________________
I
मदनान्धे संयमय मदनिश्चेतने, केशपाशम् । उत्क्षिप चन्द्रापीडदर्शनव्यसनिनि, काञ्चीदामकम् । उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् । अहृदये, गृहाण निपतितं दन्तपत्रम् | यौवनोन्मत्ते, विलोक्यसे जनेन स्थगय पयोधरभारम् । अपगतलज्जे, शिथिलीभूतमाकलय दुकूलम् । अलीकमुग्धे, द्रुततरमागम्यताम् । कुतूहलिनि, देहि नृपदर्शनान्तरम् । असंतुष्टे, कियदालोकयसे, । तरलहृदये, परिजनमपेक्षस्व । पिशाचि, गैलितोत्तरीया स्यसे जनेन । रागावृतनयने, पश्यसि न सखीजनम् । अनेक भङ्गिविकारपूर्णे, दुःखमकारणायासितहृदया जीवसि । मिथ्याविनीते, किं व्यपदेशवीक्षितैः, विश्रब्धं विलोकय । यौवनशालिनि, किं पीडयसि पयोधरभारेण, अतिकोपने, पुरतो भव । मत्सरिणि, किमेकाकिनी रुणत्सि वातायनम् । अनङ्गपरवशे, मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि । राँगासवमत्ते, निवारयात्मानम् । उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् । उल्लसत्स्वभावे, किमेवमाकु -
1
***:
******
लतां केशलतामुल्लासयोर्श्वीकुरु । हे मदनान्धे, चन्द्रलेखामलिकाभरणमुपाहर दूरीकुरु । उपहारार्थं पूजार्थं यानि कुसुमानि तैः, स्खलितचरणा पतसि । पतिष्यसीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । हे मदनिश्चेतने, केशपाशमलकसमूह संयमय सम्यग्बन्धनं कुरु । हे चन्द्रापीडदर्शनव्यसनिनि, काञ्चीदामकं रसनादामोत्क्षिपौच्चैर्नय । हे पापे, कपोलदोलायितं कपोलावलम्वि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु । हे अहृदये हृदयवर्जिते । निपतितं सस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु । हे यौवनोन्मत्ते, यौवनं तारुण्यं तेनोन्मत्ते, पयोधरभारं स्थगयाच्छादय । जनेन विलोक्यसे आगन्तुकलोकेन दृग्विषयीक्रियसे । हे अपगतलज्जे, अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्रलथीभूतं दुकूलं दुगूलमाकलय संयमय । हे अलीकमुग्धे, त्वं मुग्धा नासि । किंतु विं प्रतिपन्नासि । द्रुततरं शीघ्रतरमागम्यताम् । किमर्थं विलम्बं करोषि । हे कुतूहलिनि, कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम्, नृपदर्शनार्थमन्तरं विचलं देहि । 'विचालं मध्यमन्तरे' इति कोशः । हे असंतुष्टे संतोषवर्जिते, कियत्कियन्मात्रमालोकयसे वीक्षसे । हे तरलहृदये चञ्चलचित्ते, परिजनं परिच्छदमपेक्षस्वापेक्षां कुरु । हे पिशाचि हे राक्षसि, गलितं स्वस्थानात्सस्तमुत्तरीयं संव्यानं यस्या एवंविधा त्वं जनेन लोकेन हस्यसे । हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने लोचने यस्यास्तस्याः संबोधनम्, सखीजनमालिजन न पश्यसि न विलोकयसि । अनेकेति । अनेके ये भङ्गिविकाराः कौटिल्यविकारास्तैः पूर्णे भृते हे सखि, अकारणेन निमित्तव्यतिरेकेणायासितं खेदितं हृदयं ययैवंभूता सती दुःखं दुःखरूपमेव । न सुखेनेत्यर्थः । जीवसि प्राणान्धत्से । हे मिथ्याविनीते हे असत्येनं विनयकारिणि, व्यपदेशवीक्षितैः कपटावलोकितैः किम् । विश्रब्धं सविश्वासं यथा स्यात्तथा विलोकय पश्य । हे यौवनशालिनि हे तारुण्यशोभिनि, पयोधरभारेण स्तनभारेण किं पीडयसि किं पीडां जनयसि । मदुपरि पतनेनेति भावः । अतिकोपने हे चण्डि पुरतोऽग्र भव । हे मत्सरिणि हे अमर्षिणि, एकाकिनी वातायनं गवाक्षं किं रुणत्सि रोधनं कुरुषे । हे अनङ्गपरवशे हे मदनायत्ते, मदीयमुत्तरीयांशुकमुत्तरीयतामुपरिवस्त्रतां नयसि प्रापयसि । हे रागासवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीबे, आत्मानं निवारय वारणां कुरु । अतिरागवशान्मरणं भविष्यतीति भावः । हे उज्झितधैर्ये त्यक्तसाहसे, गुरुजनसमक्षं -
टिप्प० - 1 पतितां चन्द्रलेखाम् ('चाँद' 'बैंदा') उपाहर उत्थापय, गृहाणेत्यर्थः । 2 अवकाशम्, मह्यमपि दर्शनाय स्थानं देहीत्याशयः । 3 चन्द्रापीडलाभासंभवादकारणमेव हृदयस्यायासः दुःखमयं च जीवनमित्याशयः । 4 मिथ्यैव विनयाऽभिनयं प्रदर्शयसीत्यर्थः ।
पाठा० - १ भागम्. २ दर्शनान्तरम्. ३ पिशाचिके. ४ वलित. ५ विहस्यसे. ६ आलोकय. ७ रागमत्ते.
186
कादम्बरी |
कथायाम्