________________
णमणिकिरणकलापच्छलेन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदनेन चामरकलापान्तरित एव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामन्त्र्य दशनमयूखलेखाधेवलीकृतदिक्चक्रवालं हसितम् । एषोऽस्य शुकपक्षतिहरितरागेणोत्तरीयांशुकप्रान्तेन बलाहकस्तुरगखुरचलनजन्मानं लैग्नमग्रकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकरकमलकोमलतलः समुत्क्षिप्य तिर्यक्तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लवः सलीलम् । अयमनेन च ताम्बूलयाचनार्थमुत्तानिततलो दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवालकवलग्रासलालसः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुंधरासपत्नी ग्रहीष्यति । धन्या च देवी विलासवती सकलमहीमण्डलभारधारणक्षमः ककुभा दिग्गज -
***********
शिरीषकुसुमकर्णपूरीभावेऽपि तद्वत्त्वं बोध्यमिति भावः । एतस्येति विषये षष्ठी । फलस्येच्छेतिवत् । एतद्विषये योऽभिनवयौवनेनाभिनवतारुण्येन योऽस्माकं रागः स हारा मुक्ताकलापास्तेष्वन्तर्निविष्टा अन्तःप्रविष्टा येऽरुणमणयः पद्मरागास्तेषां किरणास्त्विषस्तेषां कलापच्छलेन बहिः परिस्फुरति हृदयं चित्तं विविशुः प्रवेष्टुमिच्छुरिव बहिः परिस्फुरति बहिः प्रसर्पति । यद्वाभिनवयौवनरागो हृदयं विविक्षुरिव पूर्वोक्तच्छलेन बहिः परिस्फुरति । एतदिति । एतद्वंस्त्वभिनवमनेन चन्द्रापीडेन चामरकलापान्तरैर्मध्येरित एवेतः प्रदेश एव वीक्षितमवलोकितम् । अनेन किमप्येतदज्ञातस्वरूपं वैशम्पायनेन सह समामन्त्र्य संभाषणं कृत्वा दशनमयूखलेखाधवलीकृतदिक्चक्रवाल यथा स्यात्तथा हसितम् । एषोऽस्येति । एष बलाहकोऽस्य राज्ञैः शुकः कीरस्तस्य पक्षतिः पक्षस्तद्वद्धरितरागो नीलरागो यस्मिन्नेवभूतेनोत्तरीयांशुकप्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरचलनजन्मानमिति । तुरुगा अधास्तेषां खुराः शफास्तेषां चलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्यैवंविधं रेणु धूलिमाकेशेषु लग्नमपहरति दूरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकमलं तद्वत्कोमल मृदु तलं यस्य स तथा चरणपल्लवस्तुरङ्गमस्कन्धे तिर्यक्समुत्क्षिप्य तिर्यगुत्पाद्य सलील यथा स्यात्तथा निक्षिप्तः स्थापितः । अयमिति । अनेन चन्द्रापीडेन ताम्बूलं नागवल्लीदलं तयाचनार्थमयं करो हस्तः शुण्डा च गजेनेव प्रसारितो विस्तारितः । कर विशिनष्टि - उत्तानितेति । उत्तानितं तलं यस्य स तथा । दीर्घा अङ्गुलयो यस्य स तथा । आ ईषत्ताम्रो रक्तवर्णः पुष्करकोशः कमलकोशस्तद्वच्छोभत इत्येवंशीलः स तथा । पक्षे पुष्करं शुण्डाग्रम् । ताम्बूलपत्राणां तत्साम्येनाह - शैवेति । शैवालं शेवालं तस्य कवलो गुडस्तस्य ग्रासो भक्षणं तत्र लालसो लोलुपः । धन्येति । सा स्त्री धन्या भाग्यवती यास्य निर्जितकमलं करतल लक्ष्मीरिव ग्रहीष्यति । अतएव वसुंधरायाः सपत्नीत्युक्तम् । धन्या चेति । चकारः पुनरर्थे । देवी विलासवती धन्या महाभाग्यवती । एतदर्थं स्पष्टयन्नाह - सकलेति । यया विलासवत्या सकलं यन्महीमण्डलं तस्य यो भारो वीवधस्तस्य -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 अस्य वक्षसि हारान्तर्गतरक्तमणीनामयं रक्तिमा नास्ति किन्तु अभिनवो यौवनरागोऽस्य हृदयं प्रवेष्टुमिच्छति परं नाद्यापि प्रवेश लब्धवान्, अत एव स बहिः स्फुरति । शैशवं पराजित्य नाद्यापि यौवनस्य पूर्णाधिकारोभूदिति सन्धिविशेषो व्यङ्ग्यः । 2 अनेन (चन्द्रापीडेन) चामरकलापस्य अन्तरः मध्यप्रदेशैः इत एव मा प्रत्येव एतद् वीक्षितम् । एतदिति दर्शनक्रियायाः परामर्शः । सेयं सविलासमन्मथा कस्याश्चिदुक्तिः । 3 राजकुमारस्य (चन्द्रापीडस्य) इत्यर्थः । 4 उत्थाप्य ।
पाठा० - १ अलकचामरकलापान्तरेरितविरलवीक्षितम्। अनेकचामरकलापान्तरितमस्य वीक्षितम्. २ धवलित. ३ आलग्न. ४ करतल. ५ कोमलदीर्घाङ्गुलिः. ६ कवललालसः; कवलग्रासवाञ्छया. ७ मण्डलधारण.
188
कादम्बरी ।
कथायाम्