________________
सितवेषपरिग्रहतया वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमाणैर्दिवानिशमालिखितैरिवोत्कीर्णेरिव तोरणस्तम्भनिषण्णैारपालैरनुज्झितद्वारदेशम्, अनेकसंयवनचन्द्रशालाविटङ्कवेदिकासंकटशिखरैरभ्रंकषैरैपहसितसितकैलासशोभैरमलसुधावदातैः सप्रालेयशैलमिव महाप्रासादैरनेकवातायनविवरविनिर्गतयुवतिकिरणसहसतया कनकश्रृङ्खलाजालकेनेवोपरि विस्तीर्णेन विराजमानम्, अन्तर्गतायुधनिवहाभिराशीविषकुलसंकुलाभिः पातालगुहाभिरिवातिगम्भीराभिरायुधशालाभिरुपेतम्, अबलाचरणालक्तकरसरक्तमणिशकलैः शिखरनिलीनशिखिकुलकृतककारवकलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठितकनकपर्याणाभिः प्रलम्बचामरकलापचुम्बितचलकर्णपल्लवाभिः कुलयुवतिभिरिवोपारूढशिक्षाविनयनिभृता -
***********
मार्गः पन्था यस्यैवंभूतो राजकुलं विवेशेति दूरेणान्चयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुबेरे चैव कुण्डले' इत्यनेकार्थः । पुजीभूतमिव राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता वेत्रयष्टियः । सितः शुक्लो वारबाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः श्वेत उष्णीषो मूर्घवेष्टनं येषां तैः । सितो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । श्वेतद्वीपसंभवैरिव । श्वेताभिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः । कृतयुगपुरुषैरिव कृतयुगः सत्ययुगस्तत्रोत्पनैः पुरुषैनररिव । महाप्रमाणैरत्युच्चैर्दिवानिशमहर्निशमालिखितैरिव चित्रितैरिव । उत्कीर्णैरिवोत्कीर्य कर्षितैरिव । तोरण प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्तदवष्टम्भेनावस्थितैरेवंभूतैर्वारपालैौवारिकैरनुज्झितोऽपरित्यक्तो द्वारदेशो यस्य तत् । पुनः कीदृशम् । विराजमानं शोभमानम् । कैः कैः । प्रासादैर्देवभूपानां गृहैः । कीदृशैः । अनेकेति । अनेकानि संयवनानि, चतुःशालानि, चन्द्रशालाः शिरोगृहाणि विटङ्कः कपोतपालिका स चोन्नतप्रदेशः, वेदिकाः प्रसिद्धाः, ताभिः संकटानि संकीर्णानि शिखराणि गृहप्रान्ताग्राणि येषां तैरभ्रंकषैर्योमव्यापिभिरपहसितापहासास्पदीकृता सितकैलासस्य शोभा दीप्तियः । अमला निर्मला या सुधा तयावदातैः शुभैरेवंभूतैर्महाप्रासादैर्देवभूपानां गृहैः सप्रालेयशैलमिव हिमोपयुक्तगिरिमिव सुधाधवलितत्वेनोच्चत्वेन च द्वारदेशस्य शैलसाम्यम् । अनेके ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि तेषु विनिर्गतं यावतीनां स्त्रीणां किरणसहसं तस्य भौवस्तत्ता तया । कनकश्रृङ्खलाजालकेनेवोपरिविस्तीर्णेन विस्तृतेन विराजमानमित्यर्थः । पुनः कीदृशम् । अतिगम्भीराभिरलब्धमध्याभिरायुधशालाभिः शस्त्रशालाभिरुपेत सहितम् । कीदृशीभिः । अन्तर्गतो मध्यगत आयुधनिवहः शस्त्रसमूहो यासु ताभिः । काभिरिव । आशीविषाः सस्तेिषां कुलानि तैः संकुलाभिाप्ताभिः पातालगुहाभिरिव बलिवेश्मकन्दराभिरिव । पुनः प्रकारान्तरेण तदेव विशेषयन्नाह - अबलेति । अबलाचरणानां वनितापादानां योऽलक्तकरसो यावकरसस्तेन रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः, शिखरनिलीनैः सानुमध्यवर्तिभिः शिखिकुलैमयूरसमूहैः कृतस्यविहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतैः क्रीडापर्वतकैः क्रीडाचलैरुपशोभितम् । उज्ज्वलेति । उज्ज्वलवर्णो यः कम्बलो रल्लकस्तेनावगुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यासु ताभिः । प्रलम्बानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिताश्चलाः कर्णपल्लवा यासां ताभिः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'संजवन' इत्यपि पाठः 'संजवनं त्विदम् । चतुःशालम्' इत्यमरः । 2 हिमशैलैः सहितमिव । 3 भूषणानां यत्किरणसहसमिति बोध्यम् । न किल युवतयोरवयः । 4 विनिर्गतं युवतिभूषणकिरणसहसं यस्मिन् तत्, तत्तया, इति बहुव्रीयुत्तरं तल्प्रत्यय उचितः । राजभवनस्य गवाक्षविवरेभ्यो भूषणकिरणा निर्गच्छन्ति, ते च कनकशृङ्खलावत्प्रतीयन्त इत्युत्प्रेक्षाशयः
पाठा० - १ संयमन; संजवन. २ शालिका. ३ अपहसितकैलासशैलशोभैः, उपहसितकैलासशिखरशोभैः. ४ शैलमिव. ५ युवतिभूषणकिरण. ६ वितानेन; विततेन; वितानेन. ७ प्रचल; लम्ब. ८ कलापचल. ९ उपरूढ; उपगूढ. १० विनयेन निभृताभिः.
190
कादम्बरी ।)
कथायाम्