरिव । पुरो निहितोऽग्रे न्यस्तो यो यवसराशिस्तृणसमूहस्तस्य शिखरमग्र तत्रोपविष्टा मन्दुरापाला वाजिशालारक्षका येषां तैः । 'वाजिशाला तु मन्दुरा' इति कोषः । आसन्नेति । आसन्नः समीपवर्ती यो -
-
टिप्प० - 1 अयमत्र विचारान्तरम् । परिस्फुरन्ती शोभमाना सार्धचन्द्रा (अर्धचन्द्राकारललाट भूषणसहिता) नक्षत्रमाला सप्तविंशतिमहामौक्तिकमाला यस्य तेन, (इति गजपक्षे ) स्पष्टोऽर्थः । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । 2 अत्रेदृगपि संभाव्यते - 'त्रिपदी पादबन्धनम्' । 'त्रिपदीच्छेदिनामपि इति कालिदासः । तथा च कृतः त्रिपद्या (पादबन्धनशृङ्खलया) विलासः क्रीडा येन इत्यर्थः । 3 तात्पर्यं ग्राह्यम् । 4 लग्ना सिंहस्येव मुखम् अग्रभागो यस्यां ईदृशी प्रतिमा दन्तबन्धनश्रृङ्खला यस्य तेनेति बोध्यम् । 5 प्रसाधितः कृतश्रृङ्गारो हि प्रसाधनार्थं धृताभ्याम् आलोलाभ्यां कर्णस्थपल्लवाभ्यां आहत (वायुवशात्) मुखं यस्य, ईदृशो भवति । अयं तु-आहतं गजस्वभावात् भ्रमरापसारणनिमित्तं वा आलोलाभ्यां दीर्घकर्णाभ्यां मुखं येन स इत्यर्थः । 6 रसितानामिति विशेषणं यदा घंटिकानां तदा मध्ये मधुर इति स्वरस्य कथं विशेषणं स्यात् । अतः - रसितानां शब्दायमानानां मधुर ( मनोहर) घंटिकाना यो रव इति समासो विधेयः ।
पाठा०-१ अतिवामनतया २ पातालतलादिव ३ लोध्र. ४ प्रावृत; प्रावरित. ५ बालपल्लवैर्निहतगज.
192
कादम्बरी |
कथायाम्