________________
लीभवसि । मुग्धे, निगृहस्व मदनज्वरजनितपुलकजालकम् । असाध्वाचरणे, किमेवमुत्ताम्यसि । बहुविकारे, अङ्गभगवलनायासितमध्यभागा वृथा खिद्यसे । शून्यहृदये, स्वभवनान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितुम्, अन्तःसंकल्परचितरतसमागमसुखरसनिमीलितलोचने, समुन्मीलय लोचनयुगलम्, अतिक्रामत्ययम् । अनङ्गशरप्रहारमूर्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम् । अयि सतीव्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती वञ्चयसि लोचनयुगलम् । अधन्ये, हतासि परपुरुषादर्शनव्रतेन । प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीतमकरध्वजं मकरध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव शशिकरकलापो मालतीकुसुमशेखरोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकतप्रभाश्यामायितमुपरचितविकचशिरीषकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्तर्निविष्टारु -
***********
गुरुजनाः पूज्यजनास्तेषां समक्ष प्रत्यक्षं किं धावसि किं प्रधावन करोषि । हे उल्लसत्स्वभावे प्रवर्धमानाशये । किमिति प्रश्ने । एवममुना प्रकारेणाकुलीभवसि व्याकुलता भजसे । हे मुग्धे ग्रथिले, मदनज्वरेण कामज्वरेण जनितं यत्पुलकजालक रोमाञ्चसमूह निगृहस्व संवृत करु। हे असाध्वाचरणे अशभचरिते । किमेवमत्ताम्यसि कथं ग्लानि भजसि । हे बहविकारे हे अनेकविकारवति, अङ्गाना भङ्गाः संस्थानविशेषास्तेषां वलनं संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा मधा खिद्यसे खेद प्राप्नोषि । हे शून्यहृदये शून्यचित्ते । स्वभवनानिजगृहादात्मानं निर्गतमपि बहिरागतमपि नावगच्छसि न जानासि । हे कौतुकाविष्टे हे कुतूहलगृहीते । निःश्वसितुं निःश्वासं ग्रहीतुं विस्मृतासि । कौतुकेनैवं व्याक्षिप्तचित्ताभूर्यथोच्छासमपि न गृह्णासीति भावः । अन्तःसंकल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुनप्राप्तिस्ततो यत्सुखं सातं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम्, लोचनयुगलं समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रामति गच्छति । हे अनङ्गशरप्रहारमूर्छिते हे कामबाणाघातनिश्चेतने, रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरीयांशुकपल्लवं शिरसि मस्तके कुरु विधेहि । अयीति कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रत पातिव्रत्यं तल्लक्षणो यो ग्रहस्तेन गृहीते, ग्रथिले इत्यर्थः । द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्यन्त्यनवलोकयन्ती लोचनयुगल वञ्चयसि वञ्चना करोषि । हे अधन्ये हे अभाग्ये, परपुरुषाणां यददर्शनव्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो येन दर्शनादेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव । हे सखि, उत्तिष्ठोत्थानं कुरु । रतिविरहितं रतिरहितमगृहीतो मकरचिह्नितो ध्वजो येनैवभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमिति । अस्य चन्द्रापीडस्य सितं यदातपत्र छत्रं तस्यान्तरेणान्तराऽलिकुलं भ्रमरकुलं तद्वन्नीले हरिते शिरसि मस्तकेऽयं मालतीकुसुमशेखरस्तिमिरस्य या शङ्का शङ्कनं तेन निपतितः शशिकरकलाप इव चन्द्ररश्मिसमूह इवाभिलक्ष्यते जनैर्जायते । तिमिरस्य शशिकरबाध्यत्वात्तच्छकया तद्धातयितुं निपतित इवेत्युत्प्रेक्षा । श्वेतत्वसाम्यान्मालतीकुसुमशेखरस्य चन्द्रकरकलापोपमानम् । एतदिति । अस्य कुमारस्यैतत्कपोलतलं गल्लात्परो भाग आभाति शोभते । कीदृश कपोलस्थलम् । कर्णाभरणस्य या मरकतप्रभा तया श्यामायितं श्यामवदाचरितम् । किमिव । उपरचितो निर्मितो विकचशिरीषकुसुमस्य कर्णपूरो यस्मिन्नेवभूतमिव । मरकतप्रभायाः श्यामत्वात्तयालंकृतस्य कपोलस्य -
- - - - - - - - - - - टिप्प० -1 चन्द्रापीडालाभादित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अंसावरणे. २. विविधागावलन; विविधाङ्गभङ्गवलन; विविधाङ्गभङ्गचलचलन. ३ सुरत; रति. ४ अधमे. ५ परिहारव्रतेन.
S
चन्द्रापीडप्रवेशे नारीणां भावालापाः
पूर्वभागः ।
187