________________
इव गर्भेण यया व्यूढः । इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवैः, अनुगम्यमान इव हृदयैः, अनुबध्यमान इवाभरणरत्नरश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनबलिभिः, शिथिलभुजलताविगलितधवलवलयनिकरे पदे पदे विवाहानल इव कुसुममित्रैाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुलसमीपमाससाद । क्रमेण च यामावस्थिताभिरनवरतकरटस्थलगलितमदमषीकरीभिरञ्जनगिरिमालामलिनाभिः कुञ्जरघटाभिरन्धकारितदिङ्मुखतया जलधरदिवसायमानमुद्दण्डधवलातपत्रसहससंकटमनेकद्वीपान्तरागतदूतशतसंकुलं राजद्वारमासाद्य तुरङ्गमादवततार । अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन बलाहकेनोपदिश्यमानमार्गस्त्रिभुवनमिव पुञ्जीभूतम्, आगृहीतकनकवेत्रलतैः सितवारबाणैः सितकुसुमशेखरैः सितोष्णीषैः -
***********
धारणे निर्वहणे क्षमः समर्थो गर्भेण गर्भत्वेन व्यूढो वर्धितः । कः कयेव । ककुभा दिशा गर्भेण मध्यभागेन दिग्गज इव व्यूढो धृतः । सोऽपि समग्रमहीभारधारणक्षमः उपसंहरन्नाह - इत्येवमिति । इति समाप्तौ । एवंविधानि पूर्वोक्तस्वरूपाण्यन्यानि चैभ्योऽनुक्तानि वचनानि च वदन्तीनां जल्पन्तीनां तासां स्त्रीणां लोचनपुटेरापीयमान इव । अत्यादरेण वीक्षणं पानमुच्यते । भूषणरवैराभरणध्वनिभिराहूयमान इव निमन्त्र्यमाण इव हृदयश्चित्तैरनुगम्यमान इवानुयायमान इव । आभरणरत्नानां रश्मयः किरणास्त एव रज्जवस्ताभिरनुबध्यमान इव । नवयौवनान्येव बलयस्तैरुपहियमाणः पूज्यमान इव । शिथिलाः श्लथा या भुजलता बाहुलतास्ताभ्यो विगलितानि च्युतानि धवलवलयनिकरः श्वेतकटकसमूहो यस्मिन्नेवंविधे पदे पदे प्रतिपदं विवाहानल इवोद्वाहवह्निरिव कुसुममित्रैः पुष्पसंपृक्तैर्लाजाञ्जलिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप । क्रमेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्चादवततारोत्तीर्णः । अथ राजद्वारं विशिनष्टि - यामेति । यामावस्थिताभिः सेवावसरस्थिताभिः । अनवरतं निरन्तरं करटस्थलाद्गण्डस्थलाद्गलितो यो मदो दानं स एव मषीनामाम्बुकर्दमस्तं कुर्वन्तीति कार्यस्ताभिः । अञ्जनगिरीणां या माला पङ्क्तिस्तद्वन्मलिनाभिर्मलीमसाभिः कुञ्जरघटाभिर्हस्तिसंहतिभिरन्धकारितानि यानि दिङ्मुखानि तेषां भावस्तत्ता तया जलधरदिवसायमानं मेघदिनमिवाचरमाणमुद्दण्ड प्रचण्डं यद्धवलातपत्राणां वेतच्छत्राणां सहसं तेन संकटं संकुलम् । अनेके द्वीपान्तराद्देशान्तरादागता ये दूताः सदेशहारकास्तेषां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्त । च पुनरर्थे । अवतीर्याश्चादुत्तीर्य करतलेन हस्ततलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमवलम्ब्यावलम्बनीकृत्य पुरोऽग्रे सविनयं विनयसहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाहकेनोपदिश्यमानो निवेद्यमानो -
- - - - - - - - - - - - - - टिप्प० - 1 गर्भेण ययाऽयमूढः । इत्यपि पाठः प्रचलितः । अयम् ऊढो धारितः । 2 निकरित्यपि पाठः । वासनोदेकात् शिथिलाभ्यो भुजलताभ्यो विगलितो धवलवलय (हीरकादिकङ्कण)समूहो येषु तादृशैः कुसुममित्रैर्लाजाञ्जलिभिर्विवाहानल इवाऽवकीर्यमाणः । पाणिग्रहणसमयेपि अग्नेरुपरि लाजाक्षेपः, राजागमनेपि लाजाक्षेप इति द्वयोः साम्यम् । तथा च कालिदासोपि - 'अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः। 3 मदमसीपङ्ककरीभिः । इत्यपि पाठः । मदा एव मसीपङ्काः तेषा करीभिः कारिणीभिः ।
-
-
-
-
-
-
-
-
-
-
पाटा० - १ गर्भणायमूढः. २ यया च. ३ निबध्यमानः. ४ शिथिलित. ५ निकरैः. ६ मिश्र. ७ विगलित. ८ मषीपङ्ककरीभिः; मषीपट्टधराभिः. ९ समाकुलम्, १० वाणधारिभिः. ११ सिताङ्गरागैः.
राजभवनम्
( पूर्वभागः ।
489