________________
मुत्थितेन्द्रायुधतया परिचयानुगतगृहमयूरिका इव विरोजन्त्यः, काश्चिदर्धपीतोज्झितमणिचषकाः स्फुरितगरागैर्मधुरसमिवाधरपल्लवैः क्षरन्त्यो हर्म्यतलानि ललनाः समारुरुहुः । अन्याश्च मरकतवातायनविवरविनिर्गतमुखमण्डला विकचकमलकोशपुटामम्बरतलसंचारिणी कमलिनीमिव दर्शयन्त्यो ददृशुः । उदपादि च सहसा सरभससंचलनजन्मा, मधुरसारणास्फालितवीणारवकोलाहलबहलः, रसनारवाहूतसारसरसितसंभिन्नः, स्खलितचरणतलताडितसोपानजातगम्भीरध्वनिप्रहृष्टानामवरोधशिखण्डिनां केकारवैरनुगम्यमानः, नवजलधररवभयचकितकलहंसकोलाहलकोमलः, मकरध्वजविजयघोषणानुकारी, परस्परविघट्टनारणिततौरेतरहारमणीनां रमणीनां श्रोत्रहारी, हर्नाकुक्षिषु प्रतिरवनिर्बादी भूषणनिनादः ।
***********
मयूर्य इव विराजन्त्यः । पूर्वनायिकानामिन्द्रायुधरागरुचिराम्बरपरिधानवत्त्ववर्णनादेतदुपमानम् । काश्चिदिति । अर्धं पीतं पानविषयीकृत येष्वेवंविधा उज्झितास्त्यक्ता मणिचषका रत्ननिर्मितपानभाजनानि याभिस्ताः । स्फुरितो देदीप्यमानो रागो रक्तिमा येष्वेवंविधैरधरपल्लवैर्दन्तच्छदकिसलयैर्मधुरसमिव कादम्बरीरसमिव क्षरन्त्यः क्षरणं कुर्वत्यः । रक्तत्वसाम्यादधररागस्य मधुरसोपमानमिति भावः । ललना हऱ्यातलानि समारुरुहुरित्यन्वयस्तु प्रागेवोक्तः । अन्याश्चेति । अन्याः काश्चन स्त्रियश्चन्द्रापीडं ददृशुद्राक्षुः । कीदृश्यः । मरकतस्याश्मगर्भस्य ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिर्गतं बहिरागतं मुखमण्डलं यासां ताः । कमिव । विकचं स्फीतं कमलकोशपुट यस्यामेवंविधामम्बरतलसंचारिणीं व्योमतलगामिनी कमलिनीमिव दर्शयन्त्य आत्मानं प्रकाशयन्त्यः । अत्र नीलत्वसाम्यान्मरकताम्बरयोः साम्यं वर्तुलत्वसाम्यान्मुखकमलयोः साम्यं च प्रदर्शितम् । ततो भूषणनिनादोऽङ्गाभरणध्वनिः सहसा सद्य उदपायुत्पन्नः । अथ ध्वनि विशेषयन्नाह - सरभसेति । सरभसं सत्वरं यत्संचलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्य स तथा । मधुरं यथा स्यात्तथा सारणासु तन्त्रीष्वास्फालिता या वीणा वल्लक्यस्तासां रवः शब्दस्तज्जनितो यः कोलाहलः कलकलस्तेन बहलो दृढः । रसना काञ्ची तस्या रवेण शब्देनाहूता आमन्त्रिता ये सारसा लक्ष्मणास्तेषां रसितं शब्दितं तेन संभिन्नो मिश्रितः । स्खलिताः स्खलनां प्राप्ता ये चरणाः प्रादास्तेषा तलेन ताडितं हतं यत्सोपानजातमारोहणसमूहं ततो यो गम्भीरध्वनिर्मन्द्रध्वनिस्तेन प्रहृष्टानां हर्षितानामवरोधशिखण्डिनामन्तःपुरमयूराणा केकारवैरनुगम्यमानः । नवो नवीनोऽकालसंभवो यो जलधरो मेघस्तस्य यो रवः शब्दस्तस्माद्यद्भयं तेन चकितास्त्रस्ता ये कलहंसाः कादम्बास्तेषां कोलाहलस्तेन कोमलो मधुरः । हर्षप्रकर्षाद्वाद्यमानपटहध्वनेर्नवजलधरध्वनिसाम्यम् । मकरध्वजस्यकन्दर्पस्य या विजयघोषणा त्रैलोक्यं मया जितमित्युद्धोषणं तस्या अनुकारी सादृश्यकरणशीलः । परस्परं यद्विशेषेण घट्टनं संश्लेषस्तेनारणिताः शब्दितास्तारतरा आकरशुद्धोद्भवा अतिमनोहरा हारमणयो यासामेवंविधानां रमणीनां स्त्रीणां श्रोत्रहारी कर्णमनोहरः । हर्नाकुक्षिषु गृहकोणेषु प्रतिरवनिर्बादः प्रतिच्छन्दध्वनिर्विद्यते यस्य स तथा । ततो भषणध्वनिरूदपादीत्यन्वयस्त प्रागेवोक्तः । - - - - - - - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - टिप्प० - 1 नपुरमणिभ्यः समुत्थितानि उद्गतानि इन्द्रायुधानि इन्द्रधनुःसदृशनानावर्णप्रभामण्डलानि यासां तत्तया, परिचयवशादनुगता गृहमयूरिका यासा ता इव । मयूरीणां यथा नानावर्णमयपक्षशालित्वं तथा नपुरमणीनामपि विविधरागकान्तिशालित्वम् । ततश्च नपुरमणीना विविधरङ्गशालितयैव अनुगतमयूरिकात्वोत्प्रेक्षेत्यर्थः । 2 अर्धपीतानि पश्चादुझिातानि मणिनिर्मितानि चषकाणि याभिस्ता इत्यर्थ उचितः । चषकाणां तत्स्थितमद्येषु लक्षणा । 3 अत्र स्त्रियः कमलिनी(कमलखण्ड)स्थानीयाः, तन्मुखानि च विकचकमलपुष्पस्थानीयानीत्याशयः । 4 स्खलितचरणतलताडनेनैव सोपानश्रेण्या मेघगम्भीरो ध्वनिः, तेनैव मयूराणां हंसानां च जलदभ्रान्तिरिति ज्ञेयम् । 5 अतिबहुमूल्या अतिस्थूला वा । पाठा० - १ परिचर्या. २ विराजयन्त्यः. ३ दीर्घ. ४ पुटाम्बर. ५ साधारण. ६ कोलाहलः. ७ गृहसारस. ८ चरणताडित. ९ मणिसोपान. १० प्रहृष्टताम्. ११ हसकुल. १२ तारहार.
(184
कादम्बरी ।
कथायाम्