________________
मुहूर्तादिव युवतिजननिरन्तरतया नारीमया इव प्रासादाः, सालक्तकपदकमलविन्यासैः पल्लवमयमिव क्षितितलम्, अङ्गनाङ्गप्रभाप्रवाहेण लावण्यमयमिव नगरम्, आननमण्डलनिवहेन चन्द्रबिम्बमयमिव गगनतलम्, आतपनिवारणायोत्तोनितकरतलजालकेन कमलवनमयमिव दिक्चक्रवालम्, आभरणांशुकलापेनेन्द्रायुधमय इवातपः, लोचनमयूखलेखासंतानेन नीलोत्पलदलमय इव दिवसो बभूव । कौतुकप्रसारितनिश्चललोचनानां च पश्यन्तीनां तासामादर्शमयानीव सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापीडाकृतिः । आविर्भूतमदनरसानां चान्योन्यं सपरिहासाः सविश्रम्भाः ससंभ्रमाः सेाः सोत्प्रासाः साभ्यसूयाः सविलासाः समन्मथाः सस्पृहाश्च तत्क्षणं रमणीयाः प्रससुरालापाः । तथाहि 'त्वरितगमने, मामपि प्रतिपालय । दर्शनोन्मत्ते, गृहाणोत्तरीयम् । उल्लासयालकलतामाननावलम्बिनीम् । मूंढे, चन्द्रलेखामुपाहर । उपहारकुसुमस्खलितचरणा पतसि -
*********** मुहूर्तादिव मुहूर्तानन्तरं युवतिजनैः स्त्रीजनैर्निरन्तरतया निबिडतया प्रासादा भूपसद्मानि नारीमया इव स्त्रीभिर्निष्पन्ना इव बभूवुः । सालक्तक सयावकं यत्पदकमलं चरणपद्मं तस्य विन्यासैः स्थापनैः क्षितितलं वसुधातलं पल्लवमयमिव किसलयमयमिवासीत् । अङ्गनाना योषितामङ्गस्य शरीरस्य प्रभाप्रवाहेण कान्तिधारया नगरं द्रङ्ग लावण्यमयमिव चातुर्यमयमिवासीत् । आननं मुखं तस्य मण्डलम् । वर्तुलाकृतित्वात् । तेषां निवहेन समूहेन गगनतलं व्योमतलं चन्द्रबिम्बमयमिवासीत् । आतपनिवारणाय सूर्यालोकदूरीकरणायोत्तानितान्यूर्वीकृतानि यानि करतलानि तेषां जालकेन समूहेन दिक्चक्रवालं दिशां चक्र कमलवनमयमिवासीत् । आभराणानां भूषणानामंशवः किरणास्तेषां कलापेन समूहेनातप इन्द्रायुधमय इवासीत् । लोचनानां नेत्राणां या मयूखलेखाः कान्तिराजयस्तासां संतानेन परंपरया दिवसो नीलोत्पलदलमय इव बभूव । नीलनलिनदलैर्निष्पन्न इवेत्यर्थः । कौतुकेन कुतूहलेन प्रसारितानि विस्तारितान्यतएव निश्चलानि स्थिराणि लोचनानि नेत्राणि यासामेवंविधानां पश्यन्तीनां विलोकयन्तीनां तासां योषितां हृदयानि चन्द्रापीडाकृतिविवेश प्रविष्टा । हृदयानि विशेषयनाह - आदर्शति । आदर्शो मुकुरस्तन्मयानीव तद्रूपाणीव । सलिलं जलं तन्मयानीव । स्फटिकः प्रसिद्धस्तन्मयानीव । प्रतिबिम्बसाधयदितेषामुपमानम् । आविरिति । आविर्भूतः प्रकटीभूतो मदनरसः कामरसो यासामेवंविधानां कामिनीनामन्योन्यं परस्परं तत्क्षणं तस्मिन्समये रमणीया मनोहरा आलापाः संलापाः प्रससुर्विस्तारं प्रापुः । आलापान्विशिनष्टि - सपरीति । सह परिहासेन नर्मवचनेन वर्तमानाः सपरिहासाः । सह विश्रम्भेण विश्वासेन वर्तमानाः सविश्रम्भाः । सह संभ्रमेण भयेन वर्तमानाः ससंभ्रमाः । सहेjया परासहनलक्षणया वर्तमानाः सेाः । सहोत्प्रासेन वितर्केण वर्तमानाः सोत्प्रासाः । सहाभ्यसूययान्यगुणासहनात्मिकया वर्तमानाः साभ्यसूयाः । सह विलासेन नेत्रजेन वर्तमानाः सविलासाः । सह मन्मथेनानङ्गेन वर्तमानाः समन्मथाः । सह स्पृहया वाञ्छया वर्तमानाः सस्पृहाः । तानेव प्रदर्शयन्नाह - तथाहीति । त्वरितं शीघ्रं गमनं यस्यास्तस्या संबोधनं हे त्वरितगमने । मां सखीमपि प्रतिपालय । गृहीत्वा गच्छेत्यर्थः । दर्शनेऽवलोकन उन्मत्ता ग्रथिला तस्याः संबोधनं हे दर्शनोन्मत्ते । उत्तरीयमुपरिवस्त्रं गृहाण । पतन्तं निवारयेत्यर्थः । हे मूढेऽनभिज्ञे । आननावलम्बिनीं मुखोपरि सस्तामलक - टिप्प० - 1 सौन्दर्यमयमिति तात्पर्यम् । 2 उत्प्रासेन मन्दहासेन सहिताः, 'उत्प्रासः स मनाक् स्मितम् अमरः । 3 उल्लासय इतः पूर्वं 'चपत्वे' इति सवोधनं । इदं त्वतनम् । पाटा० - १ अङ्गप्रभा; अङ्गनानामङ्गप्रभा. २ उत्तानितेन. ३ आभरणांशुककलापेन. ४ साभ्यसूयालोचन. ५ अन्योन्यतः. ६ अतिरमणीयाः, अभिरमणीयाः. ७ चपले उल्लासय. ८ चन्द्रलेखे किमुपहार. ९ मुहुरुपाहर. १० समुपाहर.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
चन्द्रापीडप्रवेशे नारीणां भावालापाः
पूर्वभागः ।
185