________________
भिर्यामकरेणुकाभिरशून्यकक्षान्तरम्, आलानस्तम्भनिषण्णेन च नवजेलधरघोषगम्भीरमनुगतवीणावेणुरवरम्यमास्फालितघर्घरिकाघर्घरमैनवरतसंगीतकमृदङ्गर्ध्वनिमामीलितलोचनत्रिभागेण वामदशनकोटिनिषण्णहस्तेन निश्चलकर्णतालेनाकर्णयता सलीलमुभयपाविलम्बिवर्णकम्बलतया विन्ध्यगिरिणेवाविष्कृतधातुविचित्रितपक्षसंपुटेनाधोरणगीतानन्दकृतमन्द्रकण्ठगर्जितेन मदजलशबलशङ्खशोभितश्रवणपुटेन रजनिकरबिम्बचुम्बिसंवर्तकाम्बुदवृन्दविडम्बकेन कर्णावलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाङ्कुशेन मुखमुद्बहता मदजलमलिनेन द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदग्रतया पूर्व -
***********
उपारूढौ प्राप्तौ यौ शिक्षाविनयौ ताभ्यां निभृताभिर्भूताभिः । तत्र शिक्षा संज्ञादिज्ञानम्, विनयो नम्रता । अतएव कुलयुवतिभिरिव ता अपि शिक्षाविनयाभ्यां निभृताः स्युः । एवंविधाभिर्यामकरेणुकाभिश्चतुष्किकाहस्तिनीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति । आलानस्तम्भो गजबन्धनस्तम्भस्तत्र निषण्णेन स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दूरेणान्वयः । अथ गजं विशेषयन्नाह - नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् । अनुगतः सहितो यो वीणावेणुरवस्तेन रम्य मनोहरम । आस्फालिता वादिता या घर्घरिका वायविशेषस्तस्या घर्घरम । घर्घरशब्दमिश्रमित्यर्थः । अनवरतं निरन्तरम । गीतनत्यवायत्रयं प्रेक्षणार्थे प्रयुक्तं संगीतकमुच्यते । तस्य यो मृदङ्गध्वनिर्मुरजरवस्तं सलीलं यथा स्यात्तथाकर्णयता श्रृण्वतात एवामीलितो निमीलितो लोचनत्रिभागो नेत्रत्रिभागो येन स तथा तेन । यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति । वामदशनकोटावपसव्यदन्ताग्रे निषण्णः स्थितो हस्तो येन (यस्य) तथा । अयमपि गजस्य स्वभावः । निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन, केवलमेतद्गीतश्रवणमाहात्म्यम् । उभयेति । उभयपार्थेऽवलम्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावस्तत्ता तया विन्ध्यगिरिणेव जलबालकेनेव । आविष्कृतेति । आविष्कृतो यो धातुगैरिकं तेन विचित्रितं पक्षसंपुटं यस्य । गजस्यापि कुथेनाच्छादितत्वेन तस्योपमानम् । विचित्रितपक्षसंपुटत्वादिति भावः । आधोरणेति । आधोरणा हस्तिपकास्तेषां गीतं गानं तस्माद्य आनन्दः प्रमोदस्तेन कृतं विहितं मन्द्रं मधुरं कण्ठगर्जित येन स तथा तेन । मदेति । मदजलं दानजलं तेन शबलः कर्बुरो यः शङ्खो भालध्रुवोरन्तरं तेन शोभितं विराजितं श्रवणपुट कर्णसंपुटं यस्य स तथा तेन । 'शङ्को निधौ ललाटास्थिन कम्बौ' इत्यमरः । रजनीति । रजनिकरबिम्बं चन्द्रबिम्बं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेघास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुकरोति यः स तथा तेन । 'शेषाद्विभाषा' इति कप्प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्रसादृश्यं हस्तिनो जलधरसाम्यं च स्पष्टीकृतम् । कर्णेति । कर्णावलम्बिना काञ्चनमयेन स्वर्णनिष्पन्नेनाङ्कुशेन सृणिना कृतकर्णपूरमिव विहितश्रोत्राभरणमिव मुखमाननमुबहता धारयता । पुनः कीदृशेन । मधुकरकुलेन भ्रमरसमहेन कृत्वालंक्रियमाणेन । विभूष्यमाणेन । भ्रमरकुलं विशिनष्टि - कपोलेति । कपोलतलं गल्लात्परो भागस्तत्र दोलायमानेनेतस्ततो भ्रममाणेन । चञ्चलत्वसाम्यादुपमानान्तरमाह - कर्णेति । द्वितीयेनापरेण कर्णचामरेणेव । शुक्लत्वशङ्का निराकर्तुमाह - मदेति । मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्युपमानस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह - पूर्वेति । अत्युदग्रतयात्युच्चतया पूर्वकायस्य -
- - - - - टिप्प० - 1 कुलयुवतीना पक्षे शिक्षा गार्हस्थ्यपरिचालनचातुर्यानुकूला बोध्या । 2 प्रतिप्रहरं रक्षाप्राहरिकरूपेण बन्धनीयाः करेणुका यामकरेणुकाः ।
-
-
-
पाठा० - १ यामक. २ जलधरगर्जितघोष. ३ अतनु. ४ अनवरतमृदुमृदङ्गध्वनिमामीलित; अनवरतसंगीतमृदुमृदङ्गध्वनिमतिमनोहरं किञ्चिदामीलित. ५ संगीत. ६ ध्वानम्. ७ पाचप्रलम्बित. ८ विचित्र. ९ चुम्बितावर्तक; चुम्बिनावर्तक; चुम्बितसंवर्तक. १० अम्बुदविडम्बकेन. ११ कर्णान्तलम्बिना.
(राजभवनम् ।
पूर्वभागः ।
111)